There are certain Dwandwa samasas that are mandated to be Ekvachana by the Panini Sutras. So does the Bahuvachana form of those Dwandwa samasas exist or not? If not, which sutras forbid their Bahuvachana constructions? If my question makes sense please let me know.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAN9yavBtvXbWggxEgRqrSmt8SW6G%3Dc%2BZAjRg7UY4ZA67-HN26Q%40mail.gmail.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAJGj9ebuQ1i4Ds0EzKXT%2BhJ2zLqwSvrasA4EEGoeunZbLYFejg%40mail.gmail.com.
Namaste
On : < Abhishek Mehta : … certain Dwandwa samasas that are mandated to be Ekvachana by the Panini Sutras.
So does the Bahuvachana form of those Dwandwa samasas exist or not?
If not, which sutras forbid their Bahuvachana constructions? If my question makes sense please let me know. >
My respectful submission :
The answer for the question : < Bahuvachana form of those Dwandwa samasas exist or not > Yes. No sutra seems to prohibit it.
Because the Sup-Ting- Krit-Taddhita Process outcome of a ‘PADA’- yields ‘appropriate outcomes, in three vachanas’- seven vibhakti’s (And
three linga’s if the usage allows it.
Logic: When ‘Dvandva’ samasa’ is made, Different Sutras guide:
‘Form Processing of Compound word (= Pada – Pratyaya-Prakriyaa) ’ and ‘Meaning-Decoding (Artha- Nirukti- Prakriyaa) of Compound Word’.
Form Processing (Shaabdee – Pada -Vidhi) is by ‘Sutra- Vidhi-Vidhana’.
Meaning Processing ( Aarthee- Bhaavanaa) is by ‘Vivakshaa - Saamarthya’.
This is ‘technicality of ‘ Compound word’ –Form processed to generate next word-forms as Vibhakti–Vachana, handling compound term as
‘One INDIVISBLE Prakruti/ Pratipadika’ :: ‘Form-Processing by ‘ Sup / Ting Krit- Taddhita -Pratayas’.
This is ‘technicality of ‘ Compound word’- Form processed to decode ‘ Intended Compacted Meaning Embedded in Compound word’;
where Outcome as One –Pratipadika carries the Consolidation of several individual word-clusters, with different individual meanings
The ‘Samasa’ process, has allowed merger – flattening – unification of individual meanings (pratyeka- pada –artha- samjnaa) to yield
emergence of ONE SINGLE CONSOLIDATED GROUP MEANING (Samooha –artha / Artha Samucchaya- Samanvaya /Artha-Sangraha);
Basis: Clarity on ‘Adhikara- Paribhashaa’ on Form and Meaning’ - समर्थः पदविधिः (2-1-1)
Further Expanding: The set of rules that intervene between 2-4-2and 2-4-17 ;
The vyakhyana on 2-1-1: -sanskritdocuments.org/learning_tools/ashtadhyayi/vyakhya/2/2.1.1.htm
चतुर्विधः अत्र विग्रहः द्रष्टव्यः। सङ्गतार्थः समर्थः। संसृष्टार्थः समर्थः। सम्प्रेक्षितार्थः समर्थः। सम्बद्धार्थः समर्थः। उत्तरपदलोपी कर्मधारयः तत्पुरुषः।
पदस्य विधिः, पदयोः विधिः, पदानां विधिः, पदात् विधिः=पदविधिः इति सर्वविभक्त्यन्तः समासः अत्र बोध्यः
"परिभाषेयम्" इति। परितो व्यापृता भाषा = परिभाषा। तथा चोक्तम्-- "परिभाषा पुनरेकस्था सर्व शास्त्रमभिज्वलयति, ...कुतः पुनरेतद्विज्ञायते-- परिभाषेयम्, नाधिकार इति? पदविधिग्रणाल्लिङ्गात्। उत्तरत्र हि सर्वः पराङ्गवद्भावादिरनुकरस्यमानः पदविधिरेव। .... विधिशब्दोऽयमस्त्येव भावसाधनः-- विधानं विधिरिति। अस्ति च कर्मसाधनः-- विधीयत इति विधिः। तत्र भावसाधने विधिशब्द आश्रीयमाणे पदानामपरिनिष्पन्नानां परिनिष्पादनं पदविधिरिति पदेषु कर्मणि कृद्योगलक्षणा षष्ठी; तेषां विधिना सम्बन्धात्। कर्मसाधने तु परिनिष्पन्नानां व्यवस्थितानामेव पदानां यत्समासादि कार्यं विधीयते स पदिविधिः। तत्र पदेषु च शेषलक्षणा षष्ठी भवति; विधीयमानस्य कार्यस्य पदसम्बन्धित्वेनोपादानात्। तत्र यदीह भावसाधनो विधिशब्द आश्रीयेत तदा विभक्तिविधानमेव सङ्गृहीतं स्यात्,समास-- पराङ्गवद्भाव--तद्धितवृत्त्यादिकं न सङ्गृह्रेत च न हि तत्र पदानामसतां विधानम्; किं तर्हि? व्यवस्थितानामेव पदानां समासादि कार्यं विधीयते। इतरत्र तु विधिशब्द आश्रीयमाणे तेऽपि सङ्गृहीता भवन्तीति मन्यमानः कर्मसाधनं विधिशब्दमाश्रित्याह-- "विधीयत इति विधिः" इति। ननु चात्रापि पक्षे विभक्तिविधानं न सङ्गृह्रेत, न हि "कर्मणि द्वितीया" २।३।२ इत्येवमादिशास्त्रेण व्यवस्थितानां पदानां किञ्चित् कार्यं विधीयते, अपि तु पदान्येव विधीयन्ते? .. "समासादिः" इति। आदिशब्देन तद्धितवृत्यादीनां ग्रहणम्। "समर्थः शक्तः" इति। स्वकार्यनिर्वर्तनक्षम इत्यर्थः। स हि लोके समर्थ इत्युच्यते। स्वार्थप्रतिपादनमेव शब्दानां स्वकार्यम्। ये चेह लौकिका वैदिकाश्च शब्दा अधिकृतास्ते सर्वे एव स्वकार्यप्रतिपादनं प्रति समर्थाः। तस्मात् "समर्थः" इत विशेषणोपादानसामथ्र्याद्विशेषः कश्चिदाश्रीयते। स च विशेषः-- वृत्त्यर्थं यद्वाक्यमुपादीयते, प्रत्यासत्तेस्तदर्थप्रतिपादने या शक्तता तल्लक्षमो विज्ञायत इत्याह-- "विग्रहवाक्यर्थाभिधाने" इत्यादि। विशेषेण गृह्रते विज्ञायतेऽनेनेति विग्रहः, विग्रहश्च तद्वाक्यम्। अथ वा-- विशेषेण ग्रहणं विग्रहः, विग्रहार्थं यद्वाक्यं तद्विग्रहवाक्यम्। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। विग्रहवाक्यस्यार्थो विग्रहवाक्यार्थः, तदभिधाने तत्प्रत्यायने यः शक्तः स समर्थो वेदितव्यः, यथा-- राजपुरुष इत्ययं समसाः, एतदर्थं यद्वाक्यं राज्ञः पुरुष इति तस्य योऽर्थस्तदभिधाने राजपुरुष इत्ययं शब्दं शक्तः; ततोऽपि तदर्थस्य प्रतीतेः। स पुनरर्थः-- संसर्गः, भेदश्च;भेदसंसर्गौ वा।तत्र स्वविशेषस्य स्वामिविशेस्य स्वामिविशेषेण यः सम्बन्धः स "संसर्गः" आख्यायते। स्वान्तरस्य स्वाम्यन्तरेभ्यः, स्वाम्यतरस्य स्वातन्तरेभ्यश्च व्यावृत्तिः "भेदः" आख्यायते। तत्र संसर्गवादिनो मते संसर्ग एव शब्दार्थः, व्यावृत्तिस्त्वर्थसंगृहीता। न ह्रव्यावर्त्त्यसंगृहीता। न ह्रव्यावर्त्त्यमानयोः स्वस्वामिनोः सम्बन्ध्यन्तरेभ्यः संसर्ग उपपद्यते। भेदवादिनस्तु व्यावृत्तिरव शब्दार्थः, संसर्गोऽर्थसङ्गृहीतः; न हि व्यावर्त्त्यमानस्य सम्बन्ध्यन्तरेणासम्बद्धस्य स्वाम्यादेरवस्थानमस्ति। उभयवादिनस्तु उभय एव शब्दार्थः। यदि विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो विज्ञायेत, एवं सति समासतद्धितविषयमेव सामथ्र्यामिति पराङ्गवद्भावविभक्तिविधानयोरियं परिभाषा नोपतिष्ठेत; न हि तत्र विग्रहवाक्यार्थाभिधानमस्ति? यदि नोपतिष्ठेत, न नाम; न च तदनुपस्थाने किञ्चिदनिष्टमापद्येत। तथा हि-- पराङ्गवद्भावे तावन्निमित्तग्रहणं देशयिष्यति भाष्यकारः। तत्र च निमित्तस्य निमित्तिना सामथ्र्यमस्त्येव-- मद्राणां राजन्, परशुना वृश्चन्निति। ++++ विभक्तिविधानेऽपि यास्तावत् कारकविभक्तयस्ता येष्वेव कारकेषु कर्मादिषु विधीयन्ते तेषां क्रियया सम्बन्धोऽस्त्येव। उपपदविभक्तिष्वपि "सहयुक्तेऽप्रधाने" २।३।१९ इत्येवमादिषु युक्तग्रहणादीनि सन्ति, तत्रापि सामथ्र्यमस्त्येव। तत्रैवं सम्बन्धे सति विभक्तय इष्यन्ते, न तु व#इग्रहवाक्यार्थाभिधानलक्षणसामर्थ्ये। एवं तावन्मुख्यार्थवृत्तिः समर्थशब्दो दर्शितः। इदानीमुपचरितवृतिं()त दर्शयितुमाह-- "अथ वा" इत्यादि। समर्थानि पदान्याश्रयो यस्य स समर्थपदाश्रायः; तद्भावः समर्थपदाश्रयत्वम्। ततो हेतोः समासादिः समर्थ उच्यते। आश्रयस्य समर्थत्वादुपचारेणाश्रितोऽपि तथेति व्यपदिश्यते; कारणधर्मस्य कार्य उपचारात्, यथा-- नड्()वलोदकं पादरोगः। "समर्थानाम्" इत्यनेन वाक्ये व्यपदेशलक्षणं सामथ्र्यमाह। तथा हि "राज्ञः पुरुषः" इत्यत्र वाक्ये राजा पुरुषमपेक्षते -- ममायमिति, पुरुषोऽपि राजानमपेक्षते-- अहमस्येति। ++++ "संसृष्टार्थानाम्" इत्यनेन समासे पदानामेकार्थीभावनलक्षमं सामथ्र्यं दर्शयति। एकार्थीभावश्च पृथगवस्थितानां भिन्नार्थानां पदानां समासे साधारणार्थता नामावस्थाविशेषः। वाक्ये हि साधारणार्थता नास्ति; भिन्नार्थत्वात्। अत एव तत्र भेदनिबन्धना षष्ठ्युपजायते-- राज्ञः पुरुष इति। वृत्तौ तूभयपदव्यवच्छिनार्थाभिधानत् साधारणार्थता भवति। ++++++ एतेनैतदुक्तं भवति-- समासे हि विशेषणं विशेष्यमनुप्रविशत्येकार्थी भवति विशेष्येण सरह, वाक्ये हि विशेषमं विशेष्यात् पृथगवतिष्ठत इति। यस्मिन्नसति, वाक्ये राज्ञो गौश्चा()आश्च पुरुषश्चेति भेदनिबन्धनसमुच्चयप्रतिपादनाय चशपब्द प्रयुज्यते। समासे तु यस्मिन् सति स निवत्र्तते राज्ञो गवा()आपुरुषा इत्ययमेकार्थीभावो वेदितव्यः। "पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्" इति। अत्र कष्टशब्दस्य पश्येत्यनेन सम्बन्धः; न तु श्रितशब्दन; तेन सामथ्र्याभावात्समासो न भवति। ननु च श्रितादीनां श्रुतत्वात्तैरेव द्वितीयां विशेषयिष्यामः-- श्रितादीनां सम्बन्धिनी या द्वितीयेति शक्यते व्यपदेष्टम् : असति तु तस्मिन्, द्वितीयामात्रं श्रितादिभिः समस्यत इति विज्ञायते। एवं सापेक्षस्यापि समासः स्यादेव-- महत् कष्टं श्रित इति, भवति ह्रत्र श्रितादिनिमित्ता द्वितीया। तस्मात् समर्थग्रहणं कत्र्तव्यम्। "किं त्वं करिष्यसि सङ्कुलया, खण्डो देवदत्त उपलेन" इति। अत्रोपलेन तृतीयान्तेन कृतं खण्डनम्। अतस्तत्कृतत्वमस्तीति प्राप्नोति समासः; समर्थग्रहमान्न भवति। समर्थग्रहणे तु सत्ययमर्थो भवति-- यस्यैव तृतीयान्तस्य समासस्तेनैव यदि कृतं खण्डनमिति। न चेह तत्कृतं खण्डनमतो न भवति समासः। एवमन्यत्राप्यसामथ्र्यादसमासो वेदितव्यः।
Regards
BVK Sastry
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAN9yavCOoapEaJ%3DxQ1Ww2McUX_EhHcUx%3D%2B%3Ddu7WrkrS_BtbpBQ%40mail.gmail.com.