For solution

41 views
Skip to first unread message

SwaminarayanSanskritVidyaPratishthanam

unread,
Sep 30, 2025, 12:43:17 AM (5 days ago) Sep 30
to bvpar...@googlegroups.com
नमस्ते विद्वासः ।
प्रश्नो मे वर्तते व्याकरणस्य । यः कोऽपि जानाति प्रत्युत्तरं देहि कृपया । अधोलिखिता रूपसिद्धिः समीचीना न वा? इति समाधेयम् ।

तेभ्यो दर्श्यम् - ‘ तेभ्यस् + दर्श्यम् ’ इति स्थिते “ झलां जशोऽन्ते ” इति सूत्रेण सकारस्य दकारे प्राप्ते, तं बाधित्वा “ ससजुषो रुः ” इति सूत्रेण सकारस्य रुकारे “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रुकारस्य यकारे प्राप्ते, तं प्रबाध्य “ हशि च ” इति सूत्रेण रुकारस्य  उत्वे “ आद्गुणः ” इति सूत्रेण गुणे प्राप्ते, तं संबाध्य “ प्रथमयोः पूर्वसवर्णः ” इति सूत्रेण पूर्वसवर्णदीर्घरूपैकादेशे प्राप्ते “ नादिचि ” इति सूत्रेण तन्निषेधे सति ‘ अपवादे निषिद्धे उत्सर्गस्य स्थितिः ’ इति न्यायात् “ आद्गुणः ” इति सूत्रेण गुणरूपैकादेशे कृते ‘ तेभ्यो दर्श्यम् ’ इति सिद्धम् ।

Ram Kanshi

unread,
Oct 1, 2025, 11:42:25 PM (3 days ago) Oct 1
to bvpar...@googlegroups.com
प्रथमदृष्टिपाते प्रथमयोः पूर्वसवर्णः नादिचीति सूत्रे सर्वथा अनावश्यके। एतदर्थं काशिकापि द्रष्टव्या। शेषस्य समीक्षां विधातुं यतिष्ये।

On Tue, 30 Sep 2025 at 10:13 AM, SwaminarayanSanskritVidyaPratishthanam <ssvp...@gmail.com> wrote:
नमस्ते विद्वासः ।
प्रश्नो मे वर्तते व्याकरणस्य । यः कोऽपि जानाति प्रत्युत्तरं देहि कृपया । अधोलिखिता रूपसिद्धिः समीचीना न वा? इति समाधेयम् ।in

तेभ्यो दर्श्यम् - ‘ तेभ्यस् + दर्श्यम् ’ इति स्थिते “ झलां जशोऽन्ते ” इति सूत्रेण सकारस्य दकारे प्राप्ते, तं बाधित्वा “ ससजुषो रुः ” इति सूत्रेण सकारस्य रुकारे “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रुकारस्य kयकारे प्राप्ते, तं प्रबाध्य “ हशि च ” इति सूत्रेण रुकारस्य  उत्वे “ आद्गुणः ” इति सूत्रेण गुणे प्राप्ते, तं संबाध्य “ प्रथमयोः पूर्वसवर्णः ” इति सूत्रेण पूर्वसवर्णदीर्घरूपैकादेशे प्राप्ते “ नादिचि ” इति सूत्रेण तन्निषेधे सति ‘ अपवादे निषिद्धे उत्सर्गस्य स्थितिः ’ इति न्यायात् “ आद्गुणः ” इति सूत्रेण गुणरूपैकादेशे कृते ‘ तेभ्यो दर्श्यम् ’ इति सिद्धम् ।

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CANrD85L-PLh8-0O6DWt16%2BgYK8jaKuo71S%3DvCC4J1VujbqiGKA%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages