Thanks for the source of the division from वाल्मीकिरामायण which goes against the order mentioned in the first post. So far it shows some riddle and not any order of the queens. We can guess it as seniority and enter into counting the order of the queens.
Anyhow here is the relevant text in Devanagari the relevant portion is underlined.
सो ऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ।। 1.16.26 ।।
कौसल्यायै नरपतिः पायसार्द्धं ददौ तदा ।
अर्द्धादर्द्धं ददौ चापि सुमित्रायै नराधिपः ।
कैकेय्यै चावशिष्टार्द्धं ददौ पुत्रार्थकारणात् ।। 1.16.27 ।।
प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम् ।
अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ।। 1.16.28 ।।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ।। 1.16.29 ।।
And Bhushana by Govindaraja particularly mentions Kaikeyi as the third queen:
अथ राज्ञः पत्नीभ्यो विभज्य पायसप्रदानमाह त्रिभिः- कौसल्याया इत्यादि । पायसस्यार्द्धं पायसार्द्धम् । अर्द्धशब्दो ऽत्र समांशवचनः । "अर्द्धं समें ऽशके" इत्यमरः । ददौ ज्येष्ठपत्नीत्वादिति भावः । अर्द्धात् पृथक्कृत्य अर्द्धं सुमित्रायै द्वितीयमहिष्ऺयै ददौ, चतुर्थांशमित्यर्थः । अवशिष्टस्य पायसस्यार्द्धमवशिष्टार्द्धम्, अष्टमांशमित्यर्थः । कैकेय्यै तृतीयमहिष्यै ददौ । पुत्रार्थकारणात् पुत्ररूपप्रयोजननिमित्तात् । इदं त्रिष्वपि दानेष्वन्वेति ।। 1.16.27 ।।
I have underlined the relevant portion in the commentary.
Here is a reflection on the order and division based on अनुचिन्त्य
अनुचिन्त्येति । "कैकेय्यपेक्षया ज्येष्ठत्वं कौसल्यापेक्षया कनिष्ठत्वं च सुमित्राया विचार्य पादोनांशार्धदानम् । तस्यै कनिष्ठत्वाच्च कैकेय्यै अष्टमांशदानम् । वल्लभायां सम्भोगकर्मणि पक्षपातः, न धर्म्य(र्म?)विभागकर्मणि । एवं च भरतशत्रुघ्नौ पादस्यार्धमर्धम्" इत्याहुः । अपरे तु "रामभरतौ प्रत्येकं त्र्यंशौ । लक्ष्मणशत्रुघ्नौ चाष्टमांशौ । तथाहि- कौसल्यायै दत्तार्धस्यार्धादर्धं चतुर्थांशरूपं सुमित्रायै दत्तवान् । कौसल्यया दापितवानित्यर्थः । एवं कैकेय्यै कौसल्यादत्तार्धावशिष्टमर्धं ददौ । ततः कौसल्यादत्तावशिष्टस्य कैकेय्यै दत्तस्य यदर्धं तदर्धं विचार्य पुनरपि सुमित्रायै ददौ । तया दापयामासेत्यर्थः । अत्रार्धपदावृत्तिर्बोध्या । तदुक्तं कालिदासेन- "स तेजो वैष्णवं पत्न्योर्विभेजे चरुसञ्ज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ।। अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः सम्भावितां ताभ्यां सुमित्रामैच्छदीश्वरः ।। ते बहुज्ञस्य चित्तज्ञे पत्न्यौ प्रत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे । सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि ।।" इति। अर्धार्धभागाभ्यामित्यस्य स्वस्वलब्धांशसम्बन्ध्यर्धार्धभागाभ्यामित्यर्थः। पृथगिति। विभज्येति शेषः। कतकस्याप्येवं रीतिरेव संमता" इत्याहुः। क्वचित्तु- "इत्युक्त्वा प्रददौ तस्यै हविषोऽर्धं नराधिपः। स्वयमेव समं कृत्वा भागं भगवतां वरः ।।
अर्धादर्धं ददौ चापि कैकेय्यै स नराधिपः । चतुर्भागं द्विधा कृत्वा सुमित्रायै ददौ तदा ।।" इति दृश्यमानः पाठः। स त्वसाम्प्रदायिक एव तत्तद्दत्तभागजन्यस्य तत्तत्पुत्रैकवाक्यतौचित्येन। अपरे तु "व्याख्यैवात्र ज्यायसी। पाठान्तरे व्याख्यान्तरे च लक्ष्मणरामयोरेव भरतशत्रुघ्नयोरेवैकवाक्यतायां बीजालाभः। उक्तं च पाद्मे- "युगां बभूवतुस्तत्र सुस्निग्धौ रामलक्ष्मणौ। तथा भरतशत्रुघ्नौ पायसांशवशात्स्वतः" इति" इति दिक् ।।
1.16.29 ।।
Please go through the above also before drawing any conclusion arrived at. The underlined portion shows Kaikeyi is the youngest one.
तत्त्वदीप of महेश्वरतीर्थ also confirms it:
अवशिष्टार्द्धम् अवशिष्टमष्टमांशं सुमित्रायै पुनर्ददाविति सम्बन्धः । अर्धशब्दो ऽत्र समप्रविभागपरः । अनुचिन्त्य कैकेय्या अपि सुमित्राया अधिकांशभाक्त्वं विचार्य, अत्र कौसल्यायाः सुमित्राकैकेयीभ्याम् अधिकांशादाने ज्येष्ठात्वम्, सुमित्रायाः पादोनार्धांशदाने मध्यमात्वम्, कैकेय्याः प्रेमास्पदत्वे ऽपि कनिष्ठात्वमष्टमांशदाने कारणम् । वल्लभायां सम्भोगकर्मणि हि पक्षपातः, न धर्मविभागकर्मणि, अतो ऽनेन भरतशत्रुघ्नौ पादस्यार्धम् ।। 1.16.28-31।।
Here is another analysis of the verses by शिरोमणि ---
कौसल्यायै इति । तदा- पायसप्राप्तिकाले नरपति: अमृतोपमं पायसार्धं- पायासस्यार्धमंशं महाभागमिति वक्ष्यमाणरामविशेषणात् ज्येष्ठपत्नीत्वाच्च कञ्चिदधिकमंशं पुत्रार्थकारणात् कौसल्यायै ददौ । ततो ऽनुचिन्त्य- अप्रकटितसाकेते एक: सुमित्रापुत्र: कौसल्यापुत्रानुयायी, द्वितीय: सुमित्रापुत्र: केकयीपुत्रानुयायीति विचार्यैव अर्थात्- कौसल्याभागतो ऽर्धं कञ्चिन्न्यूनमंशं नराधिप: सुमित्रायै ददौ ।
कौसल्यया दापयामासेत्यर्थ: । अन्तर्भावितणिजर्थ: । कौसल्याभागादवशिष्टभागं अर्धं कृत्वा सुमित्रायै ददावित्यर्थस्तु न युक्त:, अत्रावशिष्टपदाभावात् उत्तरत्रावशिष्टपदस्य विद्यमानत्वाच्च युक्तितो रामानुयायित्वानुपपत्तेश्च । ततोवशिष्टार्धम्- अवशिष्टमर्धं कौसल्याभागत: कञ्चिन्न्यूनांशं कैकेय्यै महीपति: ददौ । दापयामासेत्यर्थ: । पुनरेव- पुनरपि एवो ऽप्यर्थे । अवशिष्टार्धम्- अवशिष्टस्य- दत्तकैकयीभागस्यार्धमंशं सुमित्रायै प्रददौ । कैकेय्या प्रदापयामासेत्यर्थ: । अयं भाव:- पायसे ऽष्टौ अंशा: कृता: । तत्र पञ्चांशान् कौसल्यायै दत्तवान् । कौसल्याभागत: सार्द्धमेकमंशं सुमित्रायै दापयामास । कौसल्याभागत उर्वरितत्रीनंशान् कैकेय्यै दापयामास । कैकेयीभागात् सार्धमेकमंशं सुमित्रायै दापयामासेति सार्धत्रीन्स्वांशानेकीकृत्य कौसल्या बुभुजे । तदेव रामप्रादुर्भावे निमित्तीभूतम् । सार्धमेकं स्वांशमेकीकृत्य कैकयी बुभुजे । तदेव भरतप्रादुर्भावे निमित्तीभूतम् । कौसल्यादत्तं सार्धमंशमेकीकृत्य सुमित्रा पूर्वं बुभुजे । तदेव लक्ष्मणप्रादुर्भावे निमित्तीभूतम् । तत: कैकेयीदत्तं सार्धमंशं बुभुजे । तदेव शत्रुघ्नप्रादुर्भावे निमित्तीभूतम् । भरतलक्ष्मणप्रादुर्भावनिमित्तीभूतपायसयो: समत्वे ऽपि रामोद्देश्यकभागांशप्रभावाल्लक्ष्मणे ऽधिकप्रभावप्रतीति: । अनुचिन्त्येत्युक्तेर्महाराजाधिराजदशरथस्य सर्वज्ञत्वं सूचितम् । तदेव उपसंहरन्नाह- एवमनेन प्रकारेण भार्याणां पायसं पृथक्पृथक् विभज्य राजा ददौ । कौसल्यायै इत्यारभ्य श्लोकत्रयमेकान्वयि । अपिशब्द: एवार्थे । चशब्दौ अनन्तरार्थकौ ।। 1.16.27-29 ।।
अमृतानन्दयोगिन् is also dwelling on these points:
कौसल्याया इत्यादि । अत्रेदं ब्रह्मविद्भिर्मामकैरनुसन्धेयम् :--
'पुष्पवद्धिरण्यरजश्शचीन्द्रौ धीस्वयम्भुवो' इत्युपदिष्टाश्वमेधमहायागविकारश्रीमद्ब्रह्मयोगराजब्रह्मवद्याविलासप्रकृतिभूताष्टब्रह्मविद्यातदर्थ-पुण्यकर्मपरमकाष्ठाश्वमेधप्राप्यफलश्रीहिरण्यगर्भतेजोमयमूलविद्यायाः प्राजापत्यपादे ऋश्यशृङ्गबीजान्वयात् श्रीहिरण्यगर्भपादे च गर्भबीजान्वयात् विहितगर्भशक्तिमत्पायसं अष्टब्रह्मविद्यात्मत्वात् अष्टांशं भवति । तस्यास्य पुष्पवतोः भास्करसौरसरस्वतीस्वयम्भुमयांशचतुष्टयमेकमर्धं भवति । चन्द्रपरोरजश्शचीन्द्रमयांशचतुष्टयमपरमर्धं भवति । एवं प्रथमतो द्विधाकृतस्य पायसस्यार्दं स्वायम्भुवान्नापरीतं प्रधानमहिष्यै कौसल्यायै प्रथमं ददौ । अनन्तरमस्यै दत्तमर्धं च द्विधाकृत्य तु तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं योगप्रधानां कौसल्यामनुव्रतायै सुमित्रायै ददौ । अयमेव भागो भास्करात्मा लक्ष्मणः । ततश्च कौसल्यायां धीस्वयम्भूसौरभागास्त्रयः स्थिताः । अन्तःपूर्णशक्तिर्भगवान् हिरण्यगर्भो रामः । अथैन्द्रमर्धं कैकेय्यै ददौ । तदपि द्विधा कृत्वा अथ तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं च भोगपत्नीं कैकेयीमप्यनुव्रतायै सुमित्रायै ददौ । अयमेव भागश्चन्द्रश्शत्रुघ्नः । अहो भरतश्च पूर्णशक्तिर्विराङ्प्रधानः । लक्ष्मणशत्रुघ्नौ मध्यस्थसम्राङ्प्रधानौ । भगवान् रामः स्वराट् हिरण्यगर्भ इति । शब्दतो योजयामः । तदा नरपतिः कौसल्यायै समग्रपायसस्यार्धं ददौ । अपि च नराधिपस्सुमित्रायै अर्धादर्धं ददौ । अत्र आवृत्तो ऽर्धशब्दो द्रष्टव्यः । तथा ऽग्रेपि । तथाचार्धार्धादर्धं ददौ । अथ कैकेय्यै च पुत्रकारणादवशिष्टार्धं-कौसल्यायै दत्तादवशिष्टार्धं ददौ । पुनरेव च नराधिपो ऽनुचिन्त्य अमृतोपमं पायसस्यावशिष्टार्धं च सुमित्रायै प्रददौ । अविष्टस्य-कौसल्यादत्तावशिष्टस्य कैकेयीपायसस्यार्धादर्धं ददावित्यर्थः
धर्माकूत is not available for checking online. Hence I am attaching a file from the Edition with Govindarajiya with Extract from other commentaries relevant to the verses in question. Now all the available sources for the verses are before the scholars for perusal.
I just remembered in younger days in stories कैकेयी was the youngest queen. But had no access to Valmiki Ramayana. Now it is before you also. The version of the division in the first message is clearly based on the verse from चम्पूरामायण ---

which followed the version of नरसिंहपुराण and Kalidasa according to the commentator:
who again used the word
मध्यमाम्बा for कैकेयी in अयोध्याकाण्ड as I have already suggested in my earlier post. We will have to look into some older Purana-s where the marriage of Dasaratha is mentioned in order. This order of division in Valmiki Ramayana is not conclusive as itself is not clear of suggesting any order.