On 12/17/11, श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com> wrote:
> *तत्त्वबिन्दौ *तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
> "*तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि
> सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः , अर्थभेदनिरूपणस्य च
> ज्ञानभेदनिबन्धनत्वात् , ज्ञानभेदस्यार्थाभेदात्तदनभिधानेऽभिधानाभावात् ,
> अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः , तद्धेतुतया तु तत्कल्पने
> ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् , स्वाभाविकश्शब्दार्थयोस्सम्बन्ध -
> इति स्थितिः* ।"
> - इति ।
> तत्र *तत्त्वविभावना *टीका नोपलभ्यते ।
> *टिप्पण्यां *तु -
> "*वृद्धव्यवहारपरम्परारूपे शब्दार्थसम्बन्धज्ञानकारणे सति अनेन शब्देनायं
> बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात् , तत्तदर्थगतभेदप्रतिपादनस्य
> तत्तद्विषयकज्ञानाकारभेदप्रयुक्तत्वात् , ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन
> तत्तदर्थरूपतयाऽर्थाभेदात् , ज्ञानगतवैलक्षण्यस्य वस्तुतस्सत्त्वेऽपि तस्य
> बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया ,
> अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण
> शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया , अन्वयांशे
> पदवाच्यताभ्युपगमवैयर्थ्यात् , अर्थगतवैलक्षण्यबोधस्य
> त्वन्वयप्रयोज्यत्वमात्रेण
> स्वरूपतोऽर्थाभेदात्तद्वैलक्षण्यनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे
> भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि
> परम्परयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः ,
> शब्दार्थसम्बन्धस्स्वाभाविक एव - इति सिद्धान्त - इत्यर्थः ।*"
> - इत्युक्तम् ।
> शब्दार्थयोस्सम्बन्धस्य स्वाभाविकत्वे हेतूनामन्वयः कथम् । हेतुग्रन्थानां वा
> कथं परस्परमन्वयः । टिप्पणी वा कथमपरार्द्धे मूलानुगा ।
>
> *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com/>
> lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*
>
> --
> अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
>
तत्त्वबिन्दौ तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
"तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः
, अर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वात् ,
ज्ञानभेदस्यार्थाभेदात्
तदनभिधानेऽभिधानाभावात् ,
अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः ,
तद्धेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् ,
स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"
2011/12/17 श्रीमल्ललितालालितः <lalitaalaalitah@lalitaalaalitah.com>
स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः
शबरस्वामी तावत् सूत्रमिदं व्याख्याय ’वृत्तिकारस्तु अन्यथेमं ग्रन्थं ( त्रिसूत्रीम्) वर्णयांचकार’ इति वदन् उपवर्षाचार्यमतेन बौद्धमतखण्डनपूर्वकं(स्फोटाद्यपि) वेदस्य (शब्दस्य)अपौरुषेयतां प्रत्यक्षादिप्रमणानपेक्षां च प्रतिपादयामास (तस्य निमित्तपरीष्टिः - इति सूत्रे नञ् अध्याहृतः वृत्तिकारेण - यथा माध्वैः अतत्त्वमसि इत्युच्यते) ।
यदि शब्दार्थयोः सम्बन्धारम् अङ्गीकुर्युः मीमांसकाःतर्हि वेदानां पौरुषेयत्वमापद्येत , ततश्च भर्तृमित्रादीनांमतस्य लोकायतस्य प्राबल्यं भवेत् ( प्रायेणैव हि मीमांसा लोके लोकायती कृता - श्लोकवार्तिकारम्भे कुमारिलः)।
तस्मात् शब्दार्थयोः सम्बन्धस्य अनादित्वं साध्यते --अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति । कथं पुनरिदमवग्म्यते - अपौरुषेय एष सम्बन्ध इति ? पुरुषस्य सम्बन्धुरभावात् । कथं सम्बन्धा नास्ति ? प्रत्यक्षस्य प्रमाणस्य अभावात् , तत्पूर्वकत्वाच्चेतरेषाम्(शाबरभाष्यम् 1-1-5)बृहती (प्रभाकरस्य) - वृद्धव्यवहारस्य अनादिताभिधानोपन्यासो’यम् ।... अनादिनापि वृद्धव्यवहारेण शब्दादर्थावगमसिद्धौ यत्र कर्ता उपलभ्यते , तत्रादिमत्तैव उपलब्धिबलात् प्राप्नोति ’वृद्धिरादैच्’ इतिवत् । तस्मात् कर्तुः उपलम्भो निराकरणीयः ।पञ्चिका (शालिकनाथः) - यदि हि सम्बन्धः कृतकः तदा सम्बन्धोत्तरकालभाविनो वेदा अपि कृतका एव ..।
श्लोकवार्तिकम् - शब्दनित्यताधिकरणम्(1,5) - न्यायरत्नकरव्याख्या पार्थसारथिमिश्रस्य) --यद्यनित्यत्वपक्षे’पि शब्दादर्थो’वगम्यते ।अनादिर्व्यवहारश्च नित्यत्वं किं नु साध्यते ॥व्यवहारानदित्वम् असति शब्दनित्यत्वे अनुपपन्नम् इत्याह ख्येयमन्तेन --अनादिव्यवहारत्वम् आदिमद् वस्तुसंश्रयम् ।प्रत्याख्येयम् .....॥
नूतनसंज्ञानां विषये (संगणक इत्यादि) --मञ्जूषा --देशभाषानुसारेण कृतनां कूची मञ्ची आप्यकोण्डेत्यादिनाम्नामसाधुत्वमेव ।
टिघुभादिसंज्ञानां तु शिष्टप्रयुक्तत्वात् साधुत्वमेव । .. पाणिन्युपदेशादिरूपसङ्केतग्राह्यत्वात् तत्संज्ञात्वस्य संज्ञानामनित्यत्वव्यवहारो’पि ।
वाचकताबोधकत्वे’पि तदनुत्पादकत्वात् न शब्दार्थसंबन्धनित्यताहानिः।
...वेदमात्रप्रसिद्धस्द्शब्दभिन्नत्वरूपलौकिकत्वात् साधुत्वाच्च तेषां शास्त्रविषयता ।
अयमत्र सिद्धान्तः - गणकादिशब्दानाम् व्याकरणविषयत्वं वर्तते , अर्थस्तु अस्माभिः निर्णीयते इति न काचन अनुपपत्तिः । अत्र स्वाभाविकत्वं नास्ति , नेष्यते च ।
ऋष्यार्यम्लेच्छानाम् शब्दानाम् अर्थबोधकत्वम् अक्षतमेव । व्याकरणविषयत्वम् अस्ति वा नास्ति वा इत्येव विशेषः ।
वाचकत्वं हि शब्दविशेषस्य नियत आत्मा।
सङ्केतव्युत्पत्तिकालादारभ्य वाचकत्वाविनाभावेन शब्दविशेषस्य प्रसिद्धत्वात्।
स्वाभिप्रायगमकचेष्टाविशेषः सङ्केतः प्रज्ञप्तिर्वा। असङ्केतितं न किमपि पदमर्थस्य वाचकम्। उपपत्तिस्तु स्वाभिप्रायगमकचेष्टाविशेषत्वबलेन पदानां वाचकत्वकल्पनया।
नूतनवस्तूनामपि सामग्रीवैचित्र्यादर्थान्तरावगतिः, स्वाभाविकत्वेऽपि न काचिदयुक्तिः, वाच्यस्य वाऽर्थान्तरस्य वा विवक्षया तत्तदर्थावबोधः।
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)