अक्षरवर्णयोः को भेदः?

88 views
Skip to first unread message

Jagannatha S

unread,
Jun 28, 2010, 9:16:12 AM6/28/10
to भारतीयविद्वत्परिषत्

आर्याः, स्वस्ति।
अक्षरवर्णयोः को भेदः? ``वर्णसमाम्नाय ’’ इति शब्दस्य समानार्थकत्वेन
``अक्षरसमाम्नाय’’ इति प्रयोगदर्शनात् संशयस्य सावकाशता।
कन्नडभाषायां कस्मिंश्चिच्चलच्चित्रगीते आदिमो भागः``अ आ इ ई कन्नडदा
अक्षरमाले ’’ इत्यादिपदैः प्रारभ्यते। ``अक्षरमाला’’ इति प्रयोगः
साधुर्वा.?

I V Nacharya I

unread,
Jun 28, 2010, 12:24:08 PM6/28/10
to bvpar...@googlegroups.com, jgra...@gmail.com
महोदय,
प्रणम्य। अक्षरवर्णशब्दौ समानार्थकौ।शब्दरत्नाकरनाम्नि आन्ध्रनिघंटौ अक्षरशब्दस्य पर्यायपदानि एवं सन्ति।
अक्षरः=विष्णुः।शिवः।ब्रह्मा।नाशरहितः। अक्षरचणः,अक्षरचुञ्चुः,इति द्वे पदे लेखकः इत्यर्थे समानार्थके।"अक्षर"इति पदस्य
विकृति रेव अक्करमु(आन्ध्र्याम्) वर्णः इत्यस्य "अक्षरः"इति अर्थः लिखितोऽस्ति।
सर्वशब्म्बोधिन्या मेव मस्ति।
अक्षरम्=मोक्षः,प्रणवः,धर्मः,प्रकृतिः,तपः,क्रतुः,परमात्मा,अकाराद्यक्षरः,
लघुशब्दार्थसर्वस्वे "अ"कारः अक्षरमातृकाया म्प्रथमो वर्णः इति लिखितम्।
उत्तरमीमांसाया मक्षराधिकरण मिति अध्याय एव अस्ति।
अक्षराभ्यास इति अस्माकं शैशवे प्रसिद्धः कार्यक्रम एव अस्ति।
भगवद्गीताया मक्षरपरब्रह्मयोगो नाम अध्यायोऽप्यस्ति।
अक्षराभ्यासकार्यक्रमस्य आन्तर्य न्तु परमात्मविषयकज्ञानसम्पादनमेव।चतुर्विंशति तत्त्वानि,पञ्चविंशति तत्त्वं जीवः,
षड्विंशति तत्त्वं परमात्मा इति तत्त्वानि सर्वाण्यपि अक्षरमालायां सन्ति।अक्षरमाला,वर्णमाला इति शब्दौ समानार्थकावेव। ख वेद आम्नायशब्दावपि समानार्थकावेव। अक्षरवेद इति प्रसिद्धो व्यवहारः। वेदे यदस्ति तत्सर्व मप्यक्षरसमाम्नाये
सङ्ग्रहरूपेण अस्त्येव। अत एव सहजपाण्डित्यबिरुदाङ्कितः पॊतनामात्य कविपुङ्गवः एव मवोचत्"कुम्भिनीधवु चेप्पेडि
गुरुडु गुरुडु"इति\(तस्य वाक्यं तेलुगु भाषायां लिखितम्।) एतावता वर्णः,अक्षरः,शब्दः समानार्थका इति मे मतिः।उपरि भवादृशाः प्रिय विद्वत्सुहृद एव प्रमाणम्।
अभिवन्द्य,
ऐ.वि.यन्.<ऐवियनेट्याहूडाट्कोडाटिन्>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)


sadasivamurty rani

unread,
Jun 28, 2010, 2:24:03 PM6/28/10
to bvpar...@googlegroups.com
मान्यजगन्नाथमहोदयेभ्य:, अन्येभ्य: विद्वद्वरेभ्यश्च प्रणामा:।
भवद्भि: प्रसक्तस्य अक्षरवर्णविषयकस्य भेदस्य विषये किञ्चिद्वक्तुकामोऽयं जन:।
अक्षरस्य निर्वचनम्  शौनकमहर्षिणा ऋक्प्रातिशाख्यग्रन्थे इत्थमुक्तमासीत्।
"सव्यञ्जन: सानुस्वार: शुद्धो वापि स्वरोऽक्षरम्।" इति
अस्य उव्वटाचार्यस्य भाष्ये उक्तमासीत्। व्यञनेन युक्त:, अनुस्वारेण सहित: अथवा शुद्ध: (अनुस्वरेण रहित:, व्यञ्जनेन रहित:) स्वर: अक्षरसंज्ञ: भवति इति। "स्वरमात्रस्य अक्षरसंख्या विधीयते" इति उव्वटाचार्यस्य अभिप्राय:।
शुक्लयजु:प्रातिशाख्ये कात्यायनेनापि "स्वरोऽक्षरम्" इत्युक्तम्।
एतदेव सूत्रं अथर्वप्रातिशाख्यायामपि दृश्यते।
अक्षरसंज्ञां तु एवं विधाय वर्णविषये तु विस्तरेण शौनक: अनेन प्रकारेण प्रपञ्चितवाऩ्।
"वर्णमाला" इति शीर्षि्कां दत्वा तत्र -
अकारर्कारावि उ ए ओ ऐ औ।
पदाद्यन्तयोर्न ऌकार: स्वरेषु।
अकारादीऩ् दीर्घरूपान्द्वितीयान्ह्रस्वेषु।
पञ्चस्वपि तानि सन्ति। (अ, ऋ, ऌ, इ, उ इति पञ्चसु दिर्घाणि सन्ति।)
कखौ गघाउ ङ । चछौ जझौ ञ । टठौ डढौ ण। तथौ दधौ न। पफौ बभौ म।
यरलवा:। हशषसा:। अ: :क :फ अं। इति वर्णराशि: क्रमश्च। इति वर्णमलापरिचयमकरोत्।
शौनकेन वर्णराशिरिति वर्णमालेति च यदुक्तं तस्य व्य्ख्याकारेण उव्वटेन वर्णसंघात: इति वर्णसमूह: इति वर्णसमाम्नाय: इति च व्यवहार: कृत:।
शौनकेन वर्णा: त्रिधा प्रोक्ता: स्वरा:, व्यञ्जनानि, अनुस्वारश्चेति। तेषु-
"अ,आ,ऋ,ॠ,ऌ,ॡ, इ,ई,उ,ऊ, ए,ओ,ऐ,औ" इत्येतेषां वर्णानां स्वरा: इति संज्ञा विहिता। एते उदात्तानुदात्तस्वरितप्रचया: इति उव्वटेन कथितम्। तत्रैव स्वर्यन्ते इति स्वरा: स्वरशब्दस्य निष्पत्ति: निरूपिता।
अनुस्वारो व्यञ्जनं वा स्वरो वा। इति अनुस्वरस्य उभयात्मकत्वमुक्तम् शौनकेन।
सर्वशेषो व्यञ्जनान्येव इतिकथितम् तेन मुनिना। (अत्र व्यञ्जयन्ति प्रकटाऩ् कुर्वन्ति अर्थाऩ् इति व्यञ्जनानि इति उव्वटवचनमासीत्।
श्वासता, नादता, उभयता (श्वासता-नादता) इति त्रौय: वर्णानां प्रकृतयो भवन्ति इति शौनकमतम्। अत: तेन कथितम् "ता: वर्णानां प्रकृतयो भवन्ति" इति।
"अनुप्रदानात्संसर्गात् स्थानात़्करणविभ्रमात्।
जायते वर्णवैशेष्यं परिमाणाच्च पञ्चमात् ॥" इति पञ्च वर्णवैशेष्यहेतूनां प्रस्तावमकरोत्
तैत्तिरीयप्रातिशाख्यकार:।
एते वर्णा: अनित्या: इति शौनकस्योक्ति:।
बृहद्देशीकारेण मतङ्गपण्डितेनापि वर्णनिरूपणमेवं कृतम्।
"पदवाक्यस्वरूपेण वाक्यार्थवहनेन यत्।
वर्णा यत्र जगत् सर्वं तेन वर्णा: प्रकीर्तिता:॥" इति।
अनेन प्रकारेण शौनककात्यायनादिमुनीनां मतानुसारं केवलं स्वरा: एव "अक्षर" शब्दवाच्या: भवन्ति। कीदृशा: स्वरा: इत्यत्र "सव्यञ्जन: सानुस्वार:
शुद्धो वा स्वरोऽक्षरम्" इति नियम: स्मरणीय:। वर्णानां विषये पूर्वोक्तत्रैविध्यं स्मरणीयम्।
इत्युक्त्वा विरमामि विस्तरात् .
बुधजनविधेय:,
डा. राणि सदाशिवमूर्ति:।
 
 
 
 
 


 
 


--- On Mon, 28/6/10, Jagannatha S <jgra...@gmail.com> wrote:

From: Jagannatha S <jgra...@gmail.com>
Subject: {भारतीयविद्वत्परिषत्} अक्षरवर्णयोः को भेदः?
To: "भारतीयविद्वत्परिषत्" <bvpar...@googlegroups.com>

VKG

unread,
Jun 28, 2010, 7:56:48 PM6/28/10
to भारतीयविद्वत्परिषत्
नमांसि।
यथा आचार्य महोदयै रुपपादितं, तथैव साधिष्ठमिति मे मतिः। वर्णो नित्यः -
इति वर्तते मीमांसक मतम्। यजुर्वेदे च, तस्याग्ं समुद्रा अधि विक्षरन्ति।
तेन जीवन्ति प्रदिश श्चतस्रः। ततः क्षरत्यक्षरम्। तद्विश्व मुपजीवति -
इति ब्रुवाणया ऋचा, अक्षरं ब्रह्मात्मकं प्रतिपाद्यते।

अक्षरं परमं पदम्, अक्षरं परं ब्रह्म, वर्णो नित्यः इत्यादिभिः परश्शतै
र्वाक्यैश्च, इदमेव अभिप्रेयत इत्यलं विस्तरेण।
वंशीकृष्ण घनपाठी


On Jun 28, 9:24 pm, I V Nacharya I <ivi...@yahoo.co.in> wrote:
> महोदय,
> प्रणम्य। अक्षरवर्णशब्दौ समानार्थकौ।शब्दरत्नाकरनाम्नि आन्ध्रनिघंटौ अक्षरशब्दस्य पर्यायपदानि एवं सन्ति।
> अक्षरः=विष्णुः।शिवः।ब्रह्मा।नाशरहितः। अक्षरचणः,अक्षरचुञ्चुः,इति द्वे पदे लेखकः इत्यर्थे समानार्थके।"अक्षर"इति पदस्य
> विकृति रेव अक्करमु(आन्ध्र्याम्) वर्णः इत्यस्य "अक्षरः"इति अर्थः लिखितोऽस्ति।
> सर्वशब्म्बोधिन्या मेव मस्ति।
> अक्षरम्=मोक्षः,प्रणवः,धर्मः,प्रकृतिः,तपः,क्रतुः,परमात्मा,अकाराद्यक्षरः,
> लघुशब्दार्थसर्वस्वे "अ"कारः अक्षरमातृकाया म्प्रथमो वर्णः इति लिखितम्।
> उत्तरमीमांसाया मक्षराधिकरण मिति अध्याय एव अस्ति।
> अक्षराभ्यास इति अस्माकं शैशवे प्रसिद्धः कार्यक्रम एव अस्ति।
> भगवद्गीताया मक्षरपरब्रह्मयोगो नाम अध्यायोऽप्यस्ति।
> अक्षराभ्यासकार्यक्रमस्य आन्तर्य न्तु परमात्मविषयकज्ञानसम्पादनमेव।चतुर्विंशति तत्त्वानि,पञ्चविंशति तत्त्वं जीवः,
> षड्विंशति तत्त्वं परमात्मा इति तत्त्वानि सर्वाण्यपि अक्षरमालायां सन्ति।अक्षरमाला,वर्णमाला इति शब्दौ समानार्थकावेव। ख वेद आम्नायशब्दावपि समानार्थकावेव। अक्षरवेद इति प्रसिद्धो व्यवहारः। वेदे यदस्ति तत्सर्व मप्यक्षरसमाम्नाये
> सङ्ग्रहरूपेण अस्त्येव। अत एव सहजपाण्डित्यबिरुदाङ्कितः पॊतनामात्य कविपुङ्गवः एव मवोचत्"कुम्भिनीधवु चेप्पेडि
> गुरुडु गुरुडु"इति\(तस्य वाक्यं तेलुगु भाषायां लिखितम्।) एतावता वर्णः,अक्षरः,शब्दः समानार्थका इति मे मतिः।उपरि भवादृशाः प्रिय विद्वत्सुहृद एव प्रमाणम्।
> अभिवन्द्य,
> ऐ.वि.यन्.<ऐवियनेट्याहूडाट्कोडाटिन्>----- Original Message ----

> From: Jagannatha S <jgran...@gmail.com>

Jagannatha S

unread,
Jun 28, 2010, 10:23:14 PM6/28/10
to भारतीयविद्वत्परिषत्
डा. राणि सदाशिवमूर्तिमहाभागेभ्यः श्रीनायनाचार्यमहाभागेभ्यः श्रीमद्भ्यो
वंशीकृष्णघनपाठिमहाभागेभ्यश्च धन्यवादान् समर्पयामि।इदं च प्रतीयते
डा.राणि सदाशिवमूर्तिमहाभागानाम् उत्तरं दृष्ट्वा यदक्षरमाला इति प्रयोगो
न साधुः, अक्षरशब्दस्य स्वरार्थत्वादिति।अस्तु।अधुना अपरा समस्या
विश्लिष्यतां कृपया-सेत्थम्- संगीते स,रि,ग,म,प,ध,नि इति सप्तस्वराः
प्रसिद्धाः किल।कथं सरिगमपधनीनां स्वरत्वम्?
वस्तुतस्तु तत्र सगमपधेषु अकारस्य पञ्चवारम्,रिन्योः इकारस्य द्विवारं च
यच्छ्रूयते प्रयोगस्तद् व्यञ्जनपूर्वकं न तु शुद्धम्।
विनयावनतो जगन्नाथः।

> > निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)- Hide quoted text -
>
> - Show quoted text -

sadasivamurty rani

unread,
Jun 28, 2010, 11:21:55 PM6/28/10
to bvpar...@googlegroups.com
श्रीजगन्नाथमहोदया:! नमांसि!
सङ्गीतशास्त्रगतस्वराणां विषये तज्ज्ञानामभिप्राया: इत्थं दृश्यन्ते।
अभिनवगुप्ताचार्याणां मतम्।
"स्वर इति। स्वृशब्दोपतापयो:। स्वर आक्षेप इत्यनयो: स्वर शब्द:।  तेन शब्दस्वभावा: चित्तवृत्तिं मध्यस्थतारूपस्वास्थ्यावस्थापरित्याजनेनोपतापयन्तो हृद्यतातिशयवशात् स्वतामाक्षिपन्त:
स्वविषयेऽभिरञ्जनं कुर्वन्त: स्वरा इत्युक्ता:। अथवा स्वयं स्वेष्वेव जातिरागभाषाभेदेषु राजन्ते इति स्वरा:। इति निगदितम्" तेन।
सङ्गीतरत्नाकरे अपि "स्वयं राजन्ते इति स्वरा:" इत्येव प्रस्तुतम्।
कुम्भकर्णमतम्
"स्वरयन्ति मनांसीह श्रोतॄणां स्वार्थतो यत:।
श्रुत्यनन्तरभावी य: स्निग्धोऽनुरननात्मक:।
योगाद्वा रूढितो वापि स स्वर: श्रोतृरञ्जक:॥
इति संगीतराजग्रन्थस्य कर्तु: चित्रकूटपलकस्य कुम्भकर्णस्य मतम्।
सोमेश्वरमतम्
अनेन स्वकीये अभिलषितार्थचिन्तामण्याख्ये ग्रन्थे "स्वतो रञ्जयति श्रोतुश्चित्तं स स्वर उच्यते" इति प्रोक्तम्।
मतङ्गस्य अभिप्राय:
बृहद्देशीकारस्य मतङ्गपण्डितस्य मतानुसारं स्वरशब्दस्य निर्वचनादिकमित्थं प्रतिपाद्यते।
राजृदीप्त्वावित् धातो: स्वश्ब्दपूर्वकस्य च।
स्व्यं यो राजते उअस्मात्तस्मादेष: स्वर: स्मृत:।\
आत्मेच्छाया्म् अहितलाद्वायुर्द्यन्निधार्यते।
नाडीभित्तौ तथाकाशे ध्वनिरुक्त: स्वर: स्मृत:॥
एवंविधानामेतेषां सर्वेषं लाक्षणिकानां अभिप्रायानुसारं स्वरा: स्वयं राजन्ते इति, श्रोत्रूऩ् रञ्जयन्तीति, अहितलात़् अर्थात् कुण्डलिनीत: समुद्भूताश्चेति अवगन्तुं शक्यते।
धन्यवादा:।

Dr. Rani Sadasiva Murty


--- On Tue, 29/6/10, Jagannatha S <jgra...@gmail.com> wrote:

Dr. S. Ramakrishna Sharma

unread,
Jun 29, 2010, 12:00:37 AM6/29/10
to bvpar...@googlegroups.com
हरि: ॐ
नमस्ते

>अहितलात़् अर्थात् कुण्डलिनीत: समुद्भूताश्चेति अवगन्तुं शक्यते।

चत्वारि वाक्परिमिता पदानि ...... इति इदमेव स्मारयति।
अपि च यया गीत्या त्यागब्र्ह्मै: नाभीह्रूत्कण्टरसनेति  आन्तरं अनुभवमुद्घोषितं
तदपि साधकानां अनुसन्धानार्थं इति शं ।


2010/6/28 sadasivamurty rani <ranisada...@yahoo.com>



--
Aangirasa/Dr.S.Ramakrishna Sharma. M.A.,Ph.D.(Eng.Lit.),Ph.D.(Sanskrit.).

hn bhat

unread,
Jun 29, 2010, 12:17:12 AM6/29/10
to bvpar...@googlegroups.com
2010/6/29 Jagannatha S <jgra...@gmail.com>

अधुना अपरा समस्या
विश्लिष्यतां कृपया-सेत्थम्- संगीते स,रि,ग,म,प,ध,नि इति सप्तस्वराः
प्रसिद्धाः किल।कथं सरिगमपधनीनां स्वरत्वम्?
वस्तुतस्तु तत्र सगमपधेषु अकारस्य पञ्चवारम्,रिन्योः इकारस्य द्विवारं च
यच्छ्रूयते प्रयोगस्तद् व्यञ्जनपूर्वकं न तु शुद्धम्।

धन्यवादाः विद्वद्भ्यः अक्षरस्वरवर्णानां परस्परविश्लेषणं साधारं कृतवद्भ्यः सर्वेभ्यः ।
जगन्नाथमहोदयस्य सद्यस्तनं प्रश्नं दृष्ट्वा, ममायं सन्देहो जातः, किं संगीताशास्त्रीयविषयाणां शास्त्रान्तरीयसमालोचनेन साधूकरणं कियत् साधीय इति। सदाशिवमूर्तीनां सर्वतोमुखवैदुष्येण तादृशसन्देहो निवर्तितः। 

परं तत्र व्यञ्जनानां केवलप्रयोगः स्वरपर इति केनोक्तम्? संगीतशास्त्रीयस्वराणामेव तत्राभिधेयता, न तु व्याकरणशास्त्रीयानामित्यवधारणीयमंशं विस्मृत्य प्रश्नः कृत इति मन्ये। स-रि-ग-म-प-द-नि इति केवलं संगीतशास्त्रे एव प्रसिद्धानां सप्तानां स्वाराणां संकेतितानि अक्षराणि (abbreviations) यैः, षड्ज, ऋषभ, गान्धर्व, मध्यम, पञ्चम, धैवत, निषाद इत्याख्यानां स्वराणां स्वरूपमभिधीयते। तेषामुच्चरणेन तज्ज्ञैः बोध्यन्ते तच्छास्त्राभ्यासिनाम्। न केवलम् सकारादयः सप्तवर्णा अभिधीयन्ते, यत्र जगन्नथमहोदयेनोक्तम्, अकारेकारयोरेवोपलम्भः स्वरयोः, अन्येषां व्यञ्जनत्वम्।

इति मे प्रतिभातमुक्तम्। तेषां स्वरभेदानां तत्रैव शास्त्रे लक्षणानि अन्वेष्टव्यानि, न तु व्याकरणशास्त्रे। तेषां यथा स्वरत्वं तथा राणिमहोदयैः निरूपितमेव तच्छास्त्रानुसारेण। 

शेषे शिष्टाः विद्वांसः प्रमाणम्।



--
Dr. Hari Narayana Bhat B.R.
EFEO,
PONDICHERRY

hn bhat

unread,
Jun 29, 2010, 7:02:50 AM6/29/10
to bvpar...@googlegroups.com


2010/6/29 hn bhat <hnbh...@gmail.com>

>
> 2010/6/29 Jagannatha S <jgra...@gmail.com>
>>
>> अधुना अपरा समस्या
>> विश्लिष्यतां कृपया-सेत्थम्- संगीते स,रि,ग,म,प,ध,नि इति सप्तस्वराः
>> प्रसिद्धाः किल।कथं सरिगमपधनीनां स्वरत्वम्?
>> वस्तुतस्तु तत्र सगमपधेषु अकारस्य पञ्चवारम्,रिन्योः इकारस्य द्विवारं च
>> यच्छ्रूयते प्रयोगस्तद् व्यञ्जनपूर्वकं न तु शुद्धम्।

In continuation of my previous post, I found some more information on the seven svara-s precisely answering your question. As I indicated in my previous post, I found a similar explanation confirming to mine in some other group:

Our ancients fixed the ocatve (sa, ri, ga, ma, pa, da, ni) + sa >> based on these sounds they 
found in the nature around them. 

Shadja.m mayUro vadati gAvo R^iShabhAShiNaH

ajAvika.ntu gA.ndhAra.m krau.nchaH kvaNati madhyamam.

puShpasAdhAraNakAle pikaH kUjati pa.nchamam

dhaivata.m heShate vAjI niShAdam bR^i.mhate gajaH.

===================

A peacock’s call has ShaDja (sa) in it, 
an ox’s call has R^ishabha (Ri)
a goat’s vocalization has gAndhAram (ga)
a krauncha bird’s call has madhyamam (ma)
the cuckoo sings panchamam (pa) in spring,
a horse’s neigh has dhaivatam (da), and 
an elephant’s scream has nishAdam (ni) – 

This makes sub varieties of svara-s according to Sangeetha Shastra, different from those in VyakaraNa shastra. A sample is found as:

Like that Nityasree hitting kAkali nishAdam in the third sthAyi
(kAkali nisHadam is called - teevr ni - in Hindustani as opposed to kaikasi nishAdam
which is called - komal ni). (seems to be a discussion on a question raised on this question, that the verse is quoted).

It is quoted by Kshirasvamin in his commentary on Amarakosha which enumerates the seven svara-s:

निषादर्षभ-गान्धर-षड्ज-मध्यम-धैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥१.६.१॥

तत्रापि, व्याकरणानुसारेण अकुहविसर्जनीयानां कण्ठः इत्यादिक्रमेण अष्टौ स्थानानि वर्णानाम्। अत्रत्यस्य सप्तस्वन्यतमस्य षड्जस्य अन्वर्थं नामकरणं स्थानषट्कजन्यत्वात्; यदाहुः --- 

नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संस्पृशन्।
षड्भ्यः संजायते यस्मात् तस्मात् षड्ज इति स्मृतः॥

एते स्वराः कण्ठोथिताः तन्त्र्युत्थाश्च तुल्या एव। न वर्णभेदेन भिद्यन्ते यथा इतरे स्वराः वर्णसंज्ञकाः। गीयमानवर्णास्तु तदभिव्यञ्जका भवन्तीत्यन्यदेतत् तच्छास्त्रानुसारेण साहित्यस्य यादाचित्कोपयोगात्। यं कंचिद् वर्णमुपादायापि सप्त स्वरा व्यञ्जयितुं प्रभवन्ति गायका अभिज्ञाः।

सादरं प्रणामाः। 

Jagannatha S

unread,
Jun 29, 2010, 9:26:15 AM6/29/10
to भारतीयविद्वत्परिषत्
तत्रभवद्भिः सदाशिवमूर्तिवर्यैरतीवपरिश्रमेण सङ्गीतशास्त्रे वर्तमानाः
स्वरलक्षणपराः पङ्क्तय उद्धृताः संशयनिवारणं च कृतम्।तेभ्यो भूरिशः
समर्पयामि धन्यवादान्।
तैरुद्धृतानां शास्त्रपङ्क्तीनां पठनेन मम किञ्चित् प्रतिभातम्-तदिदानी
प्रस्तूयते-
संगीते पदानि(wordings) स्वरमेलनानुसारीणि वर्तन्ते,यानि कण्ठेन गीयन्ते
। कण्ठेन गानसमये विस्पष्टं पदगताः व्याकरणशास्त्रसिद्धाः स्वरा
व्याकरणशास्त्रसिद्धानि वा व्यञ्जनानि श्रूयन्ते ज्ञायन्ते च । परन्तु
वाद्यवादनसमये न तथेति सर्वलोकप्रत्यक्षम्।
वाद्येषु वादितेषु केवलं संगीतस्वराः श्रूयमाणाः सन्तः श्रोतृरञ्जनाय
प्रभवन्ति।गानेपि गानत्वं सरिगमपधनीत्याख्यस्वरनिष्ठं न तु
भाषागतपदवाक्यादिनिष्ठम्। वस्तुतस्तु पदानां(wordings) नैरपेक्ष्येण
स्वतन्त्रं रञ्जयितृत्वमेव संगीते स्वराणां स्वरत्वम्। तस्मादेव वाद्ये
वादिते श्रोतृऱञ्जनं भवति। अर्थात् सङ्गीतस्य मूलो धर्मः स्वरः।
एतस्मादेव कारणाद् व्याकरणदृष्ट्या सरिगमपधनीनां व्यञ्जनत्वेपि
संगीतदृष्ट्या तेषां स्वरत्वं (=स्वातन्त्र्येण रञ्जनकृत्त्वम्)
निराबाधम्।
जगन्नाथः।


On Jun 29, 4:02 pm, hn bhat <hnbha...@gmail.com> wrote:
> 2010/6/29 hn bhat <hnbha...@gmail.com>
>
>
>
> > 2010/6/29 Jagannatha S <jgran...@gmail.com>

subrahmanyam korada

unread,
Jun 29, 2010, 11:16:52 PM6/29/10
to bvpar...@googlegroups.com
namo vidvadbhyah
 
Here is Paniniyasiksa --
 
udAtte nisAdagAndhArAvanudAtta rsabhadhaivatau I svaritaprabhavAhyete sadjamadhyamapancamAh II
 
Therefore UdAtta, anudAtta and svarita are the origin of Svaras .  Amarasimha  (sadjam mayUro vadati etc.)
brings  analogy  of these svaras  with   natural sounds just like Panini  in SIksA takes up a Tigress carrying
its cubs for explaning  'pronunciation' (vyAghrI yathA haret putrAn etc.) and  in Vyakarana  he takes up the
crow of a cock to fix the time for hrasva , dIrgha and pluta (UkAlo'jhrasvadIrghaplutah Pa 1-2-27) .
 
dhanyo'smi

 

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)



--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)
Reply all
Reply to author
Forward
0 new messages