विद्वद्भ्यो नमः।
बहुव्रीहिसमासस्य तद्गुणसंविज्ञानः, अतद्गुणसंविज्ञानः इति भेदद्वयम्। सर्वादीनि सर्वनामानि (पा.सू.-१.१.२७) इत्यत्र बालमनोरमायाम्-
सर्वादीनीति तद्गुणसंविज्ञानो बहुव्रीहिः। तस्य=अन्यपदार्थस्य, गुणः=विशेषणानि वर्तिपदार्थरूपाणि, तेषां संविज्ञानं=क्रियान्वयितया विज्ञानं
यत्र स तद्गुणसंविज्ञान इति व्युत्पत्तिः। यत्र संयोगसमवायान्यतरसंबन्धेनान्यपदार्थे वर्तिपदार्थान्वयस्तत्र प्रायेण तद्गुणसंविज्ञानो बहुव्रीहिः। यथा-`द्विवासा देवदत्तो भुङ्क्ते', `लम्बकर्णं भोजये'त्यादौ। तत्पर हि वाससोः कर्णयोश्च भुजिक्रियान्वयाऽभावेऽपि संनिहितत्वमात्रेण तद्गुणसंविज्ञानत्वम्। प्रकृते च समुदाये। अन्यपदार्थे
सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसंबन्धसत्त्वात् तद्गुणसंविज्ञानत्वम्। स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः। इत्युक्तम्।
उभयत्र भेदे सत्यपि समासान्तर्वर्तिपदार्थानां गौणत्वेनैव समाससिद्धिः। गुणसंविज्ञानादिविषये संयोगसमवायादिसम्बन्धः, स्वस्वामिभावादिसम्बन्धश्च कथं
भिद्यते? समासाङ्गार्थानां गौणत्वे सिद्धे किमिदं क्रियान्वयविज्ञानम्? वर्तिपदार्थानां भिन्नक्रियान्वयित्वाद् वा भिन्नकर्तृकत्वभ्रमाद् वा? प्रायेण इति च किम्?
नारायणः।