भक्तनिधिः

78 views
Skip to first unread message

Nityanand Misra

unread,
Apr 12, 2019, 11:00:31 AM4/12/19
to भारतीयविद्वत्परिषत्

श्रीललितासहस्रनामस्तोत्रे “भक्तनिधिः” इति नाम व्याचक्षाणा सौभाग्यभास्कराख्ये भाष्ये भास्करराया वदन्ति “नात्र पाक्षिकोऽपि निध्यै नम इति प्रयोगः”। कोऽस्याभिप्राय इति सांप्रदायिका वदन्त्विति प्रार्थये। स्त्रीपरकत्वे सत्यपि नाम्नोऽस्य स्त्रीत्वं ते नेच्छन्ति किम्? 

Nityanand Misra

unread,
Apr 12, 2019, 11:05:30 AM4/12/19
to भारतीयविद्वत्परिषत्

On Friday, 12 April 2019 20:30:31 UTC+5:30, Nityanand Misra wrote:

श्रीललितासहस्रनामस्तोत्रे “भक्तनिधिः” इति नाम व्याचक्षाणा सौभाग्यभास्कराख्ये भाष्ये भास्करराया वदन्ति “नात्र पाक्षिकोऽपि निध्यै नम इति प्रयोगः”। कोऽस्याभिप्राय इति सांप्रदायिका वदन्त्विति प्रार्थये। स्त्रीपरकत्वे सत्यपि नाम्नोऽस्य स्त्रीत्वं ते नेच्छन्ति किम्? 

*व्याचक्षाणाः
 

Subrahmanyam Korada

unread,
Apr 14, 2019, 9:07:47 PM4/14/19
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

 >भक्तनिधिः” इति नाम व्याचक्षाणा सौभाग्यभास्कराख्ये भाष्ये भास्करराया वदन्ति “नात्र पाक्षिकोऽपि निध्यै नम इति प्रयोगः”। कोऽस्याभिप्राय इति सांप्रदायिका वदन्त्विति  < 

सामान्यतः यल्लिङ्गं यद्वचनं  या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्चनं सा 
च विभक्तिः विशेषणस्यापि - इति नियमः --
विशेषणानां चाजातेः (1-2-52)
भाष्यम् (अतिशायने तमबिष्ठनौ , 5-3-55) -- 
आश्रयतो लिङ्गवचनानि भवन्ति । गुणवचनानां हि शब्दानाम् आश्रयतो लिङ्गवचनानि भवन्ति । तद्यथा शुक्लं वस्त्रम् , शुक्ला शाटी , शुक्लः कम्बलः , शुक्लौ कम्बलौ , शुक्लाः कम्बलाः इति ।
यदसौ द्रव्यं श्रितो भवति गुणः तस्य यल्लिङ्गं वचनं च तस्य गुणस्यापि भविष्यति ।
(This is there in some other सूत्रs also across महाभाष्यम् )

पङ्क्तिर्विंशतित्रिंशच्चत्वरिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् (5-1-59) ---

भाष्यम् --
यदि तर्हि - इमे विंशत्यादयो गुणवचनाः स्युः , सधर्मभिरन्यैः गुणवचनैः भवितव्यम् ।
अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते , तद्यथा - शुक्लं वस्त्रम् ........तद्गुणस्यापि भवति ।
विंशत्यदयः पुनः नानुवर्तन्ते ।
अन्ये॑ पि वै गुणवचना नावश्यं द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते , तद्यथा - गावो धनम् । पुत्रा अपत्यम् । इन्द्राग्नी देवता । विश्वेदेवा देवता । यावन्तस्ते तां वाशितामनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति ।
अथ अत्र अननुवृत्तौ हेतुः शक्यो  वक्तुम् ? 
बाढं शक्यो वक्तुम् ।
कामं तर्हि उच्यताम् । इह - कदाचिद्गुणः प्राधान्येन विवक्षितो भवति , तद्यथा - पञ्चोडुपशतानि तीर्णानि । अश्वैर्युद्धम्  असिभिर्युद्धम् इति । न च असयो युद्ध्यन्ते , असिगुणाः पुरुषाः युद्ध्यन्ते , गुणस्तु खलु प्राधान्येन विवक्षितो भवति ।
इह तावद्गावो धनमिति , धिनोतेर्धनम् , एको गुणः स च प्राधान्येन विवक्षितः ।
पुत्रा अपत्यमिति , अपतनादपत्यम् , एको गुणः स प्रधान्येन विवक्षितः । ......

The most commonly offered example is - वेदाः प्रमाणम् (न्यासः , पदमञ्जरी )  and this is from  गान्धर्ववेदः - सङ्गीतरत्नाकरः - 1, स्वराध्यायः

आदिर्ञिटुडवः (1-3-5) - can be an example for संख्या ।

देवात्तल् ( 5-4-27) --  देवता -- अग्निर्देवता , गायत्री देवता

देवतान्तात्तादर्थ्ये यत् (5-4-24) --
भाष्यम् --
देवतान्तादित्युच्यते तत्रेदं न सिद्धयति - पितृदेवत्यमिति ।
किं कारणम् ?
न हि पितरो देवता ।
नैष दोषः । देवेः ऐश्वर्यकर्मणो देवः , तस्मात् स्वार्थे तल् । एवं च कृत्वा देवदेवत्यमपि सिद्धं भवति ।
कैयटः --
दिवेरिति । क्रियाशब्दो देवताशब्दो न तु जातिवाचीत्यर्थः ।

पाणिनेः लिङ्गानुशासनप्रकरणम् -- पुंलिङ्गाधिकारः --

40.  क्यन्तो घुः । किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः। उदधिः। क्यन्तः किम् ? दानम् । घुः किम्? जज्ञिर्बीजम् । 
41. इषुधिः स्त्री च । इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्यापवादः ।

संबन्धमनुवर्तिष्यते ( भाष्यम्) - इत्यादिप्रयोगेभ्यः इदं प्रकरणं सूचनामात्रम् इति व्याख्यातारः ।
तस्मात् ॑भक्तनिधिः ललिता ॑ इति लिङ्गगतासामानाधिकरण्ये॑पि साधुः प्रयोगः । भक्तनिधिशब्दस्य सामानाधिकरण्यसिद्ध्यर्थं पाक्षिको॑पि निद्ध्यै इति न कल्प्यः इति तात्पर्यम् । निधिशब्दः पुंलिङ्गः ।

धन्यो॑स्मि









Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Subrahmanyam Korada

unread,
Apr 16, 2019, 8:08:51 AM4/16/19
to bvpar...@googlegroups.com

नमो विद्वद्भ्यः

निरुणद्धि स्म सन्ध्याकालः ।

कैयटदीक्षितनागेशैः पस्पशाह्निकस्थः अयं प्रयोगः प्रायेण समुद्घाट्यते --

शक्यं च अनेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम् - शक्यम् इति ॑ सामान्ये नपुंसकम् ॑ - नो चेत्  शक्या क्षुत् इति हि स्यात् । 

यद्भावः तद्भवति - इति व्याख्यातम् अनेन ।

(पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः - इति प्रयोगः ॑ विकृतेः वचनमेव भवति न तु प्रकृतेः वचनम् ॑ इति ज्ञापयितुम्  - अत एव ॑ शैत्यं हि यत् सा प्रकृतिर्जलस्य ॑ इति कालिदासः - रघु. 5 )

कौमुद्यां बहुव्रीहिसमासे ॑ न कपि ॑ इति सूत्रे --  ॑सामान्ये नपुंसकम् ॑ दृढं भक्तिर्यस्य सः दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढा भक्तिः (प्रियादिषु पाणिनिः भक्तिशब्दं पठति ) ।

पाणिनेः लिङ्गानुशसनप्रकरणे स्त्रीलिङ्गाधिकारे ॑ पि दृढभक्तिः उदाहृतः ।

मल्लिनाथो ॑पि प्रायुङ्क्त --

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं संनिधिः संनिघिं क्रियात् ।।

संनिधिः शारदा संनिधिं क्रियादिति ।
 
भास्कररायः यद्यपि महाविद्वान् - परन्तु  तत्र तत्र तस्य भाष्येषु  ( तन्त्रग्रन्थेषु - वामकेश्वरतन्त्रम् ) कानिचन वचनानि चिन्त्यानि  लक्ष्यन्ते इति विषयान्तरमेतत् ।
Reply all
Reply to author
Forward
0 new messages