योगदर्शनस्य प्रणेता महर्षिः पतञ्जलिः आसीत् । तद्र्चना योगसूत्रनाम्ना प्राप्यते । “ अथ योगानुशासनम्” इति सूत्रेण योगसूत्रस्य प्रारम्भो भवति । अनुशासन शब्दस्यार्थोऽस्ति-उद्दिष्टसिद्धान्तानां प्रतिपादनम् । अतएव इदमनुमानं स्वाभाविकं जायते यत् योगस्य सिद्धान्ता पूर्वम् उपदिष्टाः । याज्ञवल्क्यस्मृतिग्रंथे उल्लेखोऽस्ति यत् महायोगी हिरण्यगर्भ एव सर्वप्रथमं योगस्य उपदेशं प्रददौ । महर्षिणा पतञ्जलिना तस्योपदेशस्यैव सुव्यवस्थितं निरुपणं कृतम् ।
महाभाष्यस्य प्रणेता वैय्याकरणः पतञ्जलिरेव योगसूत्रस्य कर्त्ता आसीत् इति तथ्यम् अनेकैः प्रमाणैः सिदध्यति । यद्यपि सांख्ययोगौ एकीभूतौ मन्येते तथापि योगशास्त्रे सांख्य प्रतिकूलस्य स्फोटवादसिद्धान्तस्य समर्थनं विहितम् स्फोटवादः व्याकरणशास्त्रे सुचर्चितोऽस्ति अतः योगसूत्रकर्त्ता पतञ्जलिः स्फोटवादस्य प्रणेता महाभाष्यकार एकैवावर्तत । पतञ्जलेः स्थितिकालः ईस्वीपूर्वं द्वितीयशताब्दी स्वीक्रियते । यद्यपि कैश्चिद् विद्वद्भिः योगसूत्रस्य चतुर्थपादे विज्ञानवादस्य खण्डनमस्ति अतः योगसूत्राणां रचनाकालः बौद्ध-आचार्यात् मैत्रेयात् परवर्ती स्वीकृतः, किन्तु तन्मतं युक्तियुक्तं नास्ति , यतोहि बौद्धविज्ञानवादस्य अवधारणायाः पूर्वमपि विज्ञानवादस्य उल्लेखः प्राप्यते यथा छान्दोग्योपनिषदि ।
योगसूत्रस्य चत्वारः पादाः सन्ति –(१) समाधिपादः (२) साधनपादः (३) विभूतिपादः (४) कैवल्यपादश्च । प्रथमे समाधिपादे चिदवृत्तीनां समाधिभेदानां च वर्णनं विद्यते । द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गनां च प्रतिपादनमस्ति । तृतीये विभूतिपादे धारणा –ध्यान –समाधिरुपाणां अवशिष्टानां विशिष्टयोगाङ्गनां प्रतिपादनेन सह योगाभ्यासजन्य –अदृश्यशक्तिनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते । चतुर्थे कैवल्यपादे समाधिसिद्धि- निर्वाणचित्त-विज्ञानवादखण्डन –कैवल्यादयो विषया विस्तरेण निरुपिताः सन्ति ।
1. समाधिपादः
2. साधनापादः
3. विभूतिपादः
4. कैवल्यपादः
पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति । तस्य नामास्तिव्यासभाष्यम् इति । योगसूत्राणां रहस्यं स्फुटीकर्त्तुं अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं च स्वीक्रियते । यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते । वाचस्पतिमिश्रस्य तत्त्ववैशारदी “ विज्ञानभिक्षोः” “योगवार्तिकं “ च श्रेष्ठौ टीकाग्रन्थौ स्तः । एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीका “ भास्वती” नाम्नाऽपि प्राप्यते । तत्त्ववैशारदी” विषयीकृत्य कालान्तरे राघवानन्देन “पातञ्जलयोगरहस्यम्” इति नाम्ना टीकाग्रन्थो रचितः ।
योगसूत्रमधिकृत्यापि अनेकाः टीकाः प्राप्यन्ते । यथा –भोजविरचिता भोजवृत्तिः, भावगणेशविरचिता वृत्तिः, रामानन्दयतिविरचिता मणिप्रभा, अनन्तपण्डितरचिता योगचन्द्रिका, सदाशिवेन्द्रसरस्वतीकृत “योगसुधाकराख्ये”, नागोजिभट्ट विरचिता ब्राह्मवृत्तिः, बृहतीवृत्तिश्च, ओमानन्दतीर्थप्रणीतः योगप्रदीपश्चेति ।
उपर्युक्ताः सर्वाः टीका अनुहविभिः योगसाधकैः रचिताः सन्ति । योगसूत्राणां परिज्ञानाय आसां सर्वासां टीकानामुपयोगिता प्रतीयते । स्वामिना ओमानन्दतीर्थेन लिखिते योगप्रदीपग्रंथे विस्तृतभूमिकायां योगस्य स्वरुपं उपस्थाप्य ग्रन्थस्य अपादेयता संवर्धिता । इयं टीका गीताप्रेस, गोरखपुरतः प्रकाशिताऽस्ति ।
योगस्वरुपम्-“योगश्चिवृत्तेर्निरोधः “ इति योगस्य परीभाषा योगसूत्रकारेण उदाहृता । चितञ्च क्षिप्त –मूढ –विक्षिप्त –एकाग्र –निरुद्धाख्यासु पञ्चभूमिषु विद्यमानं भवति । क्षिप्तभूमिः रजोगुणबहुला वर्तते । एषाऽवस्था दैत्य-दानव –उन्मत्तजनानां च भवति । मूढभूमिः तमोगुणबहुला भवति । इयं राक्षस-पिशाच-मदोन्मत्तानां जायते । विक्षिप्तभूमिः सत्त्वप्रधाना किन्तु रजोयुक्ता अपि भवति । इयं प्रथमभूस्थितानां योगिनां देवानां च चितभूमिरस्ति । इयं निरुद्धसत्त्वप्रधाना मन्यते । चितस्य सर्वासु वृत्तीसु उपरुद्धासु तत्तद्वृत्तीनां संस्कारमात्रेण युक्तं चितं निरुद्धं भवति । एषैव अन्तिमा भूमिरस्ति । चित्तवृत्तयोऽपि पञ्चविधाः प्रतिपादिताः –(१) प्रमाणवृत्तिः (२) विपर्ययवृत्तिः(३) विकल्पवृत्तिः (४) निद्रावृत्तिः (५) स्मृतिवृत्तिश्चेति । इमा रागद्वेषादिक्लेशानां कारणरुपाः सन्ति, तेषां विनाशिन्योऽपि भवन्ति, अतः आसां वृत्तीनां वर्गीकरणं द्विधा प्रतिपादितम् –क्लिष्टा अक्लिष्टाश्चेति ।
प्रमाणानि-योगदर्शने सांख्यसम्मतानां त्रयाणां प्रमाणानामेव स्वीकृतिरस्ति । अत्रापि इतरप्रमाणानाम् अन्तर्भावः एषु प्रत्यक्षानुमानशब्दाख्येषु त्रिष्वेव प्रमाणेषु जायते ।
विपर्ययः –वस्तुनो विपरीतम् अथवा मिथ्याज्ञानं विपर्ययोऽस्ति विकल्पः –शब्दज्ञानेनोत्पन्नः किन्तु वस्तुशून्यो विकल्पः कथ्यते । यथा चैतन्यमेव पुरुषस्य स्वरुपमस्ति । निद्रा-वस्तुनोऽभावस्य ज्ञापयित्री वृत्तिः निद्रा इत्युच्यते । स्मृतिः-अनुभूतविषयाणां तस्मिन्नेव रुपे स्मरणं स्मृतिदिति कथ्यते । आसां वृत्तीनां विरोधादेव आत्मस्वरुपस्य दर्शनं भवति । अर्थात् सांसारिकदुःखानाम् आत्यन्तिकं निवृत्तिश्च जायते । आसां वृत्तीनां निरोधो अभ्यासेन वैराग्येण च भवति । वैराग्येण विवेकस्य उदयो भवति । अभ्यासेन च चित्तं सत्त्वे प्रतिष्ठति ।
चित्तवृत्तेर्निरोध एव समाधिरुच्यते । समाधिर्द्विधा वर्तते –सम्प्रज्ञातसमाधिः, असम्प्रज्ञात समाधिश्चेति । सम्प्रज्ञातसमाधिः –कस्मिंश्चिद् एकस्मिन् वस्तुनि चित्तस्य स्थैर्थं जाग्रतावस्था च इतरवृत्तीनां क्षये सति सम्प्रज्ञातः सबीजो वा समाधिर्भवति । अस्य समाधेश्चत्वारो भेदाः सन्ति –(१) वितर्कानुगतः (२) विचारानुगतः (३) आनन्दानुगतः (४) अस्मितानुगतश्च । एषु चित्तं स्थूलेभ्यः सूक्ष्मेषु आलम्बनेषु तिष्ठति ।
असम्प्रज्ञातसमाधिः –वृत्तीनां परमेण वैराग्येण निरोधे सति ज्ञातृ-ज्ञान-ज्ञेयानां भेदोपशमे सति चालम्बनस्य संस्कारमात्रे अवशिष्टे असम्प्रज्ञातः समाधिर्भवति । इयं निर्बीजसमाधिरपि उच्यते । अस्याम् अवस्थायां क्लेशाः नैव तिष्ठन्ति, न च कर्माशयाः । असम्प्रज्ञातसमाधेरपि भेदद्वयम् अस्ति-भवप्रत्ययः उपायप्रर्ययश्च । अविधावशात् निरोधस्माधिः ‘भवप्रत्यय’ नाम्ना विज्ञायते ।अतएव रक्त मांस मेद –अस्थि-मज्जा शुक्रादिषाट्कौषिकस्य शरीरस्य पतनोपरान्तम् इन्द्रियेषु अथवा भूतेषु लीनाः संस्कारमात्रेण सहिताश्च जीवा ‘विदेह’ संज्ञका भवन्ति । श्रद्धा –वीर्य- स्मृति – समाधि-प्रज्ञाभ्य उत्पन्नः उपायप्रत्ययः योगिभिः प्राप्यते । इयमेकान्तिकी दुःखनिवृत्तिर्नास्ति । अत्र अञिद्याया विनाशेन क्लेशा अपि विनश्यन्ति । अतः चित्तं ज्ञाने प्रतिष्ठते ।
चित्तस्य निरोधं प्रति गत्यवरोधकाः चित्तविक्षेपा भवन्ति । यथा-रोग, अकर्मण्यता, भ्रान्तिदर्शनम्, निरुद्धाप्राप्ति, समाधौ चेतसः अस्थैर्यम् इत्यादि । चित्तविक्षेपग्रस्ताः जनाः दुःखं दौर्मनस्यं कम्पनं श्वासप्रश्वासादि चानुभवन्ति । अतः एषामवरोधाय चित्तस्य तत्त्वे स्थापयितुं अभ्यास कार्यः । सर्वेषु प्राणिषु- मैत्रीभाव, करुणाभावश्च, पुण्यात्मनः प्रति प्रसन्नता, पापकारिणामुपेक्षा च करणीयाः ।
असमाहितचित्ता अपिजनाः तपः-स्वाध्याय ईश्वरप्रणिधानादिभिः योगे प्रवर्तन्ते। फलस्वरुपं समाधिभावस्य उदयः क्लेशानां विनाशश्च जायेते। क्लेशाः प्रायेण अविद्याया आच्छादिता भवन्ति । तद् मिथ्याज्ञानं भ्रान्तिरपि कथ्यते । क्लेशः पञ्चधा प्रतिपादितः –अविद्या, अस्मिता, रागः, द्वेषः, अभिवेशश्च । अनात्मपदार्थः आत्माऽस्तीति अविद्या वर्तते । द्रष्ट्रादृश्ययोरभिन्नताऽस्तीति अस्मिता वर्तते । सुखस्य उत्कटेच्छा रागो भवति । दुःखहेतुभ्यः ईर्ष्याभावो द्वेषः । मृत्योर्भयश्चाभिनिवेशो भवति ।
चित्तवृत्तीः स्थिरयितुं योगाभ्यास आवश्यको भवति । तत्कृते योगाङ्गानां अभ्यासो विधीयते । योगस्य अष्टौ अङ्गानि अभिमतानि-
1. यमः
2. नियमः
3. आसनम्
4. प्राणायामः
5. प्रत्याहारः
6. धारणा
7. ध्यानम्
8. समाधिः