नमो विद्वद्भ्यः
2. ज्योतिष्टोमेन स्वर्गकामो यजेत -- तैत्तिरीयब्राह्मणम् 1-5-11-2
3. स्वाध्यायोऽध्येतव्यः --तैत्तिरीयारण्य्स्कम् 2-15
5. सोऽरोदीत् -- तैत्तिरीयसंहिता 1-5-1-2
--- तस्मात्सकृदुपदेशेष्वप्यावृत्तिसिद्धिः असकृदुपदेशस्यावृत्त्तेः सूचकः ।
12. न हिंस्यात् सर्वा भूतानि ---
The above sentence should be from वेद --
सर्वा भूतानि -- सर्वाणि भूतानि इत्यर्थः -- ’ व्यत्ययो बहुलम् '(पा 3-1-85) इति लिङ्गव्यत्ययः वचनव्यत्ययश्च ।
There is पाठान्तरम् -- मा हिंस्यात् सर्वा भूतानि --
शांकरसूत्रभाष्यम् (2-3-48) --
तथा ’अग्नीषोमीयं पशुं संज्ञपयेत्’ इत्यनुज्ञा , ’ मा हिंस्यात् सर्वा भूतानि ’ इति परिहारः ।
शांकरसूत्रभाष्यम् (3-1-25) --
ननु ’ न हिंस्यात् सर्वा भूतानि ’ इति शास्त्रमेव भूतविषयां हिंसामधर्म इति अवगमयति ? बाढम् ; उत्सर्गस्तु सः । अयं च अपवादः - ’ अग्नीषोमीयं पशुमालभेत ’ इति ।
श्रीभाष्यम् (3-1-25) श्रुतप्रकाशिकासहितम् --
अग्नीषोमीयादि हिंसायुक्तत्वात् । हिंसा च ’ न हिंस्यात् सर्वा भूतानि ’ इति निषिद्धत्वात् पापमेव ।
साङ्ख्यतत्त्वकौमुदी ( श्लो 2 p 23 ) - -
’ न च ’ मा हिंस्यात् सर्वा भूतानि ’ इति सामान्यशास्त्रं विशेषशास्त्रेण ’ अग्नीषोमीयं पशुमालभेत ’ इत्यनेन बाध्यते इति युक्तम् ...।
तथाहि ’ न हिंस्याद् ’ इति निषेधेन हिंसायाः अनर्थहेतुभावो ज्ञाप्यते न तु अक्रत्वर्थत्वमपि ’ अग्नीषोमीयं पशुमालभेत ’ इत्यनेन च वाक्येन पशुहिंसायाः क्रत्वर्थत्वमुच्यते ...।
महाभारतम् ( वनपर्व 213-34 , शांतिपर्व 278-5) --
न हिंस्यात् सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥
The term शास्त्रम् (शां सू भा) is rarely employed to denote वेद - शास्त्रयोनित्वात् (बा सू ) ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat