षड्विधतात्पर्यलिङ्गानि - The Six-fold determinatory indicatory marks

499 views
Skip to first unread message

V Subrahmanian

unread,
Oct 11, 2012, 1:22:38 PM10/11/12
to A discussion group for Advaita Vedanta
षड्विधतात्पर्यलिङ्गानि
श्रीगुरुभ्यो नमः
पूर्वमीमांसाशास्त्रोक्तषद्विधतात्पर्यलिङ्गानि वेदान्तशास्त्रे एवम् सङ्गृहीतानि  सन्ति -
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति । 

तेन ज्ञायते - उपक्रमोपसंहारौ द्वौ मिलित्वा एकं लिङ्गम्, अभ्यासः, अपूर्वता, फलम्, अर्थवादः, उपपत्तिश्च इति षट् गण्यते इति । श्रीमधुसूदनसरस्वतिपादैः अद्वैतसिद्धौ षण्णां लिङ्गानां अवान्तरव्यवस्था एवमुपदिश्यते - त्रयाणां त्रयाणां इति विभागद्वयं कृत्वा एकैकस्य विभागस्य भिन्नतया प्रयोजनकथनद्वारा विनियोगः इति । तदत्र निरूप्यते ।

अपूर्वत्वम्, उपपत्तिः, फलम्
इति प्रथमो गणः। उपक्रमोपसंहारौ, अभ्यासः, अर्थवाद इति द्वितीयो गणः ।  प्रथमगणे तावत् अपूर्वत्वलिङ्गेन प्रमाणान्तराज्ञातत्वं बोधयति ।  नाम, विचार्यमाणग्रन्थभागे यदालोच्यते तत् अन्यत्रानुपदिष्टं सत् अत्रैव ज्ञायते इति अपूर्वतां भजते   ।     उपपत्तिलिङ्गेन तु युक्तिपुरस्सरस्थापनेन विषयोऽयमबाधित इति सिद्ध्यति । अपूर्वता चोपपत्तिश्च तदैव सार्थकं स्यात् यदा बोध्यमानविषयः निर्दिष्टफलवान् स्यात् ।विशिष्टफलाभावे पूर्वोक्तलिङ्गद्वयमकिञ्चित्करमेव शिष्येत ।एवं प्रथमगणस्य विनियोगः।

कदाचिदिदमपि संभवति यदेकस्मिन् ग्रन्थभागे नैके विषयाः प्रतिपादिताः स्युः, उपपादनमपि दृश्यते फलं च स्पष्टमवगम्यते । तादृशस्थलेषु अस्य ग्रन्थस्य इदमेव तात्पर्यमिति विनिगमनाभावे तन्निर्णयाय उपयुज्यते द्वितीयो गणः । तदा अवशिष्टलिङ्गत्रये एकोऽपि ग्रन्थस्य तात्पर्यनिर्णयायालं भवति । तद्यथा उपक्रमोपसंहारपरामर्शनेन वा अभ्यासपर्यालोचनेन वा अर्थवाददर्शनेन वा अत्रैव तात्पर्यमिति निश्चितुं शक्यते । तेन च प्रकरणि अनन्यशेषतया निर्णयमाप्नोति । अत्रैव शास्त्रोक्तषड्विधतात्पर्य
बोधकलिङ्गस्य प्रयोजनं भवति ।

ओम् तत् सत् 



The Six-fold determinatory indicatory marks

shrIgurubhyo namaH

The six-fold indicatory marks required for ascertaining the purport of a text, spoken of in the pUrva mImAmsA shAstra, is collectively presented in the Vedanta shAstra thus: 

upakramopasaMhArAvabhyAso'apUrvatA phalam
arthavAdopapattI ca lingaM tAtparyanirNaye. 

From this verse we come to know that the six are -
  1. 'the commencement (upakrama) and ending (upasamhAra)' put together is one mark
  2. 'repitition' / reiteration (abhyAsa)
  3. uniqueness (apUrvatA)
  4. fruit or benefit (phalam)
  5. eulogy (arthavAda) and
  6. reasoning (upapattiH)
Sri MadhusUdana Saraswati SwaminaH, in the 'advaita siddhi', has shown a method by which the six marks are grouped into two consisting of three marks each which have distinct applications. This is delineated below.

apUrvatA, upapattiH and phalam constitute the first group.  upakrama-upasamhAra, abhyAsa and arthavAdaH are in the second group.

In the first group, by the apUrvatA mark we come to know that the subject discussed is not known from any other source and is known from this text alone.

upapatti or logically reasoned presentation helps us know that the subject is firmly established without being contradicted/rescinded.

The above two marks become meaningful only if the subject discussed/delineated bears a specific fruit/benefit (phalam).  In the absence of this specific fruit (found mentioned in the text under consideration) the former two marks are rendered redundant. Thus is explained the first group.

It is possible sometimes that a text is seen to discuss several topics and they appear to be supported by reasoned presentation and the benefit too is specified clearly.

In such a situation it becomes impossible to ascertain on firm grounds that such and such is the purport of the text.
Here lies the utility of the second group.

Among the remaining three marks (constituting the second group) even one would be sufficient to determine the purport.  

Thus by noticing the upakrama-upasamhAra mark, or by observing the abhyAsa mark or by discerning the eulogical indicator one can determine the purport of the text.

By this treatment the particular topic discussed in the context of the text becomes determined as not a subsidiary of any other topic but enjoying the status of being the main topic.

[The above is adapted from the talk delivered by the renowned scholar vidwan Dr.Mani Dravid SastrinaH (on a certain aspect of the 'AnandamayAdhikaraNam' of the Brahmasutra bhashyam) at the recent vAkyArtha sadas in the presence of the Sringeri Acharya in Chennai. ]

Om Tat Sat


V Subrahmanian

unread,
Oct 12, 2012, 2:12:06 PM10/12/12
to A discussion group for Advaita Vedanta


2012/10/11 V Subrahmanian <v.subra...@gmail.com>
षड्विधतात्पर्यलिङ्गानि
श्रीगुरुभ्यो नमः
 अत्रैव तात्पर्यमिति निश्चितुं शक्यते ।

अत्र ’ निश्चेतुं ’ इति भवितव्यम् ।
 
तेन च प्रकरणि अनन्यशेषतया निर्णयमाप्नोति ।

अत्रेदं द्रष्टव्यम् - ’प्रकरणि’ इति शब्दोऽयं ’विशेष्यलिघ्नं’ इति जातीयकः, त्रिष्वपि लिङ्गेषु तदनुसारि रूपं भजते,  इति उपदिष्टोऽहं तदत्र सूचितम् । 

भवदीयः
सुब्रह्मण्यशर्मा




Sivasenani Nori

unread,
Oct 12, 2012, 10:47:28 PM10/12/12
to भारतीयविद्वत्परिषत्
नत्वा विदुषः, "पूर्वमीमांसाशास्त्रोक्तषद्विधतात्पर्यलिङ्गानि" इति यानि पठितानि तानि कस्मिन् पूर्वमीमांसाग्रन्थे उक्तानि इत्यस्ति मे जिज्ञासा। तस्या उपशमनाय बहुश्रुतान् पण्डितान् सविनयं प्रार्थयति शिवसेनानीः।

2012/10/11 V Subrahmanian <v.subra...@gmail.com>

V Subrahmanian

unread,
Oct 13, 2012, 1:55:13 AM10/13/12
to sivas...@gmail.com, भारतीयविद्वत्परिषत्


2012/10/13 Sivasenani Nori <sivas...@gmail.com>

नत्वा विदुषः, "पूर्वमीमांसाशास्त्रोक्तषद्विधतात्पर्यलिङ्गानि" इति यानि पठितानि तानि कस्मिन् पूर्वमीमांसाग्रन्थे उक्तानि इत्यस्ति मे जिज्ञासा। तस्या उपशमनाय बहुश्रुतान् पण्डितान् सविनयं प्रार्थयति शिवसेनानीः।

नमांसि

पूर्वं मया उदाहृतश्लोकः पूर्वमीमांसाशास्त्रस्थ एव इति चिन्तितम् । पश्चात् श्रीमणिद्रविडशास्त्रिभिरुक्तं श्लोकोऽयं वेदान्तशास्त्रस्थ एव, लिङ्गानि तु पूर्वमीमांसाशास्त्रे निर्दिष्टानि, न तु श्लोकरूपेण इति । इदमपि तैरुक्तं श्लोकोऽयं तैः प्रप्रथमतया ’तत्त्वदीपन’ग्रन्थे (वेदान्ते) दृष्ट इति । तत्रापि ’एवमुच्यते’ इति निर्दिष्टत्वात् अयं श्लोकः तत्पूर्वतन एव इति ज्ञायत इति ।  मया तु न पृष्टं यत् लिङ्गानि एतानि पूर्वतन्त्रे कस्मिन्ग्रन्थे निर्दिष्टानि इति । अवकाशप्राप्तौ पृष्ट्वा अत्र कथयामि ।

पूर्वतन्त्र शब्दः पूर्वमीमांसाशास्त्रसूचकः शांकरब्रह्मसूत्रभाष्ये प्रयुक्तः ।

भवदीयोऽयं जनः

narayanan er

unread,
Oct 13, 2012, 2:08:29 AM10/13/12
to v.subra...@gmail.com, sivas...@gmail.com, भारतीयविद्वत्परिषत्
भो विद्वांसः शिवसेनान्यः, सुब्रह्मण्यवरेण्याश्च,


सादरं नमस्करोमि। श्रीपरमहंससदानन्दयोगीन्द्रविरचितवेदान्तसारे (sanskritworld.in/wp-content/uploads/2011/06/वेदान्तसार.doc) चर्चितमेतदिति राधाकान्तदेवस्तदीये शब्दकल्पद्रुमेऽपि प्रमाणयति। तद्यथा-लिङ्गानि तु उपक्रमोपसंहारादि। यथा। लिङ्गानि तु उपक्रमोपसंहारावभ्यासापूर्वताफलार्थवादोपपत्याख्यानि। तदुक्तम्-



उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥ इति।


तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपादानं उपक्रमोपसंहारौ। यथा छान्दोग्ये षष्ठे प्रपाठके। प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन एकमेवाद्वितीयमित्यादौ ऐतदात्म्यमिदं सर्वमित्यन्तेन च प्रतिपादनम्॥ १॥ इति।


प्रकरणप्रतिपाद्यस्य वस्तुनः तन्मध्ये पौनःपुन्येन प्रतिपादनम् अभ्यासः। यथा तत्रैवाद्वितीयवस्तुनो मध्ये तत्त्वमसीति
नवकृत्वः प्रतिपादनम्॥ २॥ इति।


प्रकरणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणाविषयीकरणम् अपूर्वत्वम्। यथा। तत्रैवाद्वितीयवस्तुनो मानान्तराविषयीकरणम्॥ ३॥ इति।


फलन्तु- प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम्। यथा। तत्रैव आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्नं विमोक्षे अथ सम्पत्स्ये इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते॥ ४॥ इति।


प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनम् अर्थवादः। यथा तत्रैव उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीयवस्तुप्रशंसनम्॥ ५॥ इति।


प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्ति उपपत्तिः। यथा तत्र यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्। आदावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते॥ ६॥ इति।


इति निवेदयति नारायणः।



From: V Subrahmanian <v.subra...@gmail.com>
To: sivas...@gmail.com
Cc: भारतीयविद्वत्परिषत् <bvpar...@googlegroups.com>
Sent: Saturday, 13 October 2012 11:25 AM
Subject: Re: {भारतीयविद्वत्परिषत्} षड्विधतात्पर्यलिङ्गानि - The Six-fold determinatory indicatory marks

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com


V Subrahmanian

unread,
Oct 13, 2012, 2:19:15 AM10/13/12
to narayanan er, sivas...@gmail.com, भारतीयविद्वत्परिषत्
वेदान्तशास्त्ररीत्या लिङ्गानां प्रतिपादनं तु भवद्भिः प्रदर्शितमत्र । इतोऽपि (सर्वासाम्) दशोपनिषदां एवंरीत्या लिङ्गप्रतिपादनं शांकरभाष्यटीकाकृद्भिरानन्दगिरिभिः स्वीये ग्रन्थे कृतमित्यपि अवगम्यते । परन्तु लिङानामेतेषां मूलं तु पूर्वमीमांसाशास्त्रमिति तत्र कस्मिन्ग्रन्थे दृश्यन्त इति शिवसेनानीमहोदयानां जिज्ञासा ।

सविनयं नमस्कृत्य
.....

2012/10/13 narayanan er <drerna...@yahoo.com>

V Subrahmanian

unread,
Oct 13, 2012, 1:46:31 PM10/13/12
to sivas...@gmail.com, BHARATIYA VIDVAT


2012/10/13 V Subrahmanian <v.subra...@gmail.com>

 विषयेऽस्मिन् इदं वक्तुमिच्छामि -

षड्विवधतात्पर्यलिङ्गानि सर्वाण्यपि पूर्वमीमांसाशास्त्रे तत्सूत्रशाबरभाष्ये विचारितानि उपलभ्यन्ते । नैके स्थले सर्वाणि द्रष्टुं शक्नुमः परन्तु तत्र तत्र ते विद्यन्त एव । तद्यथा अपूर्वता, उपपत्तिः, फलं चैतानि लिङ्गानि ’औत्पत्तिकसूत्रे’ (१.१.५....) एव अर्थतः पठितानि दृश्यन्ते । उपक्रमोपसंहारलिङ्गस्तु ’वैश्वानराधिकरण’ भाष्ये वर्तते । अर्थवादलिङ्गं तु बहुत्र भवति । अभ्यासलिङ्गं तु तच्छास्त्रे भिन्नतया उपयुज्यते यद्यपि वेदान्तशास्त्ररीतिः तैर्न निराकृता ।

rniyengar

unread,
Oct 14, 2012, 1:03:04 AM10/14/12
to भारतीयविद्वत्परिषत्
Dear Sriman VS,
apUrvata is perhaps better explained as 'novel/ unprecedented/ for the
first time,.....'.
In my understanding the word 'unique' gives the sense of 'advitIyam,
Ekaikam, one-without-a-second'.
Please consider.

Thanks
RN Iyengar


On Oct 11, 10:22 pm, V Subrahmanian <v.subrahman...@gmail.com> wrote:
> षड्विधतात्पर्यलिङ्गानि
> श्रीगुरुभ्यो नमः
> पूर्वमीमांसाशास्त्रोक्तषद्विधतात्पर्यलिङ्गानि वेदान्तशास्त्रे एवम्
> सङ्गृहीतानि  सन्ति -
> उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
> अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति ।
>
> तेन ज्ञायते - उपक्रमोपसंहारौ द्वौ मिलित्वा एकं लिङ्गम्, अभ्यासः, अपूर्वता,
> फलम्, अर्थवादः, उपपत्तिश्च इति षट् गण्यते इति । श्रीमधुसूदनसरस्वतिपादैः
> अद्वैतसिद्धौ षण्णां लिङ्गानां अवान्तरव्यवस्था एवमुपदिश्यते - त्रयाणां
> त्रयाणां इति विभागद्वयं कृत्वा एकैकस्य विभागस्य भिन्नतया प्रयोजनकथनद्वारा
> विनियोगः इति । तदत्र निरूप्यते ।
>

> *अपूर्वत्वम्, उपपत्तिः, फलम्* इति प्रथमो गणः।* उपक्रमोपसंहारौ, अभ्यासः,
> अर्थवाद *इति द्वितीयो गणः ।  प्रथमगणे तावत्
> *अपूर्वत्वलिङ्गेन*प्रमाणान्तराज्ञातत्वं बोधयति ।  नाम,


> विचार्यमाणग्रन्थभागे यदालोच्यते तत्

> अन्यत्रानुपदिष्टं सत् अत्रैव ज्ञायते इति अपूर्वतां भजते   ।     *
> उपपत्तिलिङ्गेन* तु युक्तिपुरस्सरस्थापनेन विषयोऽयमबाधित इति सिद्ध्यति ।
> अपूर्वता चोपपत्तिश्च तदैव सार्थकं स्यात् यदा बोध्यमानविषयः *निर्दिष्टफलवान्
> *स्यात् ।विशिष्टफलाभावे पूर्वोक्तलिङ्गद्वयमकिञ्चित्करमेव शिष्येत ।एवं


> प्रथमगणस्य विनियोगः।
>
> कदाचिदिदमपि संभवति यदेकस्मिन् ग्रन्थभागे नैके विषयाः प्रतिपादिताः स्युः,
> उपपादनमपि दृश्यते फलं च स्पष्टमवगम्यते । तादृशस्थलेषु अस्य ग्रन्थस्य इदमेव
> तात्पर्यमिति विनिगमनाभावे तन्निर्णयाय उपयुज्यते द्वितीयो गणः । तदा
> अवशिष्टलिङ्गत्रये एकोऽपि ग्रन्थस्य तात्पर्यनिर्णयायालं भवति । तद्यथा
> उपक्रमोपसंहारपरामर्शनेन वा अभ्यासपर्यालोचनेन वा अर्थवाददर्शनेन वा अत्रैव
> तात्पर्यमिति निश्चितुं शक्यते । तेन च प्रकरणि अनन्यशेषतया निर्णयमाप्नोति ।
> अत्रैव शास्त्रोक्तषड्विधतात्पर्यबोधकलिङ्गस्य प्रयोजनं भवति ।
>
> ओम् तत् सत्
>
> The Six-fold determinatory indicatory marks
>
> shrIgurubhyo namaH
>
> The six-fold indicatory marks required for ascertaining the purport of a
> text, spoken of in the pUrva mImAmsA shAstra, is collectively presented in
> the Vedanta shAstra thus:
>
> upakramopasaMhArAvabhyAso'apUrvatA phalam
> arthavAdopapattI ca lingaM tAtparyanirNaye.
>
> From this verse we come to know that the six are -
>

>    1. 'the commencement (upakrama) and ending (upasamhAra)' put together is
>    one mark
>    2. 'repitition' / reiteration (abhyAsa)
>    3. uniqueness (apUrvatA)
>    4. fruit or benefit (phalam)
>    5. eulogy (arthavAda) and
>    6. reasoning (upapattiH)

Hnbhat B.R.

unread,
Oct 14, 2012, 1:14:55 AM10/14/12
to narayana...@gmail.com, भारतीयविद्वत्परिषत्


2012/10/14 rniyengar <narayana...@gmail.com>

Dear Sriman VS,
apUrvata is perhaps better explained as 'novel/ unprecedented/ for the
first time,.....'.
In my understanding the word 'unique' gives the sense of 'advitIyam,
Ekaikam, one-without-a-second'.
Please consider.

Thanks
RN Iyengar


I think you are right. Subrahmanyan's English translation need not be perfect in all respect.

अपूर्वता of a विधि is an important factor मीमांसा, in deciding the purport of the context. The विधि should not be prescribed in some other context and then only it serves as the main purport of the given context  unprecedented अपूर्व and otherwise it serves as subsidiary अङ्ग for the earlier context.  Only this much is meant by uniqueness used by Subrahmanyam intended for without being secondary to any other context.
 
--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


rniyengar

unread,
Oct 17, 2012, 11:08:59 AM10/17/12
to भारतीयविद्वत्परिषत्
Thanks for your comment on the word 'ekaika'. You are technically
correct. But as you have pointed out, slowly 'yogaat ruudhir-
baliiyasii' seems to be working. It is not only with Tamil but in
Kannada use also it is used in the sense of onde-ondu (only one).
However, had I recollected the use of the word in the subhaashita
yauvanam dhanasampattih prabhutvam avivekitaa|
ekaikam apyanarthaaya kimu yatra catus.t.ayam||
I would have deleted the word 'ekaika' in my original suggestion. I
appreciate your rigour in pointing out a subtle fault!

sincerely,

RN Iyengar

On Oct 16, 7:55 pm, Vidyasankar Sundaresan <svidyasan...@gmail.com>
wrote:
> > >
> However, please note the word ekaika does not typically convey uniqueness.
> It
> properly should be used to mean "one by one," not "only one." It is the
> same as
> the Tamil "on_Ron_RAy" (colloquially oNNoNNA), not "on_Re on_Ru" (oNNE
> oNNu).
>
> The reason I bring this up is that in recent times, I have often seen south
> Indians
> use the word ekaika (mistakenly, in my opinion) when they want a Sanskrit
> word
> for unique, e.g. "ekaika rAga" to describe a musical mode in which we are
> aware
> of only one composition. It is a usage that has become well entrenched in
> today's
> musicological writings from south India. I have brought this up in
> conversation with
> several senior musicologists in Chennai. They agree with me after looking
> at the
> dictionary, but find it difficult to give up what has now become a well
> ingrained habit.
>
> Regards,
> Vidyasankar
>
>
>
> On Sunday, October 14, 2012 1:03:05 AM UTC-4, rniyengar wrote:
> > Dear Sriman VS,
> > apUrvata is perhaps better explained as 'novel/ unprecedented/ for the
> > first time,.....'.
> > In my understanding the word 'unique' gives the sense of 'advitIyam,
> > Ekaikam, one-without-a-second'.
> > Please consider.
>
> > Thanks
> > RN Iyengar- Hide quoted text -
>
> - Show quoted text -

Ramanujan P

unread,
Oct 19, 2012, 12:30:24 AM10/19/12
to svidya...@gmail.com, bvpar...@googlegroups.com

पुरोभागी इति स्यात्, सूक्ष्मेक्षिका वा ।

 

रामानुजः

From: bvpar...@googlegroups.com [mailto:bvpar...@googlegroups.com] On Behalf Of Vidyasankar Sundaresan
Sent: Friday, October 19, 2012 4:30 AM
To: bvpar...@googlegroups.com
Subject: {
भारतीयविद्वत्परिषत्} Re: षड्विधतात्पर्यलिङ्गानि - The Six-fold determinatory indicatory marks

 

 

Dear Sri Iyengar,

 

kshamyatAm, nAham "nitpicky" bhavitum utsahe!

 

It is perhaps my personal take on the state of confusion in contemporary
Indian musciological writing that lead to my comment about the word
ekaika. But musicology is a topic for another discussion.

 

Best regards,

Vidyasankar

 

ps. What would be a good, pithy Sanskrit word for nitpicky?


On Wednesday, October 17, 2012 11:09:02 AM UTC-4, rniyengar wrote:

Thanks for your comment on the word 'ekaika'. You are technically
correct. But as you have pointed out, slowly 'yogaat ruudhir-
baliiyasii' seems to be working. It is not only with Tamil but in
Kannada use also it is used in the sense of onde-ondu (only one).
However, had I recollected the use of the word in the subhaashita
yauvanam dhanasampattih prabhutvam avivekitaa|
ekaikam apyanarthaaya kimu yatra catus.t.ayam||
I would have deleted the word 'ekaika' in my original suggestion. I
appreciate your rigour in pointing out a subtle fault!

sincerely,

RN Iyengar

--

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com


Email secured by Check Point

=


-------------------------------------------------------------------------------------------------------------------------------
This e-mail is for the sole use of the intended recipient(s) and may
contain confidential and privileged information. If you are not the
intended recipient, please contact the sender by reply e-mail and destroy
all copies and the original message. Any unauthorized review, use,
disclosure, dissemination, forwarding, printing or copying of this email
is strictly prohibited and appropriate legal action will be taken.
-------------------------------------------------------------------------------------------------------------------------------

V Subrahmanian

unread,
Oct 19, 2012, 3:24:57 AM10/19/12
to ra...@cdac.in, BHARATIYA VIDVAT

ps. What would be a good, pithy Sanskrit word for nitpicky?

पर्यनुयोगः  - An inquiry with the object of contradicting or refuting a statement. 

rniyengar

unread,
Oct 19, 2012, 8:54:00 AM10/19/12
to भारतीयविद्वत्परिषत्
I am afraid the suggested equivalents for 'nitpicking' are too
respectable! As I understand nitpicking is something like
'chhidraanves.an.am', which was not what Vidyasankar did in my case!
He did a clear welcome 'Teekaa'
Cheers!

RNI

On Oct 19, 12:24 pm, V Subrahmanian <v.subrahman...@gmail.com> wrote:
> ps. What would be a good, pithy Sanskrit word for nitpicky?
>
> पर्यनुयोगः  - An inquiry with the object of contradicting or refuting a
> statement.
>
>
>

> On Fri, Oct 19, 2012 at 10:00 AM, Ramanujan P <r...@cdac.in> wrote:
> >  पुरोभागी इति स्यात्, सूक्ष्मेक्षिका वा ।****
>
> > ** **
>
> > रामानुजः****- Hide quoted text -

Reply all
Reply to author
Forward
0 new messages