कारिकेयं वाक्यपदीये कुत्र ?

57 views
Skip to first unread message

Pankaj Vyas

unread,
Dec 13, 2012, 8:09:15 AM12/13/12
to bvpar...@googlegroups.com
नमो विद्वद्भ्यो महद्भ्यः !
                     तत्र कौस्तुभे मनोरमायां च भट्टोजिः "स्वतन्त्रः कर्त्ता" इति सूत्रव्याख्याने स्वातन्त्र्यविषये "धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते" इति कारिकाया अर्धांशमुद्धरति परन्तु कारिकेयं किं वाक्यपदीयस्था उत प्राचीनग्न्थेभ्य उद्धृतेति संशीतिः । किञ्च बालमनोरमाकारः, कौण्डभट्टः, अन्ये च केचन व्याख्यातारः कारिकेयं वाक्यपदीयस्थेति लिलिखुः स्वस्वग्रन्थेषु । परं न केनापि सम्पूर्णा निर्दिश्यते । अन्ये च सुधानिधि-तत्त्वबोधिनी-भैमीकारादयः अन्ये च भूषणव्याख्यातारः कारिकाया अर्धांशमेवोद्धरन्ति परं भर्तृहरिकृतेति न सूचयन्ति केवलम् "आह च" इत्यादिना निर्देशमात्रं विदधति । एन्. एस्. रा. ताताचार्या अपि शाब्दबोधमीमांसायां सुबर्थवादखणडे कारिकाकृतो नामोल्लेखं विनैव कारिकामुज्जह्रुः । अतः समुपलभ्यमानसन्दर्भग्रन्थेषु अनुक्तकारिकांशं तत्सन्दर्भञ्च यावच्छक्ति अन्विष्यापि तत्प्राप्तुमसमर्थः सन् भवतः सर्वान् समस्यामिमां परिहर्तुं समाधातुं च प्रार्थये । वर्तमानलभ्यमानवाक्यपदीयग्रन्थे क्वापि नेयं दृष्टेति सूचना ।
Dr. Pankaj Kumar Vyas
Asst. Professor in Vyakarana
Haryana Sanskrit Vidyapeetha,
Baghola, Distt. Palwal
Faridabad,
Haryana- 121102
Ph. (1) 09896901818
      (2) 09355459990

Pankaj Vyas

unread,
Dec 14, 2012, 1:45:48 PM12/14/12
to bvpar...@googlegroups.com

Dr. Pankaj Kumar Vyas
Asst. Professor in Vyakarana
Haryana Sanskrit Vidyapeetha,
Baghola, Distt. Palwal
Faridabad,
Haryana- 121102
Ph. (1) 09896901818
      (2) 09355459990




--
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
 
 
 

narayanan er

unread,
Dec 17, 2012, 1:30:01 AM12/17/12
to pkv...@gmail.com, bvpar...@googlegroups.com
परिष्कारदर्पाणाख्यो ग्रन्थः। तत्रापि-तदुक्तं हरिणा-इत्येवोच्यते। अग्रे चैवमुपलाभः।


Author : व्याकरण सिरोमणि पण्डिट् वेनिमाधव शुक्ल
Editor : पण्डिट् राजा नारायण शुक्ल
Published by : Jai Krishnadas-Haridas Gupta
Year of Publishing : 1955
शाब्दिकास्तु-स्वातन्त्र्यञ्च समभिव्याहृतकारकान्तरानधीनत्त्वे सति कारकत्त्वम्, धात्वर्थव्यापाराश्रयत्त्वं वा। तदुक्तं हरिणा-
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते।
प्राधान्यतः शक्तिलाभात् प्राग्भावापादनादपि।।१।। इति।

केवलं तदुक्तं हरिणा-इत्येवमुक्तम्, न तु वाक्यपदीये इति।


From: Pankaj Vyas <pkv...@gmail.com>
To: "bvpar...@googlegroups.com" <bvpar...@googlegroups.com>
Sent: Saturday, 15 December 2012 12:15 AM
Subject: Fwd: {भारतीयविद्वत्परिषत्} कारिकेयं वाक्यपदीये कुत्र ?

उदयनः (Udayana)

unread,
Dec 17, 2012, 8:45:33 AM12/17/12
to drerna...@yahoo.com, bvpar...@googlegroups.com
Link not working


Udayana
Manager, BVP

Ashok Aklujkar

unread,
Dec 28, 2012, 1:21:03 PM12/28/12
to drerna...@yahoo.com, pkv...@gmail.com, bvpar...@googlegroups.com
Relevant parts of two earlier messages:
1. From: Pankaj Vyas <pkv...@gmail.com>
Date: 2012/12/13
Subject: {भारतीयविद्वत्परिषत्} कारिकेयं वाक्यपदीये कुत्र ?
"... कौस्तुभे मनोरमायां च भट्टोजिः "स्वतन्त्रः कर्त्ता" इति सूत्रव्याख्याने स्वातन्त्र्यविषये "धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते" इति कारिकाया अर्धांशमुद्धरति परन्तु कारिकेयं किं वाक्यपदीयस्था उत प्राचीनग्न्थेभ्य उद्धृतेति संशीतिः । किञ्च बालमनोरमाकारः, कौण्डभट्टः, अन्ये च केचन व्याख्यातारः कारिकेयं वाक्यपदीयस्थेति लिलिखुः स्वस्वग्रन्थेषु । परं न केनापि सम्पूर्णा निर्दिश्यते । अन्ये च सुधानिधि-तत्त्वबोधिनी-भैमीकारादयः अन्ये च भूषणव्याख्यातारः कारिकाया अर्धांशमेवोद्धरन्ति परं भर्तृहरिकृतेति न सूचयन्ति केवलम् "आह च" इत्यादिना निर्देशमात्रं विदधति । एन्. एस्. रा. ताताचार्या अपि शाब्दबोधमीमांसायां सुबर्थवादखणडे कारिकाकृतो नामोल्लेखं विनैव कारिकामुज्जह्रुः । अतः समुपलभ्यमानसन्दर्भग्रन्थेषु अनुक्तकारिकांशं तत्सन्दर्भञ्च यावच्छक्ति अन्विष्यापि तत्प्राप्तुमसमर्थः सन् भवतः सर्वान् समस्यामिमां परिहर्तुं समाधातुं च प्रार्थये । वर्तमानलभ्यमानवाक्यपदीयग्रन्थे क्वापि नेयं दृष्टेति सूचना ।

2. On 2012-12-16, at 10:30 PM, narayanan er wrote:
परिष्कारदर्पाणाख्यो ग्रन्थः। तत्रापि ... शाब्दिकास्तु-स्वातन्त्र्यञ्च समभिव्याहृतकारकान्तरानधीनत्त्वे सति कारकत्त्वम्, धात्वर्थव्यापाराश्रयत्त्वं वा। तदुक्तं हरिणा- धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते। प्राधान्यतः शक्तिलाभात् प्राग्भावापादनादपि।।१।। इति। केवलं तदुक्तं हरिणा-इत्येवमुक्तम्, न तु वाक्यपदीये इति।

The second line must be a corruption of प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि found in VP 3.7.101. The first could have come from a so far undiscovered work of Bhart.r-hari titled शब्द-धातु-समीक्षा or (as Prof. Raffaele Torella has pointed out) षड्-धातु-समीक्षा. It is instructive that the earlier citers cite only the first half. The शब्द-धातु-समीक्षा or षड्-धातु-समीक्षा seems to have been available (probably in rarely found manuscripts) at least until the time of Cit-sukha (around 1220 A.D.), who cites a line from it (as noted by Prof. Lambert Schmithausen). Bha.t.toji's (15th century A.D.) access to a line in it, directly or indirectly, is therefore quite likely.

a.a.
Reply all
Reply to author
Forward
0 new messages