विदुषः प्रणम्य, जिज्ञास्यते यत् -
ज्यौतिषे ग्रहाणां द्वारा समाजवर्गाणां सामाजिकानां परिवारजनानां च
शुभाशुभफलविचारः क्रियत एव। तद्यथा -
जातकपारिजाते - (2.2) दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ। कुमारो वित्
कुजो नेता प्रेष्यस्तपननन्दनः ।।
तत्रैव- (2.14) बालो धराजः शशिजः कुमारस्त्रिंशद्गुरुः षोडशवत्सरः सितः।
पञ्चाशदर्को विधुरब्दसप्ततिः शताब्दसङ्ख्या शनिराहुकेतवः।।
तत्रैव- (2.26) विप्रौ जीवसितौ दिनेशरुधिरौ भूपालकौ वैश्यराड्, इन्दुः
शूद्रकुलाधिपः शशिसुतो मन्दः अवराणां पतिः।।
फलदीपिकायम् - (2.1-7)
पितृशुभफलम् अर्कात्, मातुः स्वस्तिः चन्द्रतः, सहोदरगुणं महीजात्,
मातुलं बान्धवं सुहृदः भागिनेयं बुधात्, आत्मजम् आचार्यकं बृहस्पतितः,
भार्या भृगुजात्, नीचजनं दासं रविसुतात्... इति।
जैमिनिसूत्रे (1.1.20 - 23) -
भगिन्यारतः श्यालः कनीयान् जननी चेति । मातुलादयो बान्धवो मातृसजातीया
इत्युत्तरतः। पितामहः पतिपुत्राविति गुरुमुखादेव जानीयात्। पत्नी पितरौ
श्वसुरौ मातामहा इत्यन्तेवासिनः।।
एवमपि बहुत्र ज्योतिर्ग्रन्थेषु तेषां विषये सुन्दरः विचारः कृतः ।
मदीयेयं जिज्ञासास्ति यत्-
यद्यपि ग्रहाणां द्वारा राजादीनां समाजवर्गाणां परिवारजनानां विषये च
शुभाशुभफलानां विचारः कृतः । किन्तु ध्यानेन विचारयामश्चेत् किं -
1. यदि स्वजन्मकुण्डल्यां सूर्यादिग्रहाणां निर्बलत्वं भवेत् तदा किं
क्रमशः पितुः, मातुः,सहोदराणां, शिशूनां, आचार्याणां, स्त्रीणां
भार्यायाः वा, वृद्धजनानां वा सेवया आज्ञापालनेन शुभाशिषा वा तस्य
ग्रहस्य बलस्य वृद्धिं कारयितुं शक्यते.
2. किं वा एतेषां शुभफलप्राप्तये उपर्युक्तानां विविधायुषां जनानां सेवा
तेषामाज्ञापालनं शुभाशीर्वादप्राप्तिश्च शुभाय भवेत्।
3. किं वा मङ्गलाय भगिनी-श्यालक-कनीयान्-जननीनां, बुधाय
मातुल-मातुलसजातीयानां, गुरवे पितामहस्य गुरोः च, शुक्राय
पति-पत्नी-मातापिताश्वस्रुश्वसुरमातामहानां, शनैश्चराय पुत्रान्त्यजानां
च परितोषः महल्लाभकरः भवति.
4. किं वा एतेषां कृपाफलं तत् तत् ग्रहधातुरत्नादिधारणादपि अत्यधिकं
शुभफलं प्रददाति.
5. किं पूर्वं या कुटुम्बव्यवस्था प्रचलिता आसीत् सा अत्यन्तं समीचीना आसीत्.
6. यथा सौरपरिवारे सर्वे सदस्याः परस्परं मित्राणि शत्रूणि च भवन्ति
तथापि परिवारसदस्याः एवं भवन्ति। सूर्येण सह मिलित्वा स्वाभिमतं पृथक्
रूपेण न स्थापयन्ति अपितु स्वात्ममतं तत्र संस्थाप्य अस्तरूपाणि भवन्ति,
यथा कुटुम्बे भवत्येव।
7. किं सौरपरिवारसममेव अस्माकं कुटुम्बव्यवस्था भवति।
8. किं यथा सौरपरिवारः अस्माकं ब्रह्माण्डे अपि भवति पिण्डे चापि भवति,
तथैव कुटुम्बजनाः अपि अस्माकं ब्रह्माण्डे अपि भवन्ति पिण्डे चापि
भवन्ति.
9. किं पिण्ड-ब्रह्माण्डयोर्मध्ये सौरपरिवारवत् कुटुम्बव्यवस्था अपि
अन्तर्हिता वर्तते.
मान्याः, कृपापूर्वकं जिज्ञासानां समाधानं विधाय मामुपकुर्वन्तु इति
सादरं प्रार्थये -
भावत्कः - डॉ. विनोदः
--
डॉ. विनोदकुमारशर्मा
विभागाध्यक्षः, ज्योतिष-विभागः
जगद्गुरु-रामानन्दाचार्य-राजस्थान-संसकृत-विश्वविद्यालयः,
मदाऊ, पोस्ट-भांकरोटा, जयपुरम् (राजस्थानम्)-३०२०२६
०१४१-२७९२२९७, ०१४१-५१३२०२७, ०९४१४३५०७११