नमो वः,
सानन्दं वदामि यत् अधुना मत्संस्थायाः नूतनं जालस्थानं प्रकाशितम् अस्ति। यत्र अस्माभिः क्रियमाणानि नैकानि कार्याणि एकत्र उपलभ्यन्ते।
अवलोक्यताम्। संविभज्यताञ्च।
अचिरात् इतोऽपि उपकरणानि उपलप्स्यन्ते। तानि यथा -
१. संस्कृतस्य स्वयं शिक्षणम् इति व्यवस्था यत्र पाठाः, अभ्यासाः, प्रश्नावलयः, क्रीडाः, इति पठनसामग्र्यः दास्यन्ते। एतैः कश्चन स्वतः भाषां शिक्षितुं प्रभवति।
२. गणितम्। यत्र संस्कृतेन समग्राणि अपि अष्ट परिकर्माणि बोधिष्यन्ते।
अपि यदि भवतां पत्रमिदं पठितॄणां मनसि उपायाः आयान्ति ये च रचनीयाः संस्कृतभाषाशिक्षणसौकर्यार्थं तर्हि अवश्यं तान् अंशान् कथयन्तु सज्जनाः।