मत्कृतं डमड्डाद्वयस्तोत्रं सविनयमत्र प्रकाश्यते। अस्य नामनि डमड्डमिति पदं डमरुध्वनिसंकेताय, अद्वयपदं च अद्वैतवादसंकेताय। अत उच्यते -
जगदनुभाविन् परमनियन्तो,
निखिलविकल्पविहीन डमड्डम्।१
आत्ममात्र केवल विज्ञातः,
शिव भव शङ्कर सरल डमड्डम्।२
सोऽहमहं सः सोऽहमहं सः,
इति विधिना यो वेद डमड्डम्।३
परमबोधवह्निप्रज्वलितः,
स्वात्ममात्रशेषः स डमड्डम्।४
जाग्रत्स्वप्नसुषुप्तित्रय्या,
भोक्तः स्वयं तुरीय डमड्डम्।५
नित्यानित्यद्वयातिरिक्त,
सदसद्द्वन्द्वविहीन डमड्डम्।६
शून्याशून्यद्वितयान्य त्वम्,
मत्स्वभाव मदनन्य डमड्डम्।७
तुभ्यं नमो नमो मह्यं च,
मत्त्वदैक्यबोधेन डमड्डम्।८