https://swarajyamag.com/world/worlds-greatest-grammatical-puzzle-that-defeated-sanskrit-scholars-for-2500-years-finally-solved-by-indian-phd-student गुरुभ्यो नमः
What do you think? ---- Vid ramchander deekonda
I did not go through any thesis or video . But I could glean from people across the globe that something went amiss .
विप्रतिषेधे परं कार्यम् 1-4-2
वि+प्रति+सिध+ घञ् ( कर्मव्यतिहारे भावे) -- विप्रतिषेधः ( इतरेतरप्रतिषेधः / अन्योन्यप्रतिषेधः - भाष्यम् ) ।
शब्दकौस्तुभः -- विरोधे सति कृत्यर्हं यत्परं तत् स्यात् । ...कार्यम् इत्यत्र् ’ अर्हे कृत्यतृचश्च ’ 3-3-169 इति अर्हार्थे कृत्यप्रत्ययः ( ण्यत्) ।
Elsewhere Panini -- विप्रतिषिद्धं च अनधिकरणवाचि 2-4-13 विरुद्धार्थानाम् अद्रव्यवाचिनां समाहारद्वन्द्वः एकवद्वा स्यात् -- शीतोष्णम् - शीतोष्णे । ( पाणिनीये अत्रैव - अधिकरणम् = द्रव्यम् ) ।
वेदे -- पूर्वमीमांसा (अध्या 10 पाद 8 अधि 4 ) अतिरात्रे षोडशिग्रहनिषेधस्य विकल्परूपताधिकरणम् --
शिष्ट्वा तु प्रतिषेधः स्यात् -- सूत्रम्
अतिरात्रे षोडशिनं गृह्णाति -- नातिरात्रे षोडशिनं गृह्णाति -- both are injuncted by वेद and there प्रतिषेध - पर्युदासा - र्थवादासंभवात् अगत्या च करणाकरणयोः विकल्पः (शास्त्रदीपिका) ।
उदिते जुहोति (ऐतरेयब्राह्मणम् 5-5-5 ) अनुदिते जुहोति ( तैत्तिरीयब्राह्मणम् ) --- विकल्पः आश्रितः ।
There are other instances (कैयटः) -- नित्यानित्य - उत्सर्गापवाद - अन्तरङ्गबहिरङ्ग -- this सूत्रम् does not apply in these cases (compare with above वेद )।
Since both are ruled by Panini both are प्रमाणम् ।
कात्यायनः -- द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् स विप्रतिषेधः । ( प्रसङ्गौ = विधी ) ।
वृक्षाभ्याम्, वृक्षेषु इति अन्यार्थौ । वृक्षेभ्यः इत्यत्र युगपत् प्राप्नुतः । ( भाष्यम् ) ।
If you want to achieve both पूर्वविप्रतिषेध and परविप्रतिषेध then you have to split the सूत्रम् -- सूत्रभेदः ( वाक्यभेदः दोषः -- पूर्वमीमांसा ) । So without splitting the सूत्रम् ( an elliptical
sentence )we want to achieve both the results --
भाष्यम् -- सूत्रं च भिद्यते । यथान्यासमेवास्तु ।
तद्य इष्टवाची परशब्दः तस्येदं ग्रहणम् -- ’ विप्रतिषेधे परं यदिष्टं तद्भवति ’ ।
कैयटः -- इष्टानिष्टविभागश्च व्याख्यानात् बोद्ध्यः ।
What Kaiyata means is -- you cannot stamp a सूत्रम् as असूत्रम् just because you got a doubt - take the help of व्याख्यानम् -- ’ व्याख्यानतो विशेषप्रतिपत्तिः न हि सन्देहादलक्षणम्’
( परिभाषा)।
It seems that the Scholar in question did not follow the tradition --' त्रिमुनि व्यकरणम् ’ ।
And did not study the शास्त्रम् with any गुरु / आचार्य ।
धन्यो’स्मि