Indian independent works on Tapas

140 views
Skip to first unread message

Govind Kashyap

unread,
Sep 23, 2021, 5:58:05 AM9/23/21
to भारतीयविद्वत्परिषत्
Namaste to all

Many western indologists have treated of the concept of Tapas. There are several articles and books in this regard. As an example, this paper: https://www.jstor.org/stable/1062153

But the central problem with the western approach, to my mind, appears to be their excessive reliance on, and rootedness in, a "buddhistic" slant. By this I mean their chosen slant of treating what is essentially a Vedic (and early Upanisadic) concept from a non-vedic perspective or basis. (And of course, by "Buddhistic" is also meant the Jaina and the broader Sramana traditions).

This is  a lopsided approach in my view.

Again, in the Indian tradition, Tapas is equated with Yoga in several traditions and systems and they are also considered synonymous by many, or alternatively, it is considered part of Yoganga-s (cf. Patanjali, also some Purana-s)

Is there any Indian work that examines the concept of Tapas independently, without reference to later yaugic or the nastika systems? 

I think there must be someone who must have treated Tapas independently, in the proper sense in which it is used in the Veda-s and the Upanisad-s. (For example, say, the sense in the Taittiriya Upanisad)
 
I would appreciate any guidance in this matter.

kind regards
GK



Subrahmanyam Korada

unread,
Oct 5, 2021, 1:56:23 PM10/5/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

तपस् ---

Of late , a peculiar  जाति of academicians has emerged -- they did not learn the fundamentals of Sanskrit language nor studied any काव्यम् / शास्त्रम् etc under any 
गुरु / आचार्य but bold enough to lecture on / comment on / interpret / translate any work , like रामायणम् / महाभारतम् । Earlier too there were such people but much less in number .
If they do not know the वृत्ति / meaning of terms like रामायणम् / भारतम् / तपस् / स्वाध्याय etc , I fail to understand as to , how can they discuss related issues ? 
And their minds ,it seems , are filled with जिगीषा rather than  जिज्ञासा !

Just like  the term गुण has got different meanings in different systems / schools of Indian philosophy -- व्याकरणम् / न्यायवैशेषिके / सांख्यम् / अर्थशास्त्रम् / आयुर्वेदः / मीमांसा
and so on , तपस् also has got different denotations - but most of them can be taken as shades of meaning .
तपस् is wrongly translated as ' penance ' - if we go for back translation it will be ' प्रायश्चित्तम् ’ and not तपस् ( just like धर्म - religion - मतम् । So , the term तपस् is at once 
loaded / pregnant with meaning and as such it should be adapted rather than rendered .
तप = सन्तापे - भ्वादिः ( तप=दाहे , चुरादिः - तापयति / तपति ) -- तपति - ’ सर्वधातुभ्यो’सुन् (उणादिः ,4-189 ) - तपः - तपसी - तपांसि ।
( तपः = ग्रीष्मर्तुः - ’ उष्ण ऊष्मागमस्तपः’ - अमरः - पचाद्यच् । ’ तपेन वर्षाः ’ - माघः , 1-66 . तपाः सान्तः - माघमासः - ’ तपा माघे ’ - अमरः -असुन् - तपन्त्यस्मिन् । तपस्यः = फाल्गुनः - ’ स्यात्तपस्यः फाल्गुनिकः ’- अमरः - तपसि साधुः - ’ तत्र साधुः ’ पा 4-4-98 यत्  ) । तपस्वी - तपः अस्य अस्तीति ’ अस्मायामेधास्रजो विनिः ’ पा 5-2-121 मतुबर्थे विनिः ।

ऋग्वेदः (10-154-2) -- तपसा ये अनाधृष्याः तपसा ये स्वर्ययुः । तपो ये चक्रिरे महस्ताश्चिदेवापि गच्छतात् ॥
यजुर्वेदः - तैत्तिरीयारण्यकम् (2-14 , स्वाध्यायब्राह्मणम्) -- ’ तपो हि स्वाध्यायः ’ ।
तैत्तिरीयोपनिषत् - शीक्षावल्ली -- 1. ’ तपश्च स्वाध्यायप्रवचने च ’ - तपः कृच्छ्रादिः ( शाङ्करभाष्यम्) -- ’ तपः कृच्छ्रादिकर्म च ’ - अमरः । ’ तपो लोकान्तरे’पि च । चान्द्रायणादौ घने च पुमान् शिशिरमाघयोः ’- मेदिनी
2.’तद्धि तपस्तद्धि तपः’ - ’स्वाध्यायाधीनं ह्यर्थग्रहणम् । अर्थज्ञानाधीनं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थं धर्मवृद्ध्यर्थं च । ... यस्मात् स्वाध्यायप्रवचने एव तपः , तस्मात् ते एवानुष्ठेये इति ’ - (शां भा) ।
भृगुवल्ली -- स तपो’तप्यत --- ’ तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात् ; सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप एव साधकतमं साधनमिति हि प्रसिद्धं लोके ।... तच्च तपः बाह्यान्तः-
करणसमाधानम् , तद्द्वारकत्वात् ब्रह्मप्रतिपत्तेः , ’ मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ’ इति स्मृतेः (शां भा)
छान्दोग्योपनिषत् (5-10-1) -- ’ तद्य इत्थं विदुः । ये चेमे’रण्ये श्रद्धा तप इत्युपासते ....’।
मुण्डकोपनिषत् (1-2-11) -- ' तपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ’ ॥ ... वानप्रस्थाः संन्यासिनश्च , 
तपःश्रद्धे हि तपः स्वाश्रमविहितं कर्म श्रद्धा हिरण्यगर्भादिविषया विद्या ...। (शां भा) ।
गौतमस्मृतिः (19-15) -- ’ ब्रह्मचर्यं सत्यवचनं सवनेषूदकस्पर्शनम् आर्द्रवस्त्रस्ता अधःशायिता अनाशक इति  तपांसि ’ ।
मनुस्मृतिः (11--234-244) -- तपोमूलमिदं सर्वं दैवमानुषकं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपो’न्तं वेददर्शिभिः ॥ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम्॥
योगानुशासनम् (2-1 , 2-32 ) --- 'तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ’ । ’शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः’ । ’ तपो द्वन्द्वसहनम् ।द्वन्द्वं च जिघत्सापिपासे शीतोष्णे
स्थानासने काष्ठमौनाकारमौने च ’ - व्यासभाष्यम्
विष्णुपुराणम् (6-7-37 ) -- स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन् प्रणवं मनः ॥

धन्यो’स्मि

Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/61a70335-2482-4a17-ae22-bd1ac5304e42n%40googlegroups.com.

Vipin C

unread,
Oct 8, 2021, 12:41:01 AM10/8/21
to bvpar...@googlegroups.com
Thanks Prof. Subrahmanyam for the post. 
If I may add that even scholarship without the वृत्ति and parampara under a bonafide guru loses the true meaning (realizations) of our shastras.

Best Regards,

Prof. Vipin K. Chaturvedi
UCSD School of Medicine



Govind Kashyap

unread,
Oct 8, 2021, 7:28:45 AM10/8/21
to भारतीयविद्वत्परिषत्
Thank you guru-garu for your kind guidance and elucidation of this important concept.
I am grateful to receive the benefit of your encyclopedic knowledge on this point.

dhanyosmi

Munagala Subrahmanyam

unread,
Oct 15, 2021, 12:39:55 PM10/15/21
to भारतीयविद्वत्परिषत्
In krishna yajurvediya brahmayagna tapa is used as 
 ऋतं तपः सत्यं तपः श्रुतं तपः शांतं तपः दमःतपः शमः तपः दानं तपः यज्ञं तपः भूर्भवस्सुवःब्रह्मोपासनं तपः । 

I informed the meaning of the mantra not exact mantra . Hope experts like korada sir may tell the exact source of the mantra . I know it's in brahmayagna but don't know from where it's taken .

Thank you 

Subrahmanyam Korada

unread,
Oct 16, 2021, 7:10:31 AM10/16/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

>ऋतं तपः सत्यं तपः श्रुतं तपः शांतं तपः दमःतपः शमः तपः दानं तपः यज्ञं तपः भूर्भवस्सुवःब्रह्मोपासनं तपः <


ऋतं तपः सत्यं तपः श्रुतं तपः शांतं तपः दमःतपः शमः तपः दानं तपः यज्ञं तपः भूर्भवस्सुवर्ब्रह्मैतदुपास्वैतत्तपः  --- तैत्तिरीयोपनिषत् - प्रश्नः 4 अनुवाकः 24 -- महानारायणोपनिषत्   (आन्ध्रपाठः  - द्राविडान्ध्रपाठयोः आदितः 49 वाक्यानि  तुल्यानि ) ।

It is difficult to offer a comprehensive account of ' तपस् ’ -  just a दिक्सूची ( offering direction to someone ) .

श्वग्रहगृहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किंकिणं वा ह्रादयन् अद्वारेण सभां प्रपाद्य ..... - आपस्तंबगृह्यसूत्रम् , खण्डः 18  सूत्रम् 1 ( श्वग्रहशान्तिः ) ।

तपोयुक्तः यावत्परितोषम् अनशनादियुक्तः -- सुदर्शनाचार्यकृतसूत्रतात्पर्यदर्शनम्

यावत्परितोषम् अनशनादियुक्तः = not having food etc as per his satisfaction .

So --- ’ तपो हि नियमविशेषः ’ -- leading an ascetic life of any kind can be called  तपस् ।


Correction -- 

तपस्वी - तपः अस्य अस्तीति ’ अस्मायामेधास्रजो विनिः ’ पा 5-2-121 मतुबर्थे विनिः ।
 although noted somehow missed

Here विनिप्रत्यय in मतुबर्थ is by - ' तपस्सहस्राभ्यां विनीनी ’  पा 5-2-102  -- तपस्वी ।

महाभाष्यम् ( तपस्सहस्राभ्यां विनीनी , अण्च ) --

किमर्थं तपः शब्दाद्विन् विधीयते । नासन्तत्वादित्येव सिद्धम् ? 
वार्तिकम् -- तपसो विन्वचनम् अण्बाधनार्थम् ।
भा - तपसो विन्वचनं क्रियते । किं प्रयोजनम् ? अण्विधानात् । तपश्शब्दादण्विधीयते , स विशेषविहितः सामान्यविहितं विनं बाधेत ।
           
Since , the term तपस् has got many meanings , one has to interpret  carefully --

तपःस्वध्यायनिरतं तपस्वी वाग्विदां वरम्  (रामायणम् ) ।

’ तपो हि स्वाध्यायः ’ (तैत्तिरीयारण्यकम्) ।

So here तपस् means any other नियम -- even मातृदेवो भव । पितृदेवो भव etc can be taken as तपस्

Subrahmanyam Korada

unread,
Oct 17, 2021, 7:45:07 AM10/17/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः
(आन्ध्रपाठः  - द्राविडान्ध्रपाठयोः आदितः 49 वाक्यानि  तुल्यानि ) 

पठ्यताम् -- आन्ध्रद्राविडपाठयोः (  तत्र अभ्यर्हितत्वं नास्ति अन्यतरस्मिन् , तस्मात् ’ अल्पाच्तरम् ’  पा सू ) ।

तपः अस्य अस्ति -- विनिः - तपस्वी -- अण् - तापसः

न्यक्कारो’ह्ययमेव मे यदरयः तत्राप्यसौ तापसः -- हनुमन्नाटकम्  (अविमृष्टविधेयांशः दोषः ) ।

अपि क्रियार्थ सुलभं समित्कुशं
जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरमाद्यं खलु धर्मसाधनम् ॥ कुमारसंभवम् , 5-33

The नियम is that even if it is prescribed by वेद / स्मृति / पुराण / इतिहास  , one should  perform धर्म  or do  तपस् - यथाशक्ति  , ie as per his capacity . This is clearly stated in पूर्वमीमांसा , गौतमस्मृति etc ---

आख्यातशब्दानाम् अर्थं ब्रुवतां शक्तिः सहकारिणी --  पूर्वमीमांसा - शाबरभाष्यम् , अध्यायः 1 पादः 4 अधिकरणम् 19 सूत्रम्  33

शक्तिः -- मानसिक - शारीरक - आर्थिक - शक्तिः = यथाशक्ति ।

अथ अष्टौ आत्मगुणाः
दया सर्वभूतेषु  क्षान्तिरनसूया शौचम् अनायासः मङ्गलम् अकार्पण्यम् अस्पृहा इति  -- गौतमधर्मसूत्रम् , प्रश्नः 1 अध्यायः 8  सूत्रे 23 ,  24

अनायासः - one should not feel tired  = यथाशक्ति ।

शिवरात्रौ जागृयात् -- I cannot .

मूलेनावहयेद्देवीं श्रवणेन विसर्जयेत् -- सरस्वतीपूजा ।

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा  बुद्धिर्ज्ञानेन शुध्यति ॥ वसिष्ठस्मृतिः , 3-56   (भूतरूपः आत्मा )

Subrahmanyam Korada

unread,
Oct 20, 2021, 6:25:54 AM10/20/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

अब्भक्षः (सिष्ठस्मृतिः - 14-4,  पस्पशा - महाभाष्यम्) , वायुभक्षः (याज्ञवल्क्यस्मृतिः - 3-55, पस्पशा-महाभाष्यम्) -- अप एव  भक्षयति , वायुमेव भक्षयति  (सर्वं पदं सावधारणम्  इति न्यायः - शब्दरत्नः , एकशेषप्रकरणम् )

(he consumes water only - he consumes air only -- लिङ्गम् अविवक्षितम् -- he or she ) |


As far as पापम् is considered,  both, plucking leaves / fruits, cutting plants etc and killing a bird / animal , both are equally sinful . 


पार्वती was given the name अपर्णा (does not consume even fallen leaves  )  --


स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।

तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ कुमारसंभाम् , 5-28


परा काष्ठा ( mostly used by Telugu people ) -- Kalidasa says - living by consuming the fallen leaves ( i e not plucked ) only is the ultimate  तपस् -- ' काष्ठोत्कर्षे स्थितौ दिशि’

- अमरः । परमोत्कर्षः इत्यर्थः ।

अपाकीर्णम् = त्यक्तम् (given up)  . पुराविदः = पुराणज्ञाः ।

तपःकरणसमये अविद्यमानं पर्णभक्षणं यस्याः सा अपर्णा (  अपर्णा is the one who does not consume even leaves during तपस् ) ।

So her तपस् was beyond परा काष्ठा ( सप्तर्षि-s came to visit her -- ’ न धर्मवृद्धेषु वयः समीक्ष्यते ’) ।


Since one cannot totally, even in minute form, avoid शाक - मद्य - मांस, especially in modern times - it is better to do one's best and get satisfied with the following मन्त्र-s of सन्ध्यावन्दनम् --

 

यदह्ना पापमकार्षम् , मनसा वाचा हस्ताभ्याम् , पद्भ्याम् उदरेण शिश्ना । रत्रिस्तदवलुंपतु । यत्किञ्च दुरितं मयि ।

 

यदह्नात् कुरुते पापं तदह्नात् प्रतिमुच्यते । यद्रात्रियात् कुरुते पापं तद्रात्रियात् प्रतिमुच्यते ।

Reply all
Reply to author
Forward
0 new messages