साधुशब्दः

175 views
Skip to first unread message

Chandrakant Kulkarni

unread,
Mar 11, 2024, 12:42:21 PM3/11/24
to bvpar...@googlegroups.com

नमो विद्वद्भ्यः।

साधुशब्दः त्रिषु लिङ्गेषु वर्तते इति अमरकोशे उक्तं, वाचस्पत्यकोशे अपि उक्तम्।परं चरकसंहितायाः चक्रपाणिटीकायाम् अयं शब्दः अजहल्लिङ्गः अस्ति इति उल्लेखः दृश्यते।

 

साधुशब्दः अजहल्लिङ्गतया नपुंसकलिङ्गे एव; यथा- वेदाः प्रमाणम् इति।

–चरकसंहितायां  सूत्रस्थाने १.३५ चक्रपाणिटीका

 

अतः जायते सन्देहः साधुशब्दः त्रिलिङ्गः वा अजहल्लिङ्गः वेति।

विद्वांसः अनुग्रहं कुर्वन्तु।

चन्द्रकान्तः

Mahamaho. Subrahmanyam Korada

unread,
Mar 28, 2024, 3:09:46 PM3/28/24
to bvpar...@googlegroups.com

नमो विद्वद्भ्यः

साधुशब्दः अजहल्लिङ्गतया नपुंसकलिङ्गे एवयथा- वेदाः प्रमाणम् इति।

–चरकसंहितायां  सूत्रस्थाने १.३५ चक्रपाणिटीका

 

अतः जायते सन्देहः साधुशब्दः त्रिलिङ्गः वा अजहल्लिङ्गः वेति     ------ विद् चन्द्रकान्त कुलकर्णी


श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम् । यथावत्सूत्रितमिति प्रहृष्टास्ते’नुमेनिरे ॥
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः । साधु , भूतेष्वनुक्रोशा इत्युच्चैरब्रुवन् समम् ॥ 1- 34,35 , सूत्रस्थानम् , चरकसंहिता
चक्रपाणिव्याख्या --
....साधुशब्दः अजहल्लिङ्गतया नपुंसकलिङ्ग एव , यथा वेदाः प्रमाणमिति । केचित्तु साध्विति विशेषणस्य नपुंसकलिङ्गतानुरोधात्  अनुक्रोशमित्यपि नपुंसकलिङ्गं पठन्ति ।

अत्र च प्रमादद्वयं वर्तते चक्रपाणिपण्डितस्य --

1.साधुशब्दः अजहल्लिङ्गतया नपुंसकलिङ्ग  एव -- This अजहल्लिङ्ग-शब्द is not employed in general - he means नित्यनपुंसकलिङ्गः । This is wrong ---
साधुः --
वेदो’खिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनाम् आत्मनस्तुष्टिरेव च ॥ 2-6 , मनुस्मृतिः
सतां धनं साधुभिरेव भुज्यते
दुरात्मभिर्दुश्चरितात्मनां धनम् ।
शुकादयश्चूतफलानि भुञ्जते
भवन्ति निम्बाः खलु काकभोजनाः ॥
शिष्टेभ्य आगमात्सिद्धा साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ॥ 1-27 , वाक्यपदीयम्
अस्वगोण्यादयश्शब्दाः साधवो विषयान्तरे । निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थितम् ॥ 1-149 , ibid
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ॥ 1-150 , ibid
साध्वी --
साध्वीमकर्देवहूतिं नो अद्य -- कृष्णयजुर्वेदे
वृद्धौ च मातापितरौ भार्या साध्वी सुतश्शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ 11-10 , मनुस्मृतिः 
साध्वीयमपरा लक्ष्मीः असुधासागरोदिता  -- रूपकालङ्कारः , चन्द्रालोकः
साधु --
साधु दूति पुनस्साधु कर्तव्यं किमतः परम् ।
यन्मदर्थं विलूनासि दन्तैरपि नखैरपि ॥ व्याजस्तुत्यलङ्कारः , चन्द्रालोकः

So साधुशब्दः त्रिलिङ्गः - विशेष्यनिघ्नः

वेदाः प्रमाणाम् -- this usage is there in गान्धर्ववेद (सङ्गीतरत्नाकरः) -- 
Under पङ्क्तिर्विंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् पा 5-1-59 , Patanjali  discusses this aspect -- 
वार्तिकम् - अनारंभो वा प्रातिपदिकविज्ञानात् यथा सहस्रादिषु ।
भाष्यम् - अनारंभो वा पुनर्विंशत्यादीनां न्याय्यः । कथं सिद्ध्यति ? प्रातिपदिकविज्ञानात् । कथं प्रातिपदिकविज्ञानम् ? विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि । यथा सहस्रादिषु ।
तद्यथा - सहस्रं - अयुतम् - अर्बुदम् इति । न चानुगमः क्रियते , भवति चाभिधानम् । (अनुगमः = प्रकृतिप्रत्यययोः) ।
यथा सहस्रादिष्वित्युच्यते , अथ सहस्रादिषु कथं भवितव्यम् ? सहस्रं गवाम् । सहस्रं गावः । सहस्रगवम् । गोसहस्रमिति ।
यदि तर्हि - इमे विंशत्यादयो गुणवचनाः स्युः , सधर्मभिरन्यैः  गुणवचनैः भवितव्यम् ।
अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते , तद्यथा - शुक्लं वस्त्रम् , शुक्ला शाटी , शुक्लः कंबलः , शुक्लौ कंबलौ , शुक्लाः कंबलाः इति ।
विंशत्यादयः पुनः नानुवर्तन्ते ।
अन्ये’पि वै गुणवचना नावश्यं द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते , तद्यथा - गावो धनम् । पुत्रा अपत्यम् । इन्द्राग्नी देवता । विश्वे देवा देवता ।....
अथात्राननुवृत्तौ हेतुः शक्यो वक्तुम् ?
बाढं शक्यो वक्तुम् ।
कामं तर्ह्युच्यताम् । इह - कदाचित् गुणः प्राधान्येन विवक्षितो भवति , तद्यथा - पञ्चोडुपशतानि तीर्णानि । पञ्चवर्ध्रीशतानि तीर्णानि । अश्वैर्युद्धम् । असिभिर्युद्धम् इति । न च असयो युद्ध्यन्ते , असिगुणाः पुरुषा युद्ध्यन्ते , गुणस्तु खलु प्राधान्येन विवक्षितो भवति ।
इह तावद्गावो धनमिति , धिनोतेः धनम् , एको गुणः स च प्राधान्येन विवक्षितः ।

वेदाः प्रमाणम् - एकैकस्य वेदस्य प्रामाण्ये विवक्षिते ’ वेदाः प्रमाणानि ’ इति स्यात् (पदमञ्जरी) ।
आदिः ञिटुडवः - पा सू । जात्याकृतिव्यक्तयस्तु पदार्थः - न्यायसू . । रक्षोहागमलघ्वसन्देहाः प्रयोजनम् - महाभाष्यम् (पस्पशा) । इति हेतुस्तदुद्भवे , हेतुर्न तु हेतवः - 
काव्यप्रकाशः
2. केचित्तु साध्विति विशेषणस्य नपुंसकलिङ्गतानुरोधात्  अनुक्रोशमित्यपि नपुंसकलिङ्गं पठन्ति 
अत्र च  बभ्राम  चक्रपाणिः । अन्ये च ।
साधु इति पृथक् स्वतन्त्रं पदम् - न तु  विशेषणम् -- यथा ’ साधु दूति ’ इति । ’ सामान्ये नपुंसकम् ’ ।
अनुक्रोशशब्दस्य घञन्तस्य पुंलिङ्गतैव , न तु नपुंसकता । अनुक्रोशः एषामस्तीति अनुक्रोशाः - मत्वर्थीयः अकारः , यथा विभक्ता भ्रातरः ।

धन्यो’स्मि


Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADigR8Fwg5jKQhPTvzYgaYLcaY8LNFsqLayFfHmnb8ZKZPXvXw%40mail.gmail.com.

Chandrakant Kulkarni

unread,
Apr 16, 2024, 12:12:19 AM4/16/24
to bvpar...@googlegroups.com
सन्तोषप्रदम् इदं विवरणम्।अनुगृहीतोऽस्मि।पुनः प्रणमामि। 

K S Kannan

unread,
Apr 16, 2024, 1:36:49 AM4/16/24
to bvpar...@googlegroups.com
My understanding is rather simple; 
hope it is ok.

Same words sometimes can act now as adjectives, now as adverbs.
* As an adjective, the word has forms in all the three genders.
* As an adverb, it has the look of a neuter gender noun (in the Objective Case), 
though it is an indeclinable.

Enjoy the beauty of ambiguity (as adj./adv.) in the following sentence
(an example I have often given to differentiate the two roles):

(सः मन्दः।)
तं मन्दं गच्छन्तं पश्य ।

Reg. "साधु" :
Adjectival (forms in Nominative Singular in m., f., and n. respectively): साधुः, साध्वी, साधु
Adverbial (one form only - looking like the Neuter form immaterial of the Number of the kriyāpada): साधु (an avyaya).
साधु गायति ।
साधु गायन्ति ।
रेभिल, साधु गीतम् ।

"साध्विदमुच्यते" किल !



--
Dr. K.S.Kannan  D.Litt.

​Sant Rajinder Singh Ji Maharaj Chair Professor (Retd.), IIT-Madras.

Member, Advisory Board, "Prof. A K Singh AURO Chair of Indic Studies", AURO University, Surat.
Member, Expert Committee for Review of Criticism of Indian Knowledge Traditions, Central Sanskrit University (under MoE, GoI), Ganganath Jha Campus, Prayagraj.
Adjunct Faculty, Dept of Heritage Science and Technology, IIT Hyderabad.
Nominated Member, Academic Committee, Kavi Kula Guru Kalidasa University, Ramtek.
Member, Academic Council, Veda Vijnana Shodha Samsthana.
Academic Director, Swadeshi Indology.
Nominated Member, IIAS, Shimla.

Former Professor, CAHC, Jain University, Bangalore.

Former Director, Karnataka Samskrit University, Bangalore.

Former Head, Dept. of Sanskrit, The National Colleges, Bangalore.

https://sites.google.com/view/kskannan

Chandrakant Kulkarni

unread,
Apr 23, 2024, 11:32:52 AM4/23/24
to bvpar...@googlegroups.com

नमो नमः आचार्य कन्नान,

प्रतिस्पन्दार्थं धन्यवादाः।भवता कृतं विवरणं ज्ञातम्।

 

तथापि प्रश्नः अवशिष्यते यत् साधुशब्दः भाषायां त्रिषु लिङ्गेषु प्रयोक्तुं शक्यते चेत् चक्रपाणिः

 

साधुशब्दः अजहल्लिङ्गतया नपुंसकलिङ्गे एव

इति किमर्थं लिखति ?

 

मन्दशब्दस्य विशेषणरूपेण प्रयोगः भवता दर्शितः, क्रियाविशेषणरूपेण अपि प्रयोगः दर्शितः। किम् एतावता मन्दशब्दः अजहल्लिङ्गः भवति? सः त्रिषु लिङ्गेषु विद्यते इति कोशः। क्वचित् क्रियाविशेषणं भवति।तदा क्लीबे तस्य प्रयोगः भवति।भवतु नाम।तेन तस्य त्रिलिङ्गत्वं न लुप्यति।

 

एवम् एव साधुशब्दविषये कुतो न भवति।सः अपि विशेष्यनिघ्नः अस्ति । क्रियाविशेषणस्थले सः कामं क्लीबे प्रयुज्येत।तदर्थं कोशं वाङ्मयं च विरुद्ध्य तस्य अजहल्लिङ्गता चक्रपाणिना किमर्थं प्रतिपाद्यते।एतद् अजहल्लिङ्गत्वं उपपन्नं भवति वा इति प्रश्नः।

 

चन्द्रकान्तः।


K S Kannan

unread,
Apr 23, 2024, 9:04:30 PM4/23/24
to bvpar...@googlegroups.com
यत्पर्याप्तं प्रयोगस्य तदुपस्थापितं मया ।
कोराडाद्यास्समाश्रेयास्ततोऽधिककुतूहले ॥
कण्णन् ।

BVK Sastry (G-S-Pop)

unread,
Apr 23, 2024, 11:13:15 PM4/23/24
to bvpar...@googlegroups.com

Namaste Chandrakant Kulkarni

 

On : < तथापि प्रश्नः अवशिष्यते यत् साधुशब्दः भाषायां त्रिषु लिङ्गेषु प्रयोक्तुं शक्यते चेत् चक्रपाणिः  >

 

What I notice through this thread of discussion is the following:

 

a) < साधु > meaning-usage discussion, by default seems to  be locked to default language tag: < Sanskrit>.

     Is this a necessity ? to understand ‘Social Usage of a Samskruth Word < भाषायां > ’ which retains its

     structural integrity in  < त्रिषु लिङ्गेषु  > all genders ? in ‘Samskrutham.

      Why would a common users worry about the grammar –technicality overload on the ‘term’, if it yields

       same form ( Avyaya)  in all < vibhakti- vachana- Linga> ??  

 

     Simple Practical Usage Convenience / Freedom from ‘Grammar- Load’ and still be ‘Grammar – Right’.

 

b) If the default condition [default language tag: < Sanskrit> ] is  unlocked and word usage is seen across the vast array of Oriental/ Indic Languages : And  I am pointing to specific Live usage in ‘Prakrut – language Family, as seen in Buddhism / Other religious ritual practices . 

The term < साधु >  is uttered by the assembly of ‘ Buddhist monks’ at the end of ‘Sutra/ Scripture/ Sacred Chants –Discourse.  The meaning mapping of such usage resonates to Vedic Traditional practice and usage where the term is < Tathastu, Svasti, Shubham, Managalam, Astu…..  >  to communicate < Well Said, So be it, Blessings, Bless you all, Amen, Hallelujah, Om shanti,…  >

 

Regards

BVK Sastry

Chandrakant Kulkarni

unread,
Apr 24, 2024, 12:11:57 AM4/24/24
to bvpar...@googlegroups.com
अस्तु।धन्यवादाः।

Reply all
Reply to author
Forward
0 new messages