कृष्यते (विलिख्यते, हलादिना)
इति कर्मव्युत्पत्त्या
भूमिः कृषिर्भवति ।
तस्याः निर्वृतिः येन
दापिता सः कृष्णः इति
साक्षात्
तदवतारप्रयोजनयुक्तम्
अन्वर्थं नाम कृष्ण इति ।
तथाहि -
भूमिर्दृप्तनृपव्याजदैत्यानीकशताकुलैः
।
आक्रान्ता भूरिभारेण
ब्रह्माणं शरणं ययौ ।।
गौर्भूत्वाऽश्रुमुखी
खिन्ना क्रन्दन्ती करुणं
विभोः ।
.
ब्रह्मा तदुपधार्याथ सह
देवैः ... जगाम सत्रिणयनः तीरं
क्षीरपयोनिधेः ।
. पुरुषं पुरुषसूक्तेन
उपतस्थे समाहितः ।
. गां पौरुषीं मे शृणुतामराः
परं विधीयतामाशु तथैव मा
चिरम् ।।
.
भूमेर्भारायमाणानां
दैत्यानां च वधं प्रति ।
. देवकीगर्भस्थपरमात्मनः
ब्रह्मादिदेवकृतस्तुतौ –
. त्वं पासि नस्त्रिभुवनं च
यथाऽधुनेश भारं भुवो हर
यदूत्तम वन्दनं ते ।
दिष्ट्याम्ब ते कुक्षिगतः
परः पुमान् अंशेन
साक्षाद्भगवान् भवाय नः ।
अवतारकाल एव पित्रोः
निगलनिवर्तकत्वेन,
अद्भुतत्वेन, बालकत्वेन,
अम्बुजेक्षणत्वेन,
चतुर्भुजत्वेन,
शङ्खगदाद्युदायुधत्वेन,
श्रीवत्सचिह्नादिना
च अवतरतः
श्रीशुकादिमहर्षिभिः
अनुभूततया आस्तिकानां
कृष्णशब्दार्थः
तात्विकः सन्नपि न निर्गुणः,
वेदादिविरुद्धः ।
अष्टादशाप्यक्षौहिणीः
सेनाः कथञ्चित् युद्धे
सादिताः भूभारश्चापनीतः ।
अतः भूशब्दोपलक्षित
सर्वसंसारिणां उद्धाराय
आसुरप्रवृत्तिनिरासाय च
भगवान्
समस्तकल्याणगुणामृतोदधिः
भूभार-अपनयन-अपदेशेन
अस्मदादीनामपि
समाश्रयणीयत्वाय
अवतीर्योर्व्यां
परमपुरुषार्थलक्षण
मोक्षसाधनतया वेदान्तोदितं
स्वविषयं
ज्ञानकर्मानुगृहीतं
भक्तियोगम्
अवतारयामास ।
लोकस्तु भुवने जने इति भुवः
सङ्कटहरणं तत्स्थानां
जनानामपीति
लोकोद्धारकत्वं, को
ह्येवान्यात् कः प्राण्यात्
यदेष आकाश आनन्दो
न स्यात् । एष
ह्येवानन्दयाति । इति
श्रुतिसिद्धं गम्यते ।
अतः मा भूत्
शङ्खचक्रगदासिशार्ङ्गादिधारिणि
परमपुंसि तस्मिन्
विद्वेषः, ये च वेदविदो
विप्राः ये चाध्यात्मविदो
जनाः ।
ते वदन्ति महात्मानं कृष्णं
धर्मं सनातनम् ।।
रामानुजः
--
Dr. P. Ramanujan
AD-IHLC,
C-DAC, Bangalore (KP)
ra...@cdac.in
080-25246350, 66116444 (Off.-Dir.)
-------------------------------------------------------------------------------------------------------------------------------
This e-mail is for the sole use of the intended recipient(s) and may
contain confidential and privileged information. If you are not the
intended recipient, please contact the sender by reply e-mail and destroy
all copies and the original message. Any unauthorized review, use,
disclosure, dissemination, forwarding, printing or copying of this email
is strictly prohibited and appropriate legal action will be taken.
-------------------------------------------------------------------------------------------------------------------------------