नमो विद्वद्भ्यः
At the end of अव्ययप्रकरणम् in सिद्धान्तकौमुदी , दीक्षित quotes the following verse --
वष्टि भागुरिरल्लोपम् अवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥
The above verse is not there in महाभाष्यम् ।
’ भागुरिमतेन टापि दिशा । ’दिक् तु स्त्रियां दिशा दान्ती ककुब् देववधूः पविः’ इति शब्दार्णवः -- अमरकोशे सुधा व्याख्या (दिग्वर्गः) ।
’नितरां श्यति तनूकरोति व्यापारान् - शो तनूकरणे(दिवादिः) - आतश्चोपसर्गे पा 3-1-136 इति कः -- अमरकोशे सुधा व्याख्या (कालवर्गः) ।
माधवीयधातुवृत्तिः --
णिश समाधौ (भ्वादिः) । अत्र मैत्रेयः निशाशब्दम् अस्मादाह । तस्यायमभिप्रायः - क्विपि ’ आपं चैव हलन्तानां यथा वाचा निशा दिशा " इति टाबिति । अन्ये तु नितरां शेरते अस्यामिति शेतेरधिकरणे डप्रत्यये व्युत्पादयन्ति ।
दिश अतिसर्जने (तुदादिः) । ....दिशा - ’आपं चैव हलन्तानाम्’ इति भागुरिवचनात् टाप् ।
वाचा - is not touched by माधव ।
अव्ययकोश simply quotes कौमुदी ।
For some reason or the other काशिका - न्यास - पदमञ्जरी - शब्दकौस्तुभ - प्रौढमनोरमा etc. did not touch the following महाभाष्यम् under ङ्याप्प्रातिपदिकात् (4-1-1) --
आब्ग्रहणमपि न कर्तव्यम् । आबपि हि अकारान्ताद्विधीयते । तत्रैकादेशः । एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसंज्ञा भविष्यति । यस्तर्ह्यनकारान्तात् - क्रुञ्चा उष्णिहा देवविशेति ?
अत्रापि अकारान्तात् वृत्तिर्लक्ष्यते -- क्रुञ्चानालभेत , उष्णिहककुभौ , देवविशं च मनुष्यविशं चेति । ... तस्मात् क एव एवं विषयः ।.... बहुराजा ...।
प्रदीपः - यदा तु मूलविभुजादित्वात् ’देवविश’ शब्दः कप्रत्ययान्तः ...।
उद्योतः - कप्रत्ययान्तः अदन्त एव एवं विषयः - देवविशं देवविशेत्यादिप्रयोगविषयः न हलन्त इत्यर्थः । ..एतेन हलन्तेभ्यो’पि टाबिति भागुरिमतं चिन्त्यमिति सूचितम् ।.......भाष्ये बहुराजेतीति ।
वाचा निशा दिशादेरप्युपलक्षणामिदम् ।
There is some discussion related to स्वर in भाष्यम् here .
लघुशब्देन्दुशेखरः -- ... इदं च भाष्ये न दृश्यते । निश्दिशोरिगुपधलक्षणे के अदन्तत्वादेव टाप् । क्विनि दिगित्यपि । अत एव ’ङ्याप्प्रति..’ इति सूत्रे ....आब्ग्रहणमपि .....इत्युक्त्वा बहुराजेति
’डाबन्तार्थम् आब्ग्रहणम्’ इति भाष्ये उक्तं सङ्गच्छते । तस्माद्वाचेत्यसाध्वेवेति शिवम् ।
’वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ( छां उ 6-1-4 ) -- here it is to taken as छान्दसप्रयोगः -- ’ व्यत्ययो बहुलम्’ पा 3-1-85 .
So the so called भागुरिमतम् is not acceptable .
Now let us discuss 'वष्टि’ -- को’यं शब्दः ?
वश कान्तौ - अदादिः - वष्टि । व्रश्चभ्रस्ज ... पा 8-2-36 इति षत्वम् - ष्टुत्वम् ।
षसिवशी छान्दसौ । दृष्टानुविधयः छन्दसि भवन्ति -- महाभाष्यम् , ’जक्षित्यादयः षट्’ पा 6-1-6 ,
प्रदीपः -- अन्ये तु - षस स्वप्न इति न पठन्ति । वशेर्भाषायां वार्तिककारमतेन प्रयोगः साधुः ।
उद्योतः -- ननु वशेश्छान्दसत्वे ’वष्टि भागुरिः -’ इत्यादिप्रयोगाणां का गतिः ? अत आह - वशेरिति । यदि भाष्यवार्तिककारौ प्रमाणं तर्हि असाधुरेव स प्रयोग इति भावः ।
पदमञ्जरी -- षसशस्ती छान्दसौ , वशिरपि , तस्यापि भाषायां न प्रयोगः साधुः -- भाष्यवार्तिककारौ चेत्प्रमाणम् ।
So 'वष्टि’ cannot be used in लोक ।
प्रौढमनोरमा -- अपत्याधिकारप्रकरणम् - ’अतश्च’ पा 4-1-175 --
कारूशीति । कृञ उः । तं वष्टि मूलविभुजादित्वात् कः । करूशः ।
Here शब्दरत्न maintains silence .
Does दीक्षित want to suggest देवविश discussed above with the same कः ?
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741