Dear all
this is I have written on temporaryness of shabda according to nyaya. please let us enlighten something on this difficult point
क्षणिकविशेषगुणवत्त्वम् आकाशे इति नैयायिकाः
प्रथमशब्दस्य द्वितीयशब्देन नाशः, योग्यविभुविशेषगुणानां स्वोत्तरवृत्तिविशेषगुणनाश्यत्वनियमात्। तथा च आकाशे शब्दस्य क्षणद्वयमात्रावस्थायित्वमिति तदाशयः।
अत्रेदं चिन्तनीयम्- कथं क्षणिकविशेषगुणवत्त्वम् आकाशे संभवति। आत्मनि तु भवतीदम्, आत्मनामनन्तत्वात् एकस्मिन्नात्मनि एकदा ज्ञानद्वयासंभवेन क्षणद्वयमेकं ज्ञानम्, युगपज्ज्ञानानुपपत्तेः उत्तरज्ञानेन पूर्वज्ञानं नश्यतीति तत्संभवात्। शब्दद्वये तु नाश्यनाशकभावः कथम्? आकाशस्यैकत्वात् एकश्मिंश्चाकाशे एकस्मिन्नेव प्रदेशे एकावच्छेदेनैव सहस्रशो जनेषु युगपत्कोलाहलं कुर्वत्सु एकैकस्मिन्नपि क्षणे तद्विभागेषु अवान्तरक्षणेषु वा पूर्वपूर्वशब्देषु सत्स्वेव उत्तरोत्तरशब्दानामपि उत्पत्तिस्थित्योस्संभवेन तेषां परस्परं नाश्यनाशकभावासंभवात्।
पूर्वोत्तरशब्दानां नाश्यनाशकभावासंभवे कथं तर्हि शब्दानां नव्यतरमते नाश इति चेत् संयोगादिवत् स्वत इति ब्रूमः। यावत्कालं तदाधारभूतो वायुः तावत्पर्यन्तं शब्दस्तिष्ठति। दीर्घतरोयं शङ्खशब्दः श्रूयते ह्रस्वतरोयम् इत्याद्यनुभवात्। ह्रस्व-दीर्घ-प्लुतादिभेदश्च द्विक्षणावस्थायित्वे न स्यात्।
क्षणादिस्वरूपम्
कश्चायं क्षण इत्यपि चिन्तनीयम्। (कालः) “क्षण-लव-निमेष-काष्ठा-कला-मुहूर्त-याम-अहोरात्र-अर्धमास-मास-ऋतु-अयन-संवत्सर-युग-कल्प-मन्वन्तर-प्रलय-महाप्रलयव्यवहारहेतुः” इति प्रशस्तपादोक्तदिशा
क्षणद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम्।
अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः।।
त्रिंशत्कलो मुहूर्तस्स्यात् त्रिंशत् रात्र्यहनी च ते[1]।
अहोरात्राः पञ्चदश, पक्षो मासस्तु तावुभौ।।
ऋतुर्मासद्वयं प्रोक्तमयनं तु ऋतुत्रयम्।
अयनद्वितयं वर्षो मानुषोयमुदाहृतः।।
एष दैवस्त्वहोरात्रस्तैः पक्षादि च पूर्ववत्।
देववर्षसहस्राणि द्वादशैव चतुर्युगम्।।
चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते।
रात्रिश्चैतावती तस्य ताभ्यां पक्षादिकल्पना।। इति किरणावल्युदाहृतकारिकाभिश्च क्षणो नाम अत्यन्तं सूक्ष्मः कालखण्डविशेषः। एकस्मिन् क्षणे एव शतपत्रशतभेदनं संभवतीति नैयायिकाः।
एवं सति कथं वा शब्दः केवलं द्विक्षणावस्थायीति वक्तुं शक्यते।[1] निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः । । मनु. १.६४ । ।
| नमो महद्भ्यः। ममेदं भाति यत्, युगपद्ज्ञानानुत्पत्तिर्मनसो लिङ्गमित्यनेन एकस्मिन्नात्मनि एकक्षणावच्छेदेन नानाज्ञानं नोत्पद्यते। आत्मानो नाना। आकाशस्य तु एकत्वात् ,एकाक्षणावच्चेदेन नानाशब्दानां एकत्र युगपदुत्त्पत्तौ दोषो नास्ति। अन्यत्सर्वं विभुविशेषगुणभूत ज्ञानेन साम्यमेव भवति
शब्दस्य,अर्थात् स्वोत्तरवर्त्तिगुणनाश्यत्वं समानमेव। |
पूर्वपूर्वशब्देषु सत्स्वेव उत्तरोत्तरशब्दानामपिउत्पत्तिस्थित्योस्संभवेन तेषां परस्परं नाश्यनाशकभावासंभवात्। |
एकस्यैव शब्दस्य उत्पत्तिस्थिती नैकस्मिन्क्षणे संभवतः। पूर्वक्षणोत्पन्नशब्दस्य स्थितिः
द्वितीयक्षणे,तत्र शब्दान्तरस्यैवोत्पत्तिः संभवति। सह वृत्तिनोः नाश्यनाशकत्व स्वीकारे प्रतिबध्यप्रतिबन्धकभाववत् दोषो नास्ति। नाशकस्य नाशं प्रति कारणत्वात् तस्य पूर्वक्षणवृत्तित्वमावश्कम्। यत्र शब्दान्तरं नोत्पन्नं तत्र स्वस्यैव नाशकत्वमिति। श्रीदेशिकदासः --- On Wed, 8/2/12, Veeranarayana Pandurangi <veer...@gmail.com> wrote: |
|
|
|
> --
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
> to subscribe go to the link below and put a request
> https://groups.google.com/group/bvparishat/subscribe
> To unsubscribe from this group, send email to
> bvparishat+...@googlegroups.com
>
--
*****
Surendramohan Mishra
Dept of Sanskrit,Pali & Prakrit
Faculty of Indic Studies,Kurukshetra University
KURUKSHETRA-136 119,Haryana,INDIA
Tel : (Off.)01744 238410(extn.)2504
(Mob.)098960 86579;(Res.)01744-238567
Blogs : http://surendrashastram.blogspot.com
http://surendra-shaastram.blogspot.com