।। श्रीः ।।
।। नन्दिकेश्वरकाशिका ।।
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ।।१।।
अत्र सर्वत्र सूत्रेषु अन्त्यवर्णचतुर्दशम् ।
धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ।।२।।
।। अइउण् ।।१।।
अकारो ब्रह्मरूपः स्यान्निर्गुणः सर्ववस्तुषु ।
चित्कलामिं समाश्रित्य जगद्रूप उणीश्वरः ।।३।।
अकारः सर्ववर्णाग्र्यः प्रकाशः परमेश्वरः ।
आद्यमन्त्येन संयोगादहमित्येव जायते ।।४।।
सर्वं परात्मकं पूर्वं ज्ञप्तिमात्रमिदं जगत् ।
ज्ञप्तेर्बभूव पश्यन्ती मध्यमा वाक् ततः स्मृता ।।५।।
वक्त्रे विशुद्धचक्राख्ये वैखरी सा मता ततः ।
सृष्ट्याविर्भावमासाद्य मध्यमा वाक् समा मता ।।६।।
अकारं सन्निधीकृत्य जगतां कारणत्वतः ।
इकारः सर्ववर्णानां शक्तित्वात् कारणं गतम् ।।७।।
जगत् स्रष्टुमभूदिच्छा यदा ह्यासीत्तदाऽभवत् ।
कामबीजमिति प्राहुर्मुनयो वेदपारगाः ।।८।।
अकारो ज्ञप्तिमात्रं स्यादिकारश्चित्कला मता ।
उकारो विष्णुरित्याहुर्व्यापकत्वान्महेश्वरः ।।९।।
।। ऋऌक् ।।२।।
ऋऌक् सर्वेश्वरो मायां मनोवृत्तिमदर्शयत् ।
तामेव वृत्तिमाश्रित्य जगद्रूपमजीजनत् ।।१०।।
वृत्तिवृत्तिमतोरत्र भेदलेशो न विद्यते ।
चन्द्रचन्द्रिकयोर्यद्वद् यथा वागर्थयोरपि ।।११।।
स्वेच्छया स्वस्य चिच्छक्तौ विश्वमुन्मीलयत्यसौ ।
वर्णानां मध्यमं क्लीबमृऌवर्णद्वयं विदुः ।।१२।।
।। एओङ् ।।३।।
एओङ् मायेश्वरात्मैक्यविज्ञानं सर्ववस्तुषु ।
साक्षित्वात् सर्वभूतानां स एक इति निश्चितम् ।।१३।।
।। ऐऔच् ।।४।।
ऐऔच् ब्रह्मस्वरूपः सन् जगत् स्वान्तर्गतं ततः ।
इच्छया विस्तरं कर्त्तुमाविरासीन्महामुनिः ।।१४।।
।। हयवरट् ।।५।।
भूतपञ्चकमेतस्माद्धयवरण्महेश्वरात् ।
व्योमवाय्वम्बुवह्न्याख्यभूतान्यासीत् स एव हि ।।१५।।
हकाराद् व्योमसंज्ञं च यकाराद्वायुरुच्यते ।
रकाराद्वह्निस्तोयं तु वकारादिति सैव वाक् ।।१६।।
।। लण् ।।६।।
आधारभूतं भूतानामन्नादीनां च कारणम् ।
अन्नाद्रेतस्ततो जीवः कारणत्वाल्लणीरितम् ।।१७।।
।। ञमङणनम् ।।७।।
शब्दस्पर्शौ रूपरसगन्धाश्च ञमङणनम् ।
व्योमादीनां गुणा ह्येते जानीयात् सर्ववस्तुषु ।।१८।।
।। झभञ् ।।८।।
वाक्पाणी च झभञासीद्विराड्रूपचिदात्मनः ।
सर्वजन्तुषु विज्ञेयं स्थावरादौ न विद्यते ।।
वर्गाणां तुर्यवर्णा ये कर्मेन्द्रियमया हि ते ।।१९।।
।। घढधष् ।।९।।
घढधष् सर्वभूतानां पादपायू उपस्थकः ।
कर्मेन्द्रियगणा ह्येते जाता हि परमार्थतः ।।२०।।
।। जबगडदश् ।।१०।।
श्रोत्रत्वङ्नयनघ्राणजिह्वाधीन्द्रियपञ्चकम् ।
सर्वेषामपि जन्तूनामीरितं जबगडदश् ।।२१।।
।। खफछठथचटतव् ।।११।।
प्राणादिपञ्चकं चैव मनो बुद्धिरहङ्कृतिः ।
बभूव कारणत्वेन खफछठथचटतव् ।।२२।।
वर्गद्वितीयवर्णोत्थाः प्राणाद्याः पञ्च वायवः ।
मध्यवर्गत्रयाज्जाता अन्तःकरणवृत्तयः ।।२३।।
।। कपय् ।।१२।।
प्रकृतिं पुरुषञ्चैव सर्वेषामेव सम्मतम् ।
सम्भूतमिति विज्ञेयं कपय् स्यादिति निश्चितम् ।।२४।।
।। शषसर् ।।१३।।
सत्त्वं रजस्तम इति गुणानां त्रितयं पुरा ।
समाश्रित्य महादेवः शषसर् क्रीडति प्रभुः ।।२५।।
शकारद्राजसोद्भूतिः षकारात्तामसोद्भवः ।
सकारात्सत्त्वसम्भूतिरिति त्रिगुणसम्भवः ।।२६।।
।। हल् ।।१४।।
तत्त्वातीतः परं साक्षी सर्वानुग्रहविग्रहः ।
अहमात्मा परो हल् स्यामिति शम्भुस्तिरोदधे ।।२७।।
।। इति नन्दिकेश्वरकृता काशिका समाप्ता ।।
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
त्रिशष्टिश्चतुह शष्टिर्वा वर्णाः शम्भुमते मताः
प्राकृते संस्कृते चापि स्वयं प्रोक्ता स्वयम्भुवा
-- Trans. There are considered to be 63 or 64 varṇā-s in the school (mata) of śambhu. In Prakrit and Sanskrit by swayambhu (manu, Brahma), himself, these varṇā-s were stated. (pāṇini’s śikṣā) पाणिनीय शिक्षा
What is the 64th varṇa in प्राकृतं ?
भाषा समः a figure of speech, which consists in so arranging the words of a sentence that it may be con-sidered and read either as Sanskṛit or Prākṛita (one or more of its varieties); e. g.मञ्जुलमणिमञ्जीरे कलगभ्भीरे विहारसरसीतीरे । विरसासि केलिकीरे किमालि धीरे च गन्धसारसमीरे ॥ S. D.642 (एष श्लोकः संस्कृतप्राकृतशौरसेनीप्राच्यावन्तीनागराप- भ्रंशेष्वेकविध एव); किं त्वां भणामि विच्छेददारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परिरम्भणम् Māl.6.11. (which is in Sanskṛit or Śaurasenī)
I find this entry in Apte's lexicon. Was a term भाषार्य (said to have been used in Pannavatanasutta) used in any Skt. text?
http://www.hindu-tva.com-a.googlepages.com/aryaanarya.pdf
kalyan
अभिवन्द्य,
On Nov 16, 7:31 am, "S. Kalyanaraman" <kalya...@gmail.com> wrote:
> त्रिशष्टिश्चतुह शष्टिर्वा वर्णाः शम्भुमते मताः
>
> प्राकृते संस्कृते चापि स्वयं प्रोक्ता स्वयम्भुवा
>
> -- Trans. There are considered to be 63 or 64 varṇā-s in the school (
> mata) of śambhu. In Prakrit and Sanskrit by swayambhu (manu, Brahma),
> himself, these varṇā-s were stated. (pāṇini’s śikṣā) पाणिनीय शिक्षा
>
> What is the 64th varṇa in प्राकृतं ?
>
> kalyan
>
> 2010/11/16 girav...@juno.com <girav...@juno.com>
>
>
>
>
>
>
>
> > Nov. 15, 2010
>
> > Respected Scholars, Namaskar!
>
> > Nandikeshvara KAshikA.
>
> > Would you kindly post the meaning of these verses in English?
> > Is the composer trying to explain meanings of Sanskrit phonemes from
> > ShivasUtras or VarNasUtras used by PaNini? Or is he attaching meanings to
> > VarNas? Is there any basis for that?
>
> > From time to time there are references to multiple meanings being
> > associated with Sanskrit VarNas as discussed in Aks.amAlikA Upanis.ada,
> > Ahirbudhnya SamhitA and Vishvamitra SamhitA. They do not make any sense.
> > Sometimes Sanskrit VarNas are attached to petals of Yoga cakras.Can somebody
> > explain what sense they indicate?
> > The modern linguistics and some ancient Sanskrit grammarians are of the
> > opinion that VarNas do not carry any sensible significance. They are only
> > for differentiation purpose. Thanks. N.R.Joshi
>
> > ---------- Original Message ----------
> > From: narayanan er <drernaraya...@yahoo.com>
> > To: bvpar...@googlegroups.com
> > Subject: {भारतीयविद्वत्परिषत्} नन्दिकेश्वरकाशिका
> > Date: Mon, 15 Nov 2010 15:19:05 +0530 (IST)
>
> > *।। श्रीः ।।*
>
> > *।। नन्दिकेश्वरकाशिका ।।*
>
> > * **नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।*
>
> > * **उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ।।१।।*
>
> > * **अत्र सर्वत्र सूत्रेषु अन्त्यवर्णचतुर्दशम् ।*
>
> > * **धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ।।२।।*
>
> > *।। अइउण् ।।१।।*
>
> > * **अकारो ब्रह्मरूपः स्यान्निर्गुणः सर्ववस्तुषु ।*
>
> > * **चित्कलामिं समाश्रित्य जगद्रूप उणीश्वरः ।।३।।*
>
> > * **अकारः सर्ववर्णाग्र्यः प्रकाशः परमेश्वरः ।*
>
> > * **आद्यमन्त्येन संयोगादहमित्येव जायते ।।४।।*
>
> > * **सर्वं परात्मकं पूर्वं ज्ञप्तिमात्रमिदं जगत् ।*
>
> > * **ज्ञप्तेर्बभूव पश्यन्ती मध्यमा वाक् ततः स्मृता ।।५।।*
>
> > * **वक्त्रे विशुद्धचक्राख्ये वैखरी सा मता ततः ।*
>
> > * **सृष्ट्याविर्भावमासाद्य मध्यमा वाक् समा मता ।।६।।*
>
> > * **अकारं सन्निधीकृत्य जगतां कारणत्वतः ।*
>
> > * **इकारः सर्ववर्णानां शक्तित्वात् कारणं गतम् ।।७।।*
>
> > * **जगत् स्रष्टुमभूदिच्छा यदा ह्यासीत्तदाऽभवत् ।*
>
> > * **कामबीजमिति प्राहुर्मुनयो वेदपारगाः ।।८।।*
>
> > * **अकारो ज्ञप्तिमात्रं स्यादिकारश्चित्कला मता ।*
>
> > * **उकारो विष्णुरित्याहुर्व्यापकत्वान्महेश्वरः ।।९।।*
>
> > *।। ऋऌक् ।।२।।*
>
> > * **ऋऌक् सर्वेश्वरो मायां मनोवृत्तिमदर्शयत् ।*
>
> > * **तामेव वृत्तिमाश्रित्य जगद्रूपमजीजनत् ।।१०।।*
>
> > * **वृत्तिवृत्तिमतोरत्र भेदलेशो न विद्यते ।*
>
> > * **चन्द्रचन्द्रिकयोर्यद्वद् यथा वागर्थयोरपि ।।११।।*
>
> > * **स्वेच्छया स्वस्य चिच्छक्तौ विश्वमुन्मीलयत्यसौ ।*
>
> > * **वर्णानां मध्यमं क्लीबमृऌवर्णद्वयं विदुः ।।१२।।*
>
> > *।। एओङ् ।।३।।*
>
> > * **एओङ् मायेश्वरात्मैक्यविज्ञानं सर्ववस्तुषु ।*
>
> > * **साक्षित्वात् सर्वभूतानां स एक इति निश्चितम् ।।१३।।*
>
> > *।। ऐऔच् ।।४।।*
>
> > * **ऐऔच् ब्रह्मस्वरूपः सन् जगत् स्वान्तर्गतं ततः ।*
>
> > * **इच्छया विस्तरं कर्त्तुमाविरासीन्महामुनिः ।।१४।।*
>
> > *।। हयवरट् ।।५।।*
>
> > * **भूतपञ्चकमेतस्माद्धयवरण्महेश्वरात् ।*
>
> > * **व्योमवाय्वम्बुवह्न्याख्यभूतान्यासीत् स एव हि ।।१५।।*
>
> > * **हकाराद् व्योमसंज्ञं च यकाराद्वायुरुच्यते ।*
>
> > * **रकाराद्वह्निस्तोयं तु वकारादिति सैव वाक् ।।१६।।*
>
> > *।। लण् ।।६।।*
>
> > * **आधारभूतं भूतानामन्नादीनां च कारणम् ।*
>
> > * **अन्नाद्रेतस्ततो जीवः कारणत्वाल्लणीरितम् ।।१७।।*
>
> > *।। ञमङणनम् ।।७।।*
>
> > * **शब्दस्पर्शौ रूपरसगन्धाश्च ञमङणनम् ।*
>
> > * **व्योमादीनां गुणा ह्येते जानीयात् सर्ववस्तुषु ।।१८।।*
>
> > *।। झभञ् ।।८।।*
>
> > * **वाक्पाणी च झभञासीद्विराड्रूपचिदात्मनः ।*
>
> > * **सर्वजन्तुषु विज्ञेयं स्थावरादौ न विद्यते ।।*
>
> > * **वर्गाणां तुर्यवर्णा ये कर्मेन्द्रियमया हि ते ।।१९।।*
>
> > *।। घढधष् ।।९।।*
>
> > * **घढधष् सर्वभूतानां पादपायू उपस्थकः ।*
>
> > * **कर्मेन्द्रियगणा ह्येते जाता हि परमार्थतः ।।२०।।*
>
> > *।। जबगडदश् ।।१०।।*
>
> > * **श्रोत्रत्वङ्नयनघ्राणजिह्वाधीन्द्रियपञ्चकम् ।*
>
> > * **सर्वेषामपि जन्तूनामीरितं जबगडदश् ।।२१।।*
>
> > *।। खफछठथचटतव् ।।११।।*
>
> > * **प्राणादिपञ्चकं चैव मनो बुद्धिरहङ्कृतिः ।*
>
> > * **बभूव कारणत्वेन खफछठथचटतव् ।।२२।।*
>
> > * **वर्गद्वितीयवर्णोत्थाः प्राणाद्याः पञ्च वायवः ।*
>
> > * **मध्यवर्गत्रयाज्जाता अन्तःकरणवृत्तयः ।।२३।।*
>
> > *।। कपय् ।।१२।।*
>
> > * **प्रकृतिं पुरुषञ्चैव सर्वेषामेव सम्मतम् ।*
>
> > * **सम्भूतमिति विज्ञेयं कपय् स्यादिति निश्चितम् ।।२४।।*
>
> > *।। शषसर् ।।१३।।*
>
> > * **सत्त्वं रजस्तम इति गुणानां त्रितयं पुरा ।*
>
> > * **समाश्रित्य महादेवः शषसर् क्रीडति प्रभुः ।।२५।।*
>
> > * **शकारद्राजसोद्भूतिः षकारात्तामसोद्भवः ।*
>
> > * **सकारात्सत्त्वसम्भूतिरिति त्रिगुणसम्भवः ।।२६।।*
>
> > *।। हल् ।।१४।।*
>
> > ***तत्त्वातीतः परं साक्षी सर्वानुग्रहविग्रहः ।*
>
> > ***अहमात्मा परो
>
> ...
>
> read more »