Namaste everyone, a small group of us are gathering Sanskrit fiction for the purpose of learning Sanskrit.
We need to check the grammar of the content to ensure that it is correct according to the Paninian system.
Using artificial intelligence is not foolproof, for example, there are problems with स्थिताबभूव.
If the knowledgeable people in the group can spare a minute or two to read a page and correct the mistakes, that would be very helpful.
I will post page images in this thread along with the text.
Here's the first page, the image is attached.
---
"स्यात् कोऽपि पाखण्डी, ईदृशा बहवो धूर्ता द्रव्यमर्जयितुं साधु-
वेषं बिभ्रति लोकान् वञ्चयन्तो विहरन्ति चेतस्ततः !!"
'न हि, इदमेवैकं वैशिष्ट्यं तस्य पाखण्डितायां सन्देहं
जनयति स कुतोऽपि द्रव्यं न गृह्णाति किंबहुना द्रव्यं स्पृशत्यपि न सः,
केवलं भोज्यवस्तून्येव स गृह्णाति तान्यपि न सञ्चिनोति स्वोदरपूरणपर्या-
प्तानि संस्थाप्य ततोऽधिकानि भिक्षुकेभ्यो विभज्यार्पयति ।”
"किं तस्य वक्तव्यमस्ति, स आत्मनि कं वा विशेषगुणं ख्यापयति ?”
"कमपि न, स आत्मनः किमपि वैशिष्ट्यं न कथयति, तथाऽपि भवि-
ष्यद्वक्ता त्रिकालदर्शी सिद्धोऽस्ति, लोकानां मनोगतमशेषं बोद्धुं शक्नोति ।
असाध्या अपि रोगास्तस्य करस्पर्शादेव सद्यो नश्यन्ति । तेन यस्मै यद्वर-
दानं दीयते तदवश्यं पूर्णं भवति ।"
"तस्यैते विशेषगुणा सन्ति केनाऽपि परीक्षिताः ?"
“तैरसंख्यैः सज्जनैः, ये तं परिवार्य तिष्ठन्तः शतशः प्रश्नान् पृच्छन्ति,
विविधान् स्वमनोरथान् तस्य पुरः प्रकटयन्ति च ।”
'स च नाधिकं भाषते केनापि । न च लोकानां पुर आत्मानं सविशेषं
प्रदर्शयति । केनापि तस्य भक्तेन गङ्गाकूले तदर्थमेका कुटी निर्मापिता वर्तते,
तत्रैव स सन्ततं निवसति । केवलं प्रातरष्टमहोरात एकादशहोरापर्यन्तं
होरात्रयमेव स लोकेभ्यो दर्शनं ददाति । तावत्यवसर एव यः कोऽपि
यत्किमपि पृच्छति, तदुत्तरं तेन दीयते ।"
अपराह्नसमय आसीत्तदानीम्, अहं मम सुहृदो मेघश्यामस्य गोष्ठी-
गृहे विशाले वेत्रासने ऽर्द्धशयान आसम् ।
मम पार्श्ववर्ति उद्यानोपगं वातायनं विवृतद्वारमासीत् । जलधारासमु-
च्छ्वसितभूसुरभिपरिमलेन सह समागच्छन् सुरभिकुसुमामोदो बाढं मद-
यतिस्म मे मानसम् । गोष्ठीगृहे तदानीमावां द्वावेव स्थिताबभूव ।
मयोक्तम—"सखे ! मेघश्याम ! त्वं ऋजुरसि न जानासि वञ्चका-
---