--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
मान्यजगन्नाथमहोदयेभ्य:, अन्येभ्य: विद्वद्वरेभ्यश्च प्रणामा:।
भवद्भि: प्रसक्तस्य अक्षरवर्णविषयकस्य भेदस्य विषये किञ्चिद्वक्तुकामोऽयं जन:।
अक्षरस्य निर्वचनम् शौनकमहर्षिणा ऋक्प्रातिशाख्यग्रन्थे इत्थमुक्तमासीत्।
"सव्यञ्जन: सानुस्वार: शुद्धो वापि स्वरोऽक्षरम्।" इति
अस्य उव्वटाचार्यस्य भाष्ये उक्तमासीत्। व्यञनेन युक्त:, अनुस्वारेण सहित: अथवा शुद्ध: (अनुस्वरेण रहित:, व्यञ्जनेन रहित:) स्वर: अक्षरसंज्ञ: भवति इति। "स्वरमात्रस्य अक्षरसंख्या विधीयते" इति उव्वटाचार्यस्य अभिप्राय:।
शुक्लयजु:प्रातिशाख्ये कात्यायनेनापि "स्वरोऽक्षरम्" इत्युक्तम्।
एतदेव सूत्रं अथर्वप्रातिशाख्यायामपि दृश्यते।
अक्षरसंज्ञां तु एवं विधाय वर्णविषये तु विस्तरेण शौनक: अनेन प्रकारेण प्रपञ्चितवाऩ्।
"वर्णमाला" इति शीर्षि्कां दत्वा तत्र -
अकारर्कारावि उ ए ओ ऐ औ।
पदाद्यन्तयोर्न ऌकार: स्वरेषु।
अकारादीऩ् दीर्घरूपान्द्वितीयान्ह्रस्वेषु।
पञ्चस्वपि तानि सन्ति। (अ, ऋ, ऌ, इ, उ इति पञ्चसु दिर्घाणि सन्ति।)
कखौ गघाउ ङ । चछौ जझौ ञ । टठौ डढौ ण। तथौ दधौ न। पफौ बभौ म।
यरलवा:। हशषसा:। अ: :क :फ अं। इति वर्णराशि: क्रमश्च। इति वर्णमलापरिचयमकरोत्।
शौनकेन वर्णराशिरिति वर्णमालेति च यदुक्तं तस्य व्य्ख्याकारेण उव्वटेन वर्णसंघात: इति वर्णसमूह: इति वर्णसमाम्नाय: इति च व्यवहार: कृत:।
शौनकेन वर्णा: त्रिधा प्रोक्ता: स्वरा:, व्यञ्जनानि, अनुस्वारश्चेति। तेषु-
"अ,आ,ऋ,ॠ,ऌ,ॡ, इ,ई,उ,ऊ, ए,ओ,ऐ,औ" इत्येतेषां वर्णानां स्वरा: इति संज्ञा विहिता। एते उदात्तानुदात्तस्वरितप्रचया: इति उव्वटेन कथितम्। तत्रैव स्वर्यन्ते इति स्वरा: स्वरशब्दस्य निष्पत्ति: निरूपिता।
अनुस्वारो व्यञ्जनं वा स्वरो वा। इति अनुस्वरस्य उभयात्मकत्वमुक्तम् शौनकेन।
सर्वशेषो व्यञ्जनान्येव इतिकथितम् तेन मुनिना। (अत्र व्यञ्जयन्ति प्रकटाऩ् कुर्वन्ति अर्थाऩ् इति व्यञ्जनानि इति उव्वटवचनमासीत्।
श्वासता, नादता, उभयता (श्वासता-नादता) इति त्रौय: वर्णानां प्रकृतयो भवन्ति इति शौनकमतम्। अत: तेन कथितम् "ता: वर्णानां प्रकृतयो भवन्ति" इति।
"अनुप्रदानात्संसर्गात् स्थानात़्करणविभ्रमात्।
जायते वर्णवैशेष्यं परिमाणाच्च पञ्चमात् ॥" इति पञ्च वर्णवैशेष्यहेतूनां प्रस्तावमकरोत्
तैत्तिरीयप्रातिशाख्यकार:।
एते वर्णा: अनित्या: इति शौनकस्योक्ति:।
बृहद्देशीकारेण मतङ्गपण्डितेनापि वर्णनिरूपणमेवं कृतम्।
"पदवाक्यस्वरूपेण वाक्यार्थवहनेन यत्।
वर्णा यत्र जगत् सर्वं तेन वर्णा: प्रकीर्तिता:॥" इति।
अनेन प्रकारेण शौनककात्यायनादिमुनीनां मतानुसारं केवलं स्वरा: एव "अक्षर" शब्दवाच्या: भवन्ति। कीदृशा: स्वरा: इत्यत्र "सव्यञ्जन: सानुस्वार:
शुद्धो वा स्वरोऽक्षरम्" इति नियम: स्मरणीय:। वर्णानां विषये पूर्वोक्तत्रैविध्यं स्मरणीयम्।
इत्युक्त्वा विरमामि विस्तरात् .
बुधजनविधेय:,
डा. राणि सदाशिवमूर्ति:।
--- On Mon, 28/6/10, Jagannatha S <jgra...@gmail.com> wrote: |
|
अक्षरं परमं पदम्, अक्षरं परं ब्रह्म, वर्णो नित्यः इत्यादिभिः परश्शतै
र्वाक्यैश्च, इदमेव अभिप्रेयत इत्यलं विस्तरेण।
वंशीकृष्ण घनपाठी
On Jun 28, 9:24 pm, I V Nacharya I <ivi...@yahoo.co.in> wrote:
> महोदय,
> प्रणम्य। अक्षरवर्णशब्दौ समानार्थकौ।शब्दरत्नाकरनाम्नि आन्ध्रनिघंटौ अक्षरशब्दस्य पर्यायपदानि एवं सन्ति।
> अक्षरः=विष्णुः।शिवः।ब्रह्मा।नाशरहितः। अक्षरचणः,अक्षरचुञ्चुः,इति द्वे पदे लेखकः इत्यर्थे समानार्थके।"अक्षर"इति पदस्य
> विकृति रेव अक्करमु(आन्ध्र्याम्) वर्णः इत्यस्य "अक्षरः"इति अर्थः लिखितोऽस्ति।
> सर्वशब्म्बोधिन्या मेव मस्ति।
> अक्षरम्=मोक्षः,प्रणवः,धर्मः,प्रकृतिः,तपः,क्रतुः,परमात्मा,अकाराद्यक्षरः,
> लघुशब्दार्थसर्वस्वे "अ"कारः अक्षरमातृकाया म्प्रथमो वर्णः इति लिखितम्।
> उत्तरमीमांसाया मक्षराधिकरण मिति अध्याय एव अस्ति।
> अक्षराभ्यास इति अस्माकं शैशवे प्रसिद्धः कार्यक्रम एव अस्ति।
> भगवद्गीताया मक्षरपरब्रह्मयोगो नाम अध्यायोऽप्यस्ति।
> अक्षराभ्यासकार्यक्रमस्य आन्तर्य न्तु परमात्मविषयकज्ञानसम्पादनमेव।चतुर्विंशति तत्त्वानि,पञ्चविंशति तत्त्वं जीवः,
> षड्विंशति तत्त्वं परमात्मा इति तत्त्वानि सर्वाण्यपि अक्षरमालायां सन्ति।अक्षरमाला,वर्णमाला इति शब्दौ समानार्थकावेव। ख वेद आम्नायशब्दावपि समानार्थकावेव। अक्षरवेद इति प्रसिद्धो व्यवहारः। वेदे यदस्ति तत्सर्व मप्यक्षरसमाम्नाये
> सङ्ग्रहरूपेण अस्त्येव। अत एव सहजपाण्डित्यबिरुदाङ्कितः पॊतनामात्य कविपुङ्गवः एव मवोचत्"कुम्भिनीधवु चेप्पेडि
> गुरुडु गुरुडु"इति\(तस्य वाक्यं तेलुगु भाषायां लिखितम्।) एतावता वर्णः,अक्षरः,शब्दः समानार्थका इति मे मतिः।उपरि भवादृशाः प्रिय विद्वत्सुहृद एव प्रमाणम्।
> अभिवन्द्य,
> ऐ.वि.यन्.<ऐवियनेट्याहूडाट्कोडाटिन्>----- Original Message ----
> From: Jagannatha S <jgran...@gmail.com>
> > निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)- Hide quoted text -
>
> - Show quoted text -
| श्रीजगन्नाथमहोदया:! नमांसि! सङ्गीतशास्त्रगतस्वराणां विषये तज्ज्ञानामभिप्राया: इत्थं दृश्यन्ते। अभिनवगुप्ताचार्याणां मतम्। "स्वर इति। स्वृशब्दोपतापयो:। स्वर आक्षेप इत्यनयो: स्वर शब्द:। तेन शब्दस्वभावा: चित्तवृत्तिं मध्यस्थतारूपस्वास्थ्यावस्थापरित्याजनेनोपतापयन्तो हृद्यतातिशयवशात् स्वतामाक्षिपन्त: स्वविषयेऽभिरञ्जनं कुर्वन्त: स्वरा इत्युक्ता:। अथवा स्वयं स्वेष्वेव जातिरागभाषाभेदेषु राजन्ते इति स्वरा:। इति निगदितम्" तेन। सङ्गीतरत्नाकरे अपि "स्वयं राजन्ते इति स्वरा:" इत्येव प्रस्तुतम्। कुम्भकर्णमतम् "स्वरयन्ति मनांसीह श्रोतॄणां स्वार्थतो यत:। श्रुत्यनन्तरभावी य: स्निग्धोऽनुरननात्मक:। योगाद्वा रूढितो वापि स स्वर: श्रोतृरञ्जक:॥ इति संगीतराजग्रन्थस्य कर्तु: चित्रकूटपलकस्य कुम्भकर्णस्य मतम्। सोमेश्वरमतम् अनेन स्वकीये अभिलषितार्थचिन्तामण्याख्ये ग्रन्थे "स्वतो रञ्जयति श्रोतुश्चित्तं स स्वर उच्यते" इति प्रोक्तम्। मतङ्गस्य अभिप्राय: बृहद्देशीकारस्य मतङ्गपण्डितस्य मतानुसारं स्वरशब्दस्य निर्वचनादिकमित्थं प्रतिपाद्यते। राजृदीप्त्वावित् धातो: स्वश्ब्दपूर्वकस्य च। स्व्यं यो राजते उअस्मात्तस्मादेष: स्वर: स्मृत:।\ आत्मेच्छाया्म् अहितलाद्वायुर्द्यन्निधार्यते। नाडीभित्तौ तथाकाशे ध्वनिरुक्त: स्वर: स्मृत:॥ एवंविधानामेतेषां सर्वेषं लाक्षणिकानां अभिप्रायानुसारं स्वरा: स्वयं राजन्ते इति, श्रोत्रूऩ् रञ्जयन्तीति, अहितलात़् अर्थात् कुण्डलिनीत: समुद्भूताश्चेति अवगन्तुं शक्यते। धन्यवादा:। Dr. Rani Sadasiva Murty |
--- On Tue, 29/6/10, Jagannatha S <jgra...@gmail.com> wrote: |
अधुना अपरा समस्या
विश्लिष्यतां कृपया-सेत्थम्- संगीते स,रि,ग,म,प,ध,नि इति सप्तस्वराः
प्रसिद्धाः किल।कथं सरिगमपधनीनां स्वरत्वम्?
वस्तुतस्तु तत्र सगमपधेषु अकारस्य पञ्चवारम्,रिन्योः इकारस्य द्विवारं च
यच्छ्रूयते प्रयोगस्तद् व्यञ्जनपूर्वकं न तु शुद्धम्।
Our ancients fixed the ocatve (sa, ri, ga, ma, pa, da, ni) + sa >> based on these sounds they
found in the nature around them.
On Jun 29, 4:02 pm, hn bhat <hnbha...@gmail.com> wrote:
> 2010/6/29 hn bhat <hnbha...@gmail.com>
>
>
>
> > 2010/6/29 Jagannatha S <jgran...@gmail.com>
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)