पूर्वमीमांसा ----
विश्वजिन्न्यायः --
In एकाहकाण्ड there is a मन्त्र -- विश्वजिता यजेत (one should perform the sacrifice with विश्वजित्) ।
But no फलम् is mentioned for विश्वजिद्याग । After a lengthy discussion it is decided that स्वर्ग is the फलम् of विश्वजिद्याग ।
The combination of fifth , sixth and seventh अधिकरणs of third पाद of fourth अध्याय are called विश्वजिन्न्याय --\
पञ्चमषष्ठसप्तमाधिकरणानि समष्ट्या ’ विश्वजिन्न्याय ’ इति नाम्ना प्रसिद्धानि -- मीमांसानुक्रमणिका of मण्डनमिश्र (P 177) । (समष्टि is the correct word - समिष्टि is an अपशब्द) ।
पूर्वपक्षः -- फलस्याश्रुतत्वात् नास्ति विश्वजिति फलम्।
सू (4-3-5-10) -- चोदनायां फलाश्रुतेः कर्ममात्रं प्रतीयेत न हि अशब्दं प्रतीयते । 12 - वाक्यार्थश्च गुणार्थवत् ।
’तेन अश्रुतफलानामपि अध्याहृतफलत्वान्वयात् ।
सर्वेषां कर्मणामत्र फलवत्त्वमवस्थितम् ॥ --- शास्त्रदीपिका - पार्थसारथिमिश्रः
(विश्वजिदादीनां सफलत्वाधिकरणम् -- here विश्वजिदादीनाम् - आदि refers to पिण्डपितृयज्ञ etc .(मयूखमालिकाव्याख्या of सोमानन्द on शास्त्रदीपिका ) ।
सिद्धान्तः --
सू (4-3-7-15) -- सः स्वर्गः स्यात् सर्वान् प्रति अविशिष्टत्वात् (विश्वजिदादीनां स्वर्गफलताधिकरणम्) ।
एकं यत् किञ्चिदथवा नियतं न नियामकम् ।
तस्मादाद्यः सर्वपुंसाम् इष्टत्वात् स्वर्ग एव तत् ॥ जैमिनीयन्यायमालाविस्तरः of माधवाचार्य
तदुच्यते -- स्वर्गो’नतिशयप्रीतिरूपः दुःखविवर्जितः । भूयांसो’भिलषन्त्येनम् अल्पे त्वल्पसुखं नराः ॥ सति संभवे शास्त्रस्यभूयोविषयत्वं न्याय्यम् अविशेषप्रवृत्तस्य
अतिसंकोचपरिहारात् । स्वर्गश्च दुःखासंयुक्तनिरतिशयसुखात्मकः सर्वेषाम् अभिमतः । पश्वादिसुखं तु दुःखानुषक्तं अल्पं च केचिदेव प्रार्थयन्ते । -- शास्त्रदीपिका।
So it is recommended that students should study at least ten commentaries on each issue in each शास्त्रम् ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741Skype Id: Subrahmanyam Korada