नमो विद्वद्भ्यः
माहिष्मती --
मह पूजायाम् - भ्वादिः - महति
टिषच् -’अविमह्योः टिषच्” (उणादिः 1-45) - महिषः --
’ तदस्मिन्नस्त्तीति देशे तन्नाम्नि ’ 4-2-66 इति विषये ’ महिषाच्चेति वक्तव्यम्’ (वार्तिकम् , कौमुदी - कुमुदनडवेतसेभ्यो ड्मतुप् 4-2-87 , चातुरर्थिकेषु ) इति ड्मतुप् -- महिषाः अस्मिन् देशे सन्तीति महिष्मान् देशः ।
डित्वसामर्थ्यात् अभस्यपि टेर्लोपः । स्त्रीत्वविवक्षायां ’उगितश्च ’ 4-1-6 इति ङीप् - महिष्मती -- ’प्रज्ञादिभ्यश्च ’ 5-4-48 प्रज्ञादेराकृतिगणत्वात् स्वार्थे अण् -- माहिष्मती नगरी ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741Skype Id: Subrahmanyam Korada