--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at https://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.
I would be glad if you can pronounce both in proper fashion and send link to the group, so that all can appreciate the difference
____________________________________________________________
Fast, Secure, NetZero 4G Mobile Broadband. Try it.
लकारोच्चारणात् पूर्वं पश्चाच्च कालव्यवधानं विना अ् इति संवृत: स्वर उच्चारणीय:। तथा रेफम् उभयत: एवमेव स्वरभक्ति: क्रियते चेत् वर्णसमाम्नाये चतुर्थ उत्पद्यते। लिङ्क्- दाने अनभिज्ञोहं मृष्यै। विष्णुनम्पूतिरि:।
I would be glad if you can pronounce both in proper fashion and send link to the group, so that all can appreciate the difference
--
The enquiry was ...how the vowel Li and the semi- consonant L followed by the vowel Ri are different?
Answer was....in vowel Li there in no r at all.
I think, no difference. When consonant l associates with vowel ri, then the form lri becomes vowel according to Mahesvara sutra Rilrik. Regards,
Sent from Outlook Mobile
The reading of Maheswarasootra as Rilrik is wrong. The second r is not there.
Rather than discussing in letters how it should be pronounced, respected scholars are requested to please record a two second audio and send. That would help the group.
On 24-Jan-2016 6:50 am, "dhaval patel" <drdhav...@gmail.com> wrote:
> Rather than discussing in letters how it should be pronounced, respected scholars are requested to please record a two second audio and send. That would help the group.
>
Certainly. But the problem as explained by Vishnu Namboodiri, the traditional grammarians are specialists in grammar and not in Technical knowledge for recording and uploading and making the links.
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at https://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.
Sir, It may be more useful, if the examples of both types of lakaaras from Laukika Sanskrit literature are shown. Regards,
विदुषः प्रणम्य,
अद्यत्वे ऋकारस्य उच्चारणप्रकारः अस्माभिः विस्मृत इति भाति। संवृताकारेण सह एतस्योच्चारणसाम्यं वर्तते। अस्मिन् ऋकारे द्वौ अंशौ– स्वरः व्यञ्जनञ्चेति। ऋग्वेदप्रातिशाख्ये उक्तं– रेफोऽस्त्यृकारे च परस्य चार्द्धे पूर्वे ह्रसीयांस्तु न वेतरस्माद् मध्ये सः (ऋ०प्रा० १३। ३४) इति। अथर्वप्रातिशाख्ये च उक्तं – संस्पृष्टरेफमृवर्णम् (च०अ० १। ३७), तथा सलकारम् ऌवर्णम् (तत्रैव १। ३९)। सर्वसम्मतशिक्षाग्रन्थे ऋकारस्य वर्णनं विस्तारेण क्रियते–
ऋकारस्य स्वरूपं हि श्लिष्टं पादचतुष्टयम्।
पादेषु तेषु विज्ञेयावादावन्ते स्वरात्मकौ॥
अणुरेफस्य मध्ये तु विज्ञेयौ व्यञ्जनात्मकौ॥ (स०सं०शि० १९) इति।
भाष्यकारोऽऽपि कथयति– योऽसौ ऋकारे रेफः तदाश्रयं कार्यं भविष्यति (म०भा० ८। ४। १) इति। ऋकाराच्चेति वक्तव्यम् इति वार्तिकस्य व्याख्याने न्यासकारेण कथ्यते– ऋकारे चत्वारो भागाः सन्ति। तत्र प्रथमचतुर्थौ स्वरौ, द्वितीयतृतीयौ च व्यञ्जनवर्णौ। तस्य स्वरूपं तावद् ऋ र् र् ऋ इति। अर्थाद् ऋवर्णे ऌवर्णे च अकारः सन्निहितस्तिष्ठति। ऋकारस्य गुणे अर् वृद्धौ च आर् इति रूपं भवति। अद्यतन-आर्यभाषासु एतस्य वर्णस्योच्चारणं रि{\eng ,} रु{\eng ,} र्रु इत्यादिरूपेण भवति। शुक्लयजुर्वेदस्य पाठकाले ऋकारस्य रेफत्वेन उच्चारणं क्रियते।
अस्य ऋकारस्य उच्चारणं कथं स्यादिति विषये स्पष्टतया निर्णयो नास्ति क्वापि। ऋकारस्य सम्बन्धः रेफेण उत अन्तःस्था रेफ ऋकारस्य एकं रूपमिति विषये विवादो दृश्यते। संस्कृतवाङ्मये ऋकारस्य यथा प्राधान्यं तथैव ऌकारस्यापि। एवं यत्र ऋकारसहितं रूपं तत्र ऌकारसहितं रूपमपि दृश्यते। यत्र ऌकारसहितं रूपं तत्र ऋकारसहितम्। तत्र एकस्य अन्यरूपेण विपरिणामो भवति इति सर्वैः स्वीक्रियते प्रायः। अतो वैदिकसाहित्ये ऋ-ऌकारयोः प्रयोगो बहुधा अवलोक्यते इति ज्ञातुं शक्यते। कैयटेन महाभाष्यस्य व्याख्यानकाले उक्तम्– अन्ये तु ईषत्स्पृष्टकरणत्वादनयोकारऌकारयोश्च विवृतत्वात्ताभ्यां तयोरग्रहणादनच्त्वमाहुः इति (म०भा० १। १। ९ प्रदीपव्याख्याने)। अर्थाद् ऋकारऌकारयोः अच्त्वेन ग्रहणमनावश्यकम् इति। किन्तु वस्तुस्थितिरेवं नेति भाति। एतौ न ईषत्स्पृष्टस्वरौ, अपि तु ईषद्विवृतौ एव। ऋक्प्रातिशाख्ये एतस्मिन् विषये वर्णनं प्राप्यते। तत्र अकारात् परं द्वितीयं स्थानम् ऋकारस्येति वर्णितम्। ऋग्वेदस्य ऋग्वेदप्रातिशाख्यस्य च नाम्नः प्रथमो वर्ण ऋकार एव। ऋक्प्रातिशाख्ये ऋकारऌकारयोः जिह्वामूलीयस्य च उच्चारणस्थानं जिह्वामूलम् (dorsum?) इति वर्णितम्– ऋकारल्कारावथ षष्ठ ऊष्मा जिह्वामूलीयाः प्रथमश्च वर्गः (ऋ०प्रा० १। ४१) इति। कात्यायनप्रातिशाख्येऽपि उक्तम् ऋ कौ जिह्वामूले इति (का०प्रा० १। ६५)। ऋक्तन्त्रेऽपि वर्णितं– जिह्वामूले क ऋ इति (ऋ०तं० १। ४१)। आश्चर्यमिदं यद् ऋक्प्रातिशाख्ये उक्तम्– तस्यैव लकारभावे धातौ स्वरः कल्पयतावॢकारे (ऋ०प्रा० १३। ३५)। अर्थाद्, कॢप्-धात्वनुरोधाद् ऌकारस्य स्वरत्वेन परिगणनं कर्तव्यम्। एतेन इदं सिध्यति यत्, ऌकारो न वस्तुतः स्वरवर्णः। प्रकृतसूत्रस्य उवटभाष्ये उच्यते– तस्य ऋवर्णस्थस्य रेफस्य लकारभावे यदा स रेफो लकारतामापद्यते तदा ऌकारो भवति स्वरः स्वरसंज्ञश्च भवति कल्पयतावेव धातौ नान्यत्र इति। इतोऽपि आश्चर्यम् इदं यद्, ऌकारस्य वर्णसमाम्नाये पाठ एव निराकृतः। तथाहि– ऌकारस्तु चतुःषष्ट्यां न दृश्यते। अथ किमर्थमुदाह्रियते? नैष दोषः। यथोदकाहारस्य मत्स्याहरणमविरुद्धं, यथा पुष्पाहारस्य फलाहरणमविरुद्धम् एवमेतदपि प्रसङ्गादुच्यते। (ऋ०प्रा०उ०भा० १। ४१)
पाणिनिना यास्कप्रभृतिपूर्वाचार्याणां शासनमनुसरता ऋकारस्य ऌकारस्य च गुणत्वेन अर् अल् चेति, वृद्धिरूपेण च आर् आल् चेति रूपाणि स्वीकृतानि। ऌकारस्य प्राथमिकरूपान्तररूपेण लकारः स्वीक्रियते। पाश्चात्त्यध्वनिशास्त्रवेत्तार इमं लकारं कृष्णलकारनाम्ना (dark l) आह्वयन्ति। अस्य प्रयोगः लिटिल् इति आङ्गलशब्दे दृश्यते। तत्र अन्तिमः लकारः एव तस्य उदाहरणत्वेन स्वीकर्तुं शक्यते। अद्यत्वे यन्त्रात्मकध्वनिविश्लेषकैः ऋकारः ऌकारश्च सर्वतन्त्रस्वतन्त्रत्वेन अकारसमतुल्यत्वेन च स्वीकृतौ।