नमो विद्वद्भ्यः
Vidvan Venkat Veeraraghavan ----
You are mixing कल्प with आयुर्वेद , this is good --
सुश्रुतः ---
एकं शास्त्रमधीयानः न विद्यात् शास्त्रनिश्चयम् ।
तस्मात् बहुश्रुतः शास्त्रं विजानीयात् चिकित्सकः॥
( विद्यात् - विद ज्ञाने , विधिलिङ् ; शास्त्रनिश्चयम् शास्त्रार्थनिश्चयम् ; चिकित्सकः इति उपलक्षणम् पण्डितादीनाम्)
भर्तृहरिः ---
प्रज्ञा विवेकं लभते भिन्नैरागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ॥
ज्योक्च सूर्यं दृशे ( सम्प्रति सूर्यं पश्यामि) -- is the मन्त्र in माध्याह्निकसन्ध्यावन्दनम् , that states one should look at the (midday Sun) .
Gazing (looking continuously ) at the Sun at any given point of time is totally prohibited in धर्मशास्त्र , मीमांसा and आयुर्वेद ।
Even body exposure to sunlight for long is not good .
Even for clothes shade is better - they get damaged if dried in sunlight -- वस्त्राणाम् आतपो ज्वरः \
नेक्षेतोद्यन्तमादित्यम् (मनु.) - is discussed in शाबरभ्ष्यम् (पू मी) under the concept of महावाक्य ।
बालार्को प्रेतधूमश्च वृद्धा स्त्री पल्वलोदकम् ।
रात्रौ दध्यन्नभुक्तिश्च आयुःक्षीणं दिने दिने ॥
बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।
न छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेत् नखान् ॥ मनु 4-69
वृद्धार्को होमधूमश्च बाला स्त्री निर्मलोदकम् ।
रात्रौ क्षीरान्नभुक्तिश्च आयुर्वृद्धिर्दिने दिने ॥
सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत् ।
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥
अदितेः अपत्यं पुमान् आदित्यः - ’ तस्यापत्यम् ’ ,’ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ’ पा ।
But
आरोग्यं भास्करादिच्छेत् धनमिच्छेत् हुताशनात् ।
ज्ञानं महेश्वरादिच्छेत् मोक्षमिच्छेत् जनार्दनात् ॥
धन्यो’स्मि