Hello All,Can I please known the meaning for Sampradaya and an sloka for justifying it.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
श्रीसुरेश्वराचार्यप्रणीतनैष्कर्म्यसिद्धौ (1/2) अस्तीयं पंक्तिः -
"स्वसंप्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया -
अलब्ध्वाऽतिशयं यस्मात् व्यावृत्तास्तमबादयः।
गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने॥2॥"
अत्र श्रीचित्सुखाचार्यकृतभावतत्त्वप्रकाशिकाटीकायाम् -
"उत्तरश्लोकतात्पर्यमाह - स्वसम्प्रदायस्येति। स्वेन प्राप्तो विद्योपदेशस्तस्य।" इति दृश्यते।
अत्र -
"सम्प्रदायः - सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायः वेदः। (न्या.कु., प्र.)" इति सम्पादकप्रदत्तटीप्पणी।
[श्रीस्वामिप्रज्ञानानन्दसरस्वतीसम्पादिता सभावतत्त्वप्रकाशिका नैष्कर्म्यसिद्धिः, दक्षिणामूर्तिमठप्रकाशिता, पृ. 10-11]
किञ्च -
"अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥" इत्युक्तिदिशाऽऽधुनिकैः कैश्चिद्वैयाकरणैः सम्प्रदायशब्दस्य "सम्यक् प्रकर्षश्च यो दायः स सम्प्रदायः" इति दायशब्दार्थवैपरीत्यं भजमाना काचिद्व्युत्पत्तिः क्रियते।
इति
सविनयं निवेदयति
मुन्सीत्युपाधिकः श्रीसुदीप्तदाशशर्मा