धृतराष्ट्र उवाच॥
उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय।
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे॥ १॥
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्॥ १॥
वैशम्पायन उवाच॥
एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत्।
प्रागायता महाराज षडेते रत्नपर्वताः॥ २॥
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ॥ २॥
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः।
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः॥ ३॥
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः॥ ३॥
एते वै पर्वता राजन्सिद्धचारणसेविताः।
तेषामन्तरविष्कम्भो योजनानि सहस्रशः॥ ४॥
तत्र पुण्या जनपदास्तानि वर्षाणि भारत।
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः॥ ५॥
इदं तु भारतं वर्षं ततो हैमवतं परम्।
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते॥ ६॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च।
प्रागायतो महाराज माल्यवान्नाम पर्वतः॥ ७॥
ततः परं माल्यवतः पर्वतो गन्धमादनः।
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः॥ ८॥
आदित्यतरुणाभासो विधूम इव पावकः।
योजनानां सहस्राणि षोडशाधः किल स्मृतः॥ ९॥
उच्चैश्च चतुराशीतिर्योजनानां महीपते।
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति॥ १०॥
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो।
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत॥ ११॥
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः॥ ११॥
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल।
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान्॥ १२॥
मेरुरुत्तममध्यानामधमानां च पक्षिणाम्।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम्॥ १३॥
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम्॥ १४॥
स पर्वतो महाराज दिव्यपुष्पफलान्वितः।
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः॥ १५॥
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः॥ १६॥
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः॥ १७॥
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः।
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो॥ १८॥
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि॥ १९॥
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते।
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः॥ २०॥
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति॥ २१॥
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम्।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम्॥ २२॥
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः।
उमासहायो भगवान्रमते भूतभावनः॥ २३॥
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्।
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः॥ २४॥
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः।
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः॥ २५॥
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर।
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना॥ २६॥
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा।
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे॥ २७॥
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः॥ २७॥
तां धारयामास पुरा दुर्धरां पर्वतैरपि।
शतं वर्षसहस्राणां शिरसा वै महेश्वरः॥ २८॥
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते।
जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः॥ २९॥
आयुर्दश सहस्राणि वर्षाणां तत्र भारत।
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः॥ ३०॥
अनामया वीतशोका नित्यं मुदितमानसाः।
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः॥ ३१॥
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः।
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः॥ ३२॥
गन्धमादनपादेषु परेष्वपरगण्डिकाः।
एकादश सहस्राणि वर्षाणां परमायुषः॥ ३३॥
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः।
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः॥ ३४॥
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्।
वर्षमैरावतं नाम ततः शृङ्गवतः परम्॥ ३५॥
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे।
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह॥ ३६॥
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः।
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः॥ ३७॥
समन्वितानि भूतानि तेषु वर्षेषु भारत।
एवमेषा महाराज पर्वतैः पृथिवी चिता॥ ३८॥
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः।
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते॥ ३९॥
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति।
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः॥ ४०॥
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम्।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः॥ ४१॥
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः॥ ४१॥
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः।
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः॥ ४२॥
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः।
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः॥ ४३॥
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः॥ ४३॥
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते॥ ४४॥
वस्वोकसारा नलिनी पावना च सरस्वती।
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी॥ ४५॥
अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः।
उपासते यत्र सत्रं सहस्रयुगपर्यये॥ ४६॥
दृश्यादृश्या च भवति तत्र तत्र सरस्वती।
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः॥ ४७॥
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः।
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः॥ ४८॥
देवासुराणां च गृहं श्वेतः पर्वत उच्यते।
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप॥ ४९॥
शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः॥ ४९॥
इत्येतानि महाराज सप्त वर्षाणि भागशः।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च॥ ५०॥
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी।
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता॥ ५१॥
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम्।
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे॥ ५२॥
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च॥ ५२॥
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम्॥ ५३॥
१०
धृतराष्ट्र उवाच॥
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्।
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम॥ १॥
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः।
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय॥ २॥
सञ्जय उवाच॥
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम।
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः॥ ३॥
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः।
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्॥ ४॥
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम्।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च॥ ५॥
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च॥ ६॥
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा॥ ७॥
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्॥ ८॥
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम।
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि॥ ९॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥ १०॥
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः।
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः॥ ११॥
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो॥ १२॥
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम्।
गोदावरीं नर्मदां च बाहुदां च महानदीम्॥ १३॥
शतद्रुं चन्द्रभागां च यमुनां च महानदीम्।
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्॥ १४॥
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्।
इरावतीं वितस्तां च पयोष्णीं देविकामपि॥ १५॥
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम्।
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम्॥ १६॥
गोमतीं धूतपापां च वन्दनां च महानदीम्।
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम्॥ १७॥
रथस्थां शतकुम्भां च सरयूं च नरेश्वर।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा॥ १८॥
शतावरीं पयोष्णीं च परां भैमरथीं तथा।
कावेरीं चुलुकां चापि वापीं शतबलामपि॥ १९॥
निचीरां महितां चापि सुप्रयोगां नराधिप।
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम्॥ २०॥
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा।
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम्॥ २१॥
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम्।
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा॥ २२॥
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव।
सदानीरामधृष्यां च कुशधारां महानदीम्॥ २३॥
शशिकान्तां शिवां चैव तथा वीरवतीमपि।
वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम्॥ २४॥
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम्।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्॥ २५॥
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम्।
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम्॥ २६॥
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि।
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम्॥ २७॥
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्।
कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम्॥ २८॥
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम्।
चरक्षां महिरोहीं च तथा जम्बुनदीमपि॥ २९॥
सुनसां तमसां दासीं त्रसामन्यां वराणसीम्।
लोलोद्धृतकरां चैव पूर्णाशां च महानदीम्॥ ३०॥
मानवीं वृषभां चैव महानद्यो जनाधिप।
सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम्॥ ३१॥
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत।
चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम्॥ ३२॥
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम्।
शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम्॥ ३३॥
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम्।
कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत॥ ३४॥
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष।
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः॥ ३५॥
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः।
इत्येताः सरितो राजन्समाख्याता यथास्मृति॥ ३६॥
अत ऊर्ध्वं जनपदान्निबोध गदतो मम।
तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः॥ ३७॥
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च।
मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः॥ ३८॥
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः।
उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह॥ ३९॥
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः।
सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः॥ ४०॥
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत।
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः॥ ४१॥
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः।
अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः॥ ४२॥
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम्।
वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः॥ ४३॥
विदेहका मागधाश्च सुह्माश्च विजयास्तथा।
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च॥ ४४॥
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः।
वाहीका वाटधानाश्च आभीराः कालतोयकाः॥ ४५॥
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः।
अटवीशबराश्चैव मरुभौमाश्च मारिष॥ ४६॥
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा।
कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः॥ ४७॥
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च।
बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः॥ ४८॥
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप।
पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा॥ ४९॥
शका निषादा निषधास्तथैवानर्तनैरृताः।
दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा॥ ५०॥
तीरग्राहास्तरतोया राजिका रस्यकागणाः।
तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः॥ ५१॥
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा।
अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा॥ ५२॥
दर्वीकाः सकचा दर्वा वातजामरथोरगाः।
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः॥ ५३॥
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा।
वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः॥ ५४॥
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः।
किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः॥ ५५॥
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष।
अथापरे जनपदा दक्षिणा भरतर्षभ॥ ५६॥
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः।
उन्नत्यका माहिषका विकल्पा मूषकास्तथा॥ ५७॥
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः।
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः॥ ५८॥
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः।
ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः॥ ५९॥
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा।
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह॥ ६०॥
मालका मल्लकाश्चैव तथैवापरवर्तकाः।
कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा॥ ६१॥
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः।
आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा॥ ६२॥
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः।
उत्तराश्चापरे म्लेच्छा जना भरतसत्तम॥ ६३॥
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः।
सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह॥ ६४॥
तथैव मरधाश्चीनास्तथैव दशमालिकाः।
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च॥ ६५॥
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह।
खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः॥ ६६॥
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः।
औपकाश्च कलिङ्गाश्च किरातानां च जातयः॥ ६७॥
तामरा हंसमार्गाश्च तथैव करभञ्जकाः।
उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो॥ ६८॥
यथागुणबलं चापि त्रिवर्गस्य महाफलम्।
दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता॥ ६९॥
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः।
ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः॥ ७०॥
देवमानुषकायानां कामं भूमिः परायणम्।
अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम्॥ ७१॥
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्।
न चापि तृप्तिः कामानां विद्यते चेह कस्यचित्॥ ७२॥
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः।
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव॥ ७३॥
पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी॥ ७४॥
११
धृतराष्ट्र उवाच॥
भारतस्यास्य वर्षस्य तथा हैमवतस्य च।
प्रमाणमायुषः सूत फलं चापि शुभाशुभम्॥ १॥
अनागतमतिक्रान्तं वर्तमानं च सञ्जय।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च॥ २॥
सञ्जय उवाच॥
चत्वारि भारते वर्षे युगानि भरतर्षभ।
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन॥ ३॥
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो।
सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते॥ ४॥
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम।
आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम॥ ५॥
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप।
द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति॥ ६॥
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च॥ ७॥
महाबला महासत्त्वाः प्रजागुणसमन्विताः।
अजायन्त कृते राजन्मुनयः सुतपोधनाः॥ ८॥
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः।
जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः॥ ९॥
आयुष्मन्तो महावीरा धनुर्धरवरा युधि।
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः॥ १०॥
सर्ववर्णा महाराज जायन्ते द्वापरे सति।
महोत्साहा महावीर्याः परस्परवधैषिणः॥ ११॥
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप।
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत॥ १२॥
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च।
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत॥ १३॥
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम्॥ १४॥
१३
सञ्जय उवाच॥
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा।
यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे॥ १॥
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः।
सुरोदः सागरश्चैव तथान्यो घर्मसागरः॥ २॥
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप।
सर्वतश्च महाराज पर्वतैः परिवारिताः॥ ३॥
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान्।
पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप॥ ४॥
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः।
प्रजापतिमुपासीनः प्रजानां विदधे सुखम्॥ ५॥
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह।
सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप॥ ६॥
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः।
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा॥ ७॥
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान्।
यत्र नित्यं निवसति श्रीमान्कमललोचनः॥ ८॥
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः॥ ८॥
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः।
सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः॥ ९॥
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः।
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः॥ १०॥
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः।
तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः॥ ११॥
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्।
तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम्॥ १२॥
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्।
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः॥ १३॥
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर।
विहरन्ति रमन्ते च न तेषु म्रियते जनः॥ १४॥
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप।
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव॥ १५॥
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर।
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु॥ १६॥
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः।
क्रौञ्चात्परो वामनको वामनादन्धकारकः॥ १७॥
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः।
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः॥ १८॥
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः।
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन॥ १९॥
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु।
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः॥ २०॥
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह।
उष्णात्परः प्रावरकः प्रावरादन्धकारकः॥ २१॥
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः।
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः॥ २२॥
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप।
एते देशा महाराज देवगन्धर्वसेविताः॥ २३॥
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान्।
तत्र नित्यं निवसति स्वयं देवः प्रजापतिः॥ २४॥
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः।
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप॥ २५॥
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत।
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन॥ २६॥
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च।
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः॥ २७॥
एको जनपदो राजन्द्वीपेष्वेतेषु भारत।
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते॥ २८॥
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः।
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा॥ २९॥
स राजा स शिवो राजन्स पिता स पितामहः।
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः॥ ३०॥
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्।
सिद्धमेव महाराज भुञ्जते तत्र नित्यदा॥ ३१॥
ततः परं समा नाम दृश्यते लोकसंस्थितिः।
चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम्॥ ३२॥
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः॥ ३३॥
सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः॥ ३३॥
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे।
असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा॥ ३४॥
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च।
असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः॥ ३५॥
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः।
ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः॥ ३६॥
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः।
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः॥ ३७॥
धृतराष्ट्र उवाच॥
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः।
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय॥ ३८॥
सञ्जय उवाच॥
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः।
स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः॥ ३९॥
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः।
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै॥ ४०॥
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ।
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा॥ ४१॥
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः।
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम्॥ ४२॥
एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः॥ ४२॥
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन।
विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम्॥ ४३॥
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ।
श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः॥ ४४॥
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत॥ ४४॥
स राहुश्छादयत्येतौ यथाकालं महत्तया।
चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः॥ ४५॥
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा।
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि॥ ४६॥
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत्।
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति॥ ४७॥
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्।
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः॥ ४८॥
आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते॥ ४८॥
यः शृणोति महीपाल पर्वणीदं यतव्रतः।
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः॥ ४९॥
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्।
पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि॥ ५०॥