प्रहेलिकानीवी
पैसा हि मुद्रा नवभारतेऽस्मिन् तासां शतं रूप्यकनाम धत्ते ।
भारस्य मानं खलु सर्वकारेणाङ्गीकृतं ग्राम्म इति प्रसिद्धम् ।
ग्राम्माभिधानां यदि चेत् सहस्रं केजी किलोग्राम्म इति ब्रुवन्ति ।
तेषां शतं क्विंटलनाम धत्ते तेषां दशाप्नोति हि टन्ननाम ॥
सेकण्ड एवेह हि कालमानं षष्टिस्तु तेषां मिनटाभिधः स्यात् ।
तेषां हि षष्टिः प्रथिता हि घण्टा ततः परं सर्वजनैः सुवेद्यम् ॥
दैर्घ्यस्य मानं खलु नाम मीटरो विभज्यते सः शतसेन्टिमीटरैः ।
जनः सहस्रं खलु मीटराणां ब्रूते किलोमीटरमत्र देशे ॥
तलस्य मानं खलु वर्गमीटरं वदन्ति तेषामयुतं हि कथ्यते ।
हेक्टेरनाम्ना बहुशो प्रयुज्यते क्षेत्रप्रदेशे तलमानकर्मणि ॥
आकारमानं घनसेन्टिमीटरः स सीसिनाम्ना क्वचन प्रयुज्यते ।
तेषां सहस्रं द्रवमानकर्मणि प्रयुज्यते लीटर इत्युदीर्यते ॥
----
सायं काचित्पतिगृहमगान्मेलितुं स्वप्रियेण।
प्रातो याताध्वनि हि विचरन्ती स्वगेहं निवृत्ता ।
तस्या वेगः प्रथमदिवसे षट्सहस्राणि मीटर्
घण्टायां चेत्तदितरदिने केवलं भोः तदर्धः
माध्यं वेगं वद यदि चतुरः द्राक् सुहृद्वारिजाक्ष्याः ॥ [माध्यवेगः=average speed]
प्रहेलिका २
सममिलन् पशुमृगापणे त्रयो रविबृहस्पतिमहेश्वराभिधाः।
रविरुवाच तुरगाय ते सखे मम गृहाण षडजान् महेश्वर ॥
पशुगणान्मम तदा भविष्यति द्विगुणितो तव गणः शुभं भवेत् ।
दयित देहि तुरगं महेश्वर प्रतिददामि शशकान् चतुर्दश ॥
त्रिगुणितस्तव गणश्च मामकाद्भवति हीत्यवदत्बृहस्पतिः ।
रविरुवाच विहसन्बृहस्पतिं नय ममाजचतुष्टयमञ्जसा ॥
यदि ददासि शशमत्र मामकात् तव गणो भवति पश्य षड्गुणम् ।
यदि भवान् गणितज्ञ बुध्यते कति भवन्ति पशवो गणत्रये ॥४ ॥
- - - -
दोषा यद्यत्र दृश्यन्ते कृपया च तितिक्षया ।On 29-Apr-2024, at 12:33, G S S Murthy <murt...@gmail.com> wrote:
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADi6ZRhc0snY-Z%3D5s7wf9E%3DUEbMF_uerAGMpy7uM34NgkMmQng%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/6DDB4213-191D-4E3A-8AF9-599A0AAAF2AF%40googlemail.com.
प्रहेलिका ३
“किं वर्षीयाम्ब?” ‘वत्से, कलयसि यदि मे ते वयः त्वत्पितुश्च
प्राप्नोष्यङ्कं सलीलं शृणु दशगुणितं सप्त” “हे ते वयः किम्?” ।
पुत्र्या पृष्टः पिताह स्मितवलितदृशा, “षड्गुणं तावकीनात्”
“किं मे भूयात् कदाचित् वद तव वयसस्त्वर्धभागं वयो मे?” ॥
“सत्यं भद्रे तदा स्यात् यदि कलयसि मे ते वयः त्वज्जनन्याः
चत्वारिंशत्समेतं शतमिति विदितं बुध्यसे किं वयो मे ।
किं ते मातुस्त्वदीयं वद यदि चतुरा ह्यङ्कशास्त्रे प्रवीणा”
पित्रा पृष्टेति कन्या वदति सुकरमित्युल्लसत्स्मेरनेत्रा ॥
----
प्रहेलिका ४
पान्थः कश्चित् परिणतदिने ग्रामिकावासमेत्य
ब्रूते भोस्ते विमलमनसा मङ्गलं व्याहरामि ।
प्राप्ता सन्ध्या खगरवरुचिरा रात्रिमेकामुषित्वा
गेहेऽस्मिन् श्वो दिनकरकिरणाक्रान्तमार्गेण यामि ॥१॥
पान्थं ब्रूते गृहजनसुखदः ग्रामिकस्तेऽस्तु भद्रं
गेहेऽस्मिन् भोः अवितततले बान्धवाः सन्ति भूरि ।
पुत्रौ पुत्र्यौ श्वशुरयुगलं सोदरश्च स्वसारौ
पौत्रः पौत्र्यौ जनकयुगलद्वन्द्वमाप्तार्यकौ च ॥२॥
पत्न्यौ भर्तुर्युगलमधुना सन्ति चत्वारि चैव
पुष्टापत्यान्यनुपमवदना या स्नुषा स्मेरपुष्पा ।
स्वापार्थं त्वं विकसितमुखः मार्गयान्यत्र बन्धो
ग्रामे सन्ति प्रथितधनिकाः धर्मशालाश्च काश्चित् ॥३॥
इत्थं पान्थे श्रयविरहिते कोपि धूर्तोब्रवीत्तम्
गेहेऽस्मिन् भोः मम सुविदितं बान्धवाः सप्त एव ।
प्राज्ञालोच्य प्रणिहितमनाः ब्रूहि किं सत्यवाक्यः
स ग्रामस्थः विवरणपटो कः समाधानमार्गः ॥४॥
मूर्तिः----
प्रहेलिका ५
जायापतीनां प्रजगाम पञ्चकः क्रीडाविलासाय महावनं प्रति ।
तत्रत्यनद्यास्तरणाय नाविकात् जग्राह नौकां सुदृढां मनोहराम् ॥
स नाविकस्तानवदच्च दम्पतीन् जनत्रयं मात्र मियं वहेत् खलु ।
पुमांस ऊचुः न हि खेदकारणं निषेध एषोपि न लङ्घ्यते खलु॥
नोपस्थिते भर्तरि नानुमन्यते ह्यन्येन पुम्सा सह वर्तनं स्त्रियाः ।
अमू पुरस्कृत्य विधी स पञ्चकः कथं नदीं तां विततार पण्डिते॥
प्रहेलिका-६
गृहस्थो भार्या चाप्रतिमसुखदं पुत्रयुगलं
तरण्या तेरुस्ते शुनकसहिताः स्वच्छसरितम् ।
किलोग्राम्मान् षष्टिं वहति हि नौका न तदधिकम्
अहो पत्न्याः पत्युः च स भवति भारो न सुकरः ॥
पितुर्भारस्यार्धः भवति यदि भारः लघुतनोः
सुतस्येकैकस्य प्रियशुनकभारस्त्वगणितः।
कथं सिन्धुं त्तेरुः कथय कति वारं तरति नौः
यदि त्वं संख्याने पटुरसि विदग्धः सहजधीः ॥
----
दोषा यद्यत्र दृश्यन्ते कृपया च तितिक्षया ।
तान् सूचयित्वा दोषज्ञा
उपकुर्वन्त्विमं जनम् ॥
भवदीयः
मूर्तिः----
On 14-May-2024, at 06:53, G S S Murthy <murt...@gmail.com> wrote:
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADi6ZRjqoCvVickUgu19V19Z2Cm217uCDF_1GyXvbhy%2BAUzP%2Bw%40mail.gmail.com.
धन्योऽस्मि मे सहृदयाः कृतार्थोऽस्मि महोदयाः।
भवद्भ्यो रोचते काव्यं यत्किञ्चित् रचितं मया ॥
सप्रश्रयम्
मूर्तिः
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/06687043-4D91-4DE5-8351-7283215635D0%40googlemail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADi6ZRhEJW_t5E%2BrZMpbAGiMa4wY%2B0TZ-N-aCb9U2h%3DZ396q9A%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAMVi6M-%3DSUEwgZ%2Bgn-o7t4fLFG7J3bBomm9ghM7QCg%2BBH1vQ2w%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADi6ZRj-N5GOfX9gd4wz%3DmfekrDgM%3Da%3DHc_vNh8CwvDL01H3Wg%40mail.gmail.com.
प्रहेलिका ७
कृषीवलः कश्चन तर्तुमैच्छन्नदीं तरण्या यवपूर्णकुम्भं
बिडालमेकं मृदुलं कपोतं सहात्मना नेतुमथ प्रयेते ॥
नौका क्षमासीत् कृषकेण सार्धं वस्त्वेकमेवोत्तरणे हि वोढुम् ।
कुत्रापि तिष्ठेन्न यवो बिडालो कपोतसङ्गे कृषकेऽनुपस्थिते
॥
कृशीवलः काङ्क्षति मार्गदर्शनं कथं तरेत् सः कति वारमापगाम् ।
विवेकमाधृत्य वदाञ्जसा प्रिये दक्षा त्वमस्मद्गृहनौनियन्त्रणे ॥
----
प्रहेलिका ८
कस्यचित् दुग्धविक्रेतुरासन् वै ग्राहकास्त्रयः ।
एकैकस्मै प्रदातव्याः चत्वारो लीटराः प्रगे ॥१॥
आस्तां तस्य सकाशे द्वे भिन्ने मापनभाजने ।
माति त्रीन् लीटरानेकमन्यं लीटरपञ्चकम् ॥२॥
नोपयुज्यान्यपात्राणि कथं वितरणं भवेत् ।
दुग्धवत्स्निग्धहृदये विचिन्त्य वद मत्प्रिये ॥३॥
दोषा यद्यत्र दृश्यन्ते कृपया च तितिक्षया ।
तान् सूचयित्वा दोषज्ञा उपकुर्वन्त्विमं जनम् ॥
भवदीयः
मूर्तिः-प्रहेलिका ९
तैलं क्रेतुं विपणिमगमत् कश्चिदन्येन सार्धं । १
विक्रेतारं “ तव कति सखे लीटराः सन्ति भाण्डे?”।२
पप्रच्छेत्थं स सपदि “चतुर्विंशतिः केवलं भोः।३
कापेक्षा ते कति तव सुहृदः ब्रूहि मामि"त्यवादीत् ॥४
“वाञ्छाष्टावेव मम सुहृदः मामकेच्छा समाना”।५
इत्युक्तः सः विकसितमुखः,”तर्हि शक्नोमि दातुं॥६
भोः पञ्चैकादशदशयुतत्रीणि मातुं कृतानि ।७
पात्राणीमानि तव सविधे पूरयन्ति त्वदिच्छाम्” ॥८
उक्त्वेत्थं सो वितरणविधौ न्यस्तचित्तो बभूव।९
मूल्यं तैलस्य च समुचितं प्राप्य निष्ठः कृतार्थः।१०
खाद्यानां ते वितरणकला प्रत्यहं भासमाना ।११
कान्ते याचे वितरणविधिर्वर्ण्यतां तैलकस्य॥१२
प्रहेलिका १०
कन्दुका नव सन्त्यत्र रूपे वर्णे समाः परम् ।१
भारे न्यूनस्त्वेकतरः तोलनाद्व्रियते सदा ॥२
विना मुद्रितभारान्स्ते तुलायन्त्रं तु दीयते ।३
कथं द्विः तोलयित्वार्ये वृणुषे न्यूनकन्दुकम् ॥४
दोषा यद्यत्र दृश्यन्ते कृपया च तितिक्षया ।
तान् सूचयित्वा दोषज्ञा उपकुर्वन्त्विमं जनम् ॥
साधु भात्युत्तरं दत्तं व्योमवर्योऽभिनन्द्यते ।
भवदीयः
मूर्तिः
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/7f550bfb-a280-4e65-8011-da146bcc1205n%40googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADi6ZRjHC-Q7_bacyRWmwzEm2D-qRT%3DzdkDT33GwgWFqOaRyqg%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/4B227432-785A-4CAB-8EC5-6B03796E5D9E%40googlemail.com.