68 views
Skip to first unread message

Bishnupada pal

unread,
Sep 10, 2021, 3:21:06 PM9/10/21
to bvpar...@googlegroups.com

इहाधीतो पूर्वे धृतधरणिभारः कमठरा-

डपां नाथेनास्माद्गिरिशतशरण्येन पठिताः।

ततः प्राप्तां दूरीकृतभुवनतापैर्जलधरै-

स्सतां तु स्वोपज्ञ सततमुपकारोपनिषदः 

इत्ययं श्लोकः कस्मात् स्वीकृतो वर्तते इति कृपया ज्ञापयन्तु।

Bishnupada pal

unread,
Sep 16, 2021, 11:22:54 PM9/16/21
to bvpar...@googlegroups.com

क्रियाकृतविशेषानवगतौ कर्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यते, तत्प्राप्यम् इति प्राप्यस्य कर्मणः लक्षणमिदम्। आस्थितं नाम किम्। इति कृपया ज्ञापयन्तु।


Subrahmanyam Korada

unread,
Sep 19, 2021, 11:22:46 AM9/19/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

>क्रियाकृतविशेषानवगतौ कर्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यतेतत्प्राप्यम् इति प्राप्यस्य कर्मणः लक्षणमिदम्। आस्थितं नाम किम्। इति कृपया ज्ञापयन्तु< -----

प्राप्यकर्मलक्षणम् साधनसमुद्देशे पदकाण्डे वाक्यपदीये --

क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ 51  दर्शनम् = प्रत्यक्षम् । उभयत्र हेतौ पञ्चमी ।

प्रत्यक्षेण अनुमानेन वा यस्मिन् कर्मणि कर्तृव्यापारजातविशेषाणां रूपपरिवर्तनं (सिद्धिः) न ज्ञायते तत् कर्म प्राप्यमिति कथ्यते ।

काष्ठं भिनत्ति - अत्र भेदनक्रियया काष्ठगतभेदनं प्रत्यक्षसिद्धम् ।
तण्डुलान् पचति - अत्र पाकक्रियया तण्डुलानां विक्लित्तिः प्रत्यक्षसिद्धा । -- द्वयमपि निर्वर्त्यकर्म ।
काष्ठं भस्म करोति - रूपपरिणामः प्रत्यक्षसिद्धः -- विकार्यकर्म ।
पुत्रः सुखं करोति - पितुः मुखविकासेन सुखम् अनुमीयते । एवं दुःखमपि मुखमालिन्येन अनुमीयते ।

उक्तप्रकारेण  प्रत्यक्षेण अनुमानेन वा  यस्मिन् कर्मणि परिणामः न ज्ञायते तत् प्राप्यं कर्म --
आदित्यं पश्यति  - आदित्यदर्शनेन आदित्ये न कश्चन परिणामः -- प्रत्यक्षम् ।
ग्रामं गच्छति - गमनक्रियया ग्रामे न कश्चन परिणामः - अनुमानः ।
घटं जानाति - घटज्ञानानन्तरं घटे न कश्चन परिणामः - प्रत्यक्षम् । --- एतेषां प्राप्यकर्मत्वम् ।
स्यादेतत् --
आस्थितम् = प्रत्यक्षसिद्धम्
अनास्थितम् = अनुमानसिद्धम्

धन्यो’स्मि



Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


On Fri, Sep 17, 2021 at 8:52 AM Bishnupada pal <bishnu...@gmail.com> wrote:

क्रियाकृतविशेषानवगतौ कर्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यते, तत्प्राप्यम् इति प्राप्यस्य कर्मणः लक्षणमिदम्। आस्थितं नाम किम्। इति कृपया ज्ञापयन्तु।


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAL7yAgfheY7VnCSmJg_9_pqbFQApO1JHGE%3DcgxApizmvaeBpUg%40mail.gmail.com.

ushavishnuvamsi

unread,
Sep 24, 2021, 4:16:17 AM9/24/21
to bvparishat
आस्थितम् = ईप्सितम्,  अनास्थितम् = अनीप्सितम्।  - इति प्रतिभाति।  ईप्तिततमानीप्सिततमसाधारण्येनेत्यर्थः ।

Dr Abhimanyu

unread,
Sep 27, 2021, 5:35:03 AM9/27/21
to bvpar...@googlegroups.com

 नमो विद्वद्भ्यः

 

क्रियाकृतविशेषानवगतौ कर्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यतेतत्प्राप्यम् इति प्राप्यस्य कर्मणः लक्षणमिदम्। आस्थितं नाम किम्। इति कृपया ज्ञापयन्तु

 

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि  2/3/12

अत्र

वार्तिकसूत्रम् -  आस्थितप्रतिषेधश्चायं विज्ञेयः । आस्थितः सम्प्राप्तः, आक्रान्त उच्यते । इति काशिका

अत्रैव-  आस्थितः — संप्राप्तः – तत्त्वबोधिनी


पूर्वैः कृतमिनयौ च - 4/4/133 इत्यस्मिन्सूत्रे

तेन पूर्वपुरुषाणां पन्था आस्थितः सम्पद्यत इति दर्शयितुमाह - न्यासकारः


समर्थः पदविधिः 2/1/1 इत्यस्मिन्सूत्रे

स्यान्मदद्गौरवं तस्मादेकार्थीभाव आस्थित - इति तत्त्वबोधिनी

 


डॉ. अभिमन्यु

एसोसिएट प्रोफ़ेसर

संस्कृत विभाग, कला संकाय

बनारस हिन्दू विश्वविद्यालय

वाराणसी 

 




--
Abhimanyu !
Reply all
Reply to author
Forward
0 new messages