शैले शैले न माणिक्यं चन्दनं न वने वने ।
गणेशगुरवोऽप्येवं न भवन्ति युगे युगे ॥ १
अथवा लोकबोधाय यथाह भगवान् स्वयम् ।
गणेशगुरवोऽप्येवं संभवन्ति युगे युगे ॥ २
अवधानकला भव्या मोदबोधप्रदायिनी ।
चक्रे शश्वद्यशा यैस्तैर्गणेशगुरुभिर्जितम् ॥ ३
स्रष्टारं पद्यकाव्यस्य प्राचेतसमुनिं भजे ।
स्रष्टृन् भाषणकाव्यस्य श्रीगणेशगुरून् भजे ॥ ४
श्रीगणेशगुरूणां या प्रतिभा मानुषीतरा ।
आनतिं विस्मयं भक्तिं संभावयति सा मयि ॥ ५
श्रीगणेशगुरुभ्यो ये शिक्ष्यन्त अर्जुनादयः ।
साक्षात्तेषां हि धन्यत्वं दुर्भगा मद्विधा जनाः ॥ ६
गणेशगुरुषूत्कृष्टः स्वर्णकारो हि दृश्यते ।
खात्वा ज्ञानखनीर्ध्मात्वा वाङ्मणीन् संप्रभाषते ॥
रत्नाकराय दत्तेव तीरस्था भग्नशुक्तिका ।
Typo correction:
स्रष्टारं पद्यकाव्यस्य प्राचेतसमुनिं भजे ।
स्रष्टॄन् भाषणकाव्यस्य श्रीगणेशगुरून् भजे ॥ ४