Bhattacharyaji,
I starting this search only after listening to a discourse against 'Image woship' in which the speaker had quoted 'na tasya pratima asti'. I felt that he has misinterpreted it. Do you know any book which discusses this topic in detail. In my search I found some books that discuss this topic here & there but not in detail.
Are you sure 'pratima svalpabuddhinam' is Krishna's statement? It is not there in the Gita. Is it from Bhagavata?regards
shankara
From: sunil bhattacharjya <skbhatt...@gmail.com>
To: shanka...@yahoo.com
Sent: Friday, 31 May 2013 9:34 PM
Subject: Re: {भारतीयविद्वत्परिषत्} Image worship in the vedas
Have you considered the Yajur Veda statement "na tasya pratima asti" as well as Lord Krishna's statement "Pratima alpabuddhinam"Regards,Sunil KB
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.
न तस्य प्रतिमाsअस्ति यस्य नाम महद्यश: | यजि 32.3 aHe has no statue/ picture of He who is the most glorious of all. Is there any doubt about this interpretation of the above Yajurved mantra?Else where also it is stated in Vedas" यस्य नाम महद्यश: तस्य प्रतिमा नास्ति"Subodh Kumar,
C-61 Ramprasth,
Ghaziabad-201011
Mobile-9810612898Maharshi Dayanand Gosamwardhan Kendra , Delhi-96
Science is belief in the ignorance of Experts- Richard Feynmann
Ayyangarji,
Thank you very much for sharing the reference to Rig Veda mantra supporting 'bimba aradhana'.regards
shankara
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत्।
न तस्य प्रतिमा अस्ति यस्यनाम महद्यश:।। ४-१९ ।।
एनं दिग्देशकालाद्यनवच्छिन्नत्वादाद्यन्तमध्यरहितत्वाच्चाखण्डमनन्तमनवयवमचिन्त्यमव्यपदेशमव्यवहार्यलक्षणमव्यक्तमेकमजन्मानमूर्ध्वमुपरि साकेतादौ वर्तमानमपि स्वर्महस्तपोजनः सत्यनिवासः सकलोऽपि ब्रह्मर्षिसमूहो न परिजग्रभन्न परिष्कृत्य ग्रहीतुं शक्नोति। तिर्यञ्च वक्रं चलन्तमपि न ग्रहीतुं शक्नोति। एवं मध्ये भूर्लोके मध्यतो वा न ग्रहीतुं शक्नोति। ऊर्ध्वं हि साकेतलोकः। तिर्यगन्तरीक्षम्। रविकिरणानां तिर्यगेव दृष्टिगोचरत्वात्। अतएव माघकाव्ये “गतं तिरश्चीनमनूरुसारथेः” (शि.व. १-२)। एवं मध्ये भूर्लोकः। अतिगहनत्वात्पातालस्य चर्चा न हि। अथ सर्वतोग्रहणानर्हत्वेऽपि सादृश्येन ग्रहीतुं शक्यत इत्यत आह नेत्यादि। तस्य परमात्मनः प्रतिमा प्रतिमानं सादृश्यं नास्ति न विद्यते यस्य भगवतो नाम श्रीरामाद्यभिधानं यशः कीर्तिश्च महन्महनीयम्। ‘‘यस्य नाम महद्यश:’’ इति श्रुत्या भगवदवतारवादोऽपि सूचितः। यत्तु “न तस्य प्रतिमा अस्ति” इति मन्त्रेण भगवतो मूर्तिपूजानिषेधं परिकल्पयन्ति तत्तु सन्निपातग्रस्तानां प्रलपितमिव प्रकरणमत्रत्यमनालोचयतां कुमनीषितं न श्रद्धेयम्। अत्रत्य “प्रतिमा”पदं सादृश्यपरम्। अथ प्रतिमाशब्दस्य सादृश्यार्थे किं मानम्। “यस्य नाम महद्यश:” इतीहत्यश्रुतिसकलमेव परमं प्रमाणम्। न खलु शरीररहितस्य नामयशसी महती भवतः। “सर्वतः पाणिपादं तत्” (श्वे.उ. ३-१६)। ननु “अपाणिपादो जवनो ग्रहीता” (श्वे.उ. ३-१९) इत्यादि श्रुतौ भगवतो रूपराहित्यमस्तीति चेत्। मैवम्। तत्र “अनपेक्ष्य पाणिपादः” इति व्याख्यानेनादोषात्। वस्तुतस्त्वेनमूर्ध्वं साकेतादौ श्रीरामादिरूपं तिर्यञ्च तिर्यग्गमनं मत्स्याद्यवतारं मध्ये मानुषे लोके समागतं श्रीरामकृष्णान्यतरं न परिजग्रभन्न कोऽपि परिश्रान्तोऽपि ग्रहीतुं शक्नोति।
(श्वेताश्वतरोपनिषदि श्रीराघवकृपाभाष्ये ४-१९)Adi Sankara's comment on the same verse of Svetasvatara U. is as attached. May be you will like to compare the two comments.Namaste,
Mishraji,
It is clear now. Thank you very much for explaining it and for extracts from JP Mishra's commentary.You have quoted several srutis in support of image worship. What is their source? I would like to know their location in the Vedas.

Men of small intelligence worship the demigods, and their fruits are limited and temporary. Those who worship the demigods go to the planets of the demigods, but My devotees ultimately reach My supreme planet.
On the other hand, I could find a whole chapter in Srimad Bhagavat, Canto 11, Chapter 27, where Lord Krishna describes the process of Deity worship to Uddhava (http://vedabase.net/sb/11/27/1/en)
And relating to the exact point, the verse 11.27.15 states
dravyaiḥ prasiddhair mad-yāgaḥ
pratimādiṣv amāyinaḥ
One should worship Me in My Deity forms by offering the most excellent paraphernalia. But a devotee completely freed from material desire may worship Me with whatever he is able to obtain, and may even worship Me within his heart with mental paraphernalia.
Please note that it doesn't say that only a neophyte class of people performs deity worship but it says that an elite (highly advanced) class of people may even worship Him within their heart with mental paraphernelia.
Thank you very much.
Regards
Pawan
Satyanarayana Dasa
Jiva Institute of Vaishnava Studies
380 Sheetal Chaya
Raman Reti, Vrindavan
UP 281121, India
Phone: *91-9756605055
For this word shankaracharya comments: पूजयेत्पादप्रक्षालनशुश्रूषास्कारादिभिः....
देवतानां विग्रहादिवत्व समर्थनम् । तैत्तिरीयशाखायां अग्ने यष्टरिदं नम इति श्रूयते। अग्ने,यष्टः- यागनिर्वर्तक,तुभ्यमिदं नमः, अर्थात् अयमञ्जलिः त्वां प्रीणयितुं क्रियत इति। अस्य मन्त्रस्य ब्राह्मणभागे च अग्निर्वै देवानां यष्टेति श्रूयते। तथाच मन्त्रब्राह्मणयोः अग्निदेवताया यागेSधिकारः प्रतीयते। परन्तु मीमांसका नाङ्गीकुर्वन्ति। तैः इत्थं निर्णयः कृतः। तथाहि, देवः प्रयोजकोपूर्वंवाच्योस्य फलदत्वतः। न विधेये गुणोह्येषोपूर्वस्य फलितोचिता।। अर्थात् आग्नेयोष्टाकपाल इत्यादि सर्वक्रमसु मन्त्रतन्त्ररूपाणामनुष्ठेयानां अङ्गानां अग्न्यादिदेवः प्रयोजकः, यागेन पूजितानां देवतानां फलप्रदत्वात्। देवतानां फलप्रदत्वं च मन्त्रार्थवादप्रभृतिभ्यो विग्रहादिपञ्चकादवगन्तुं शक्यते। विग्रहादिपञ्चकं च विग्रहो हविरादानं तद्भोजनं तृप्तिः प्रसाद इति। सहस्राक्षो गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविणं दधातु इति मन्त्रेण विग्रहवत्वं प्रतीयते। अग्निरिदं हविरजुषत इति हविस्स्वीकारः प्रतीयते। अद्धीन्द्र प्रस्थितेमा हवींषि इति हविर्भोजनं, तृप्त एवैनमिन्द्रः प्रजयापशुभिस्तर्पयति इति तृप्तिः प्रसादश्च प्रतीयत इति विग्रहादिवत्वात् देवतायाः फलप्रदत्वेन यागे प्राधान्यात् अङ्गानां प्रयोजकत्वमपि तस्यैवेति साधने मीमांसका आक्षिपन्ति यत्, 1देवतानां फलप्रदत्वेन प्राधान्यं शब्दादापाद्यत उत वस्तुसामर्थ्यात्, नाद्यः, स्वर्गकामो यजेतेत्यत्र विधेयस्य यागस्यैव फलप्रदत्वेनावगमात्। सिद्धस्य विधिर्नभवति, द्रव्यदेवतयोस्सिद्धत्वात् तयोः विध्यनर्हत्वात्। यथा सिद्धस्य द्रव्यस्य विधेयं-यागं प्रति गुणत्वं तथैव देवताया अपि गुणत्वमेव, न प्राधान्यं।यागस्य कालान्तरभाविफलं प्रति व्यवहितत्वे देवतायाः ततोपि व्यवहितत्वात् अपूर्वस्यैव फलप्रदत्वं. अपूर्वस्य च श्रुतार्थापत्या प्रतीयमानत्वात् शाब्दं फलप्रदत्वं तस्यैव न देवतायाः। न द्वितीयः पक्षः, विग्रहादिप्रतिपादकमन्त्रार्थवादयोः स्वार्थे तात्पर्याभावात्। अतएव वनस्पतिभ्यस्स्वाहा मूलेभ्यस्स्वाहेति उपपद्यते। अन्यथा तेषामपि देवत्वं विग्रहादिवत्वं कल्प्येत। प्रत्यक्षविरोधात् च तथा कल्पनं न संभवति। 2,विना कर्मणा विग्रहादिमद्देवतावादिनापि फलं नाङ्गीक्रियते। तथाच प्राप्ताप्राप्तविवेकेनोभयवादिसिद्धस्य यागस्यैव फलप्रदत्वमिति सिद्धम्। देवताया अभावेपि मातापितृशुश्रूषादिवत्फलं भवति। विग्रहादिवत्वमपि न संभवति, तथासति 1,एकदा बहुषुस्थलेषु गमनं न संभवति, गमनाभावे विग्रहेण किं प्रयेजनं, अत इन्द्र आगच्छ इत्यादीनां इन्द्रादि शब्दसान्निध्यपरत्वमेव। 2,विग्रहस्यनाशे वैदिकानामिन्द्रादिशब्दानामभिधेयाभात् वेदस्य प्रामाण्यं न स्यात्। 3,विग्रहादिवत्वे ऋत्विगिव कर्मण्युपलभ्येत। नोपलभ्यते। यस्मान्नोपलभ्यते तस्मान्नास्ति। 4,मध्वादिष्वसंभवादनधिकारं जैमिनिरिति सूत्रेणदेवानामनधिकाऱपक्षः जैमिनिमुनेरभिमत इति प्रसिद्धः।यथा असौ वा आदित्यो देवमधु इत्यत्र न आदित्यो नाम कश्चिच्चेतनो विग्रहवान् देवः प्रतीयते, किन्तु परिदृश्यमाने ज्योतिर्मण्डले प्रयोगः तद्वदेवाग्निरित्यत्रापि। 5,यदुक्तं मन्त्रार्थवादेषु विग्रहादिवत्वं प्रतीयत इति, तन्न,लोके विनापिबाह्यवस्तुना शब्दात् कश्चिदाकारविशेषः प्रतिभासते। .यथा मृगतृष्णांभसि स्नातः खपुष्पकृतशेखरः। एषवन्ध्यासुतो याति शशशृभ्गधनुर्धऱ इत्यादि, तथैव देवताविग्रहप्रतिपादकवाक्येषु। तस्मात् अग्निर्वै देवाना यष्टेत्यादि वाक्यात् देवानां यागेधिकारो न संभवति इति। विग्रहादिवत्वं समर्थ्यते। देहाद्यभावे प्रमाणाभावः कारणं, उत बाधकसद्भावः, ।नाद्यः, विग्रहवत्वे मन्त्रार्थवादेतिहासपुराण योगिप्रत्यक्ष लोकप्रसिद्धीनां प्रमाणत्वात्। 1, मन्त्रः -देवोवस्सविता प्रार्पयतु, रुद्रस्य हेतिः परि वो वृणक्तु। 2, अर्थवादः- देवासुरास्संय्यत्ता आसन्। इतिहासः.- भारतादिः, पुराणं – विष्णुपुराणादि, लोके च ऋषिर्लिख्यते चेत् श्मश्रादियुक्तो लिख्यते। तथाच प्रामाणसद्भावात् देहाद्यभावो वक्तुं शक्यते। न च मन्त्रार्थवादयोः वज्रहस्तःपुरन्दर इत्यादि वाक्यात् प्राप्तं देवतानां विग्रहायुधभूषणविभवादिकं निखिलं मिथ्या, तेषां कर्मानुष्ठानप्रोत्साहनार्थ प्रशंसामात्रततया तत्र तात्पर्यस्यानावश्यकत्वात् स्वार्थे तात्पर्यं नास्तीति पूर्वमेव प्रतिपादितमिति वाच्यम्। तेषामंशानां बाधितत्वस्य वा तत्प्रतिपादकवाक्यानां दोषमूलकत्वस्य वा भ्रान्तपुरुषानुवादकत्वस्य वा अस्वीकारात्। बाधादि दोषस्यान्यस्यचाभावे वेदे तज्ज्ञाने स्वतःप्रामाण्यस्य स्वीकारात्। तस्मात् बोधात्मकत्वेऩ प्राप्ता बुद्धेः प्रमाणता।अर्थान्यथात्वहेतूत्थ दोषज्ञानादपोद्यते। यतः स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्। बाधकारण दुष्टत्वबोधाभ्यां तदपोद्यते।। तस्मादुपलम्भायोग्ये विग्रहादिविषये बास्य दुर्वचत्वात् वेदस्य सर्वस्य निर्दुष्टत्वात् तदंशेपि प्रामाण्यं स्थितमेव। न च तत्र तात्पर्याभाव इत्यत्रैव प्रमाणाभावात्। अविद्यमानस्य कथनेनापि प्ररोचऩा जायत इति विद्यमाऩकथनेन प्ररोचना न जायत इत्यभावेन स्वतःप्रामाण्यत्यागायोगात्। अविद्यमानत्वेन ज्ञाते प्ररोचनाभङ्गश्च। विधिबलादेव प्रवर्तत इति चेन्न, तदा अर्थवाद एव व्यर्थस्स्यात्। अर्थवादादिरूपाणां वाक्यानां स्तुतिबोधकत्वं द्विधा भवति, प्रथमं स्वस्य यो वास्तवो गुणादिः तद्बोधनद्वारकं अन्यच्च स्वापेक्षयोत्कृष्टवस्तुगतगुणाद्यारोपविधया च। तस्मात् सर्वथासंबद्धकथनस्य प्ररोचना न भवति। तादृशी च बालतुल्ये एवस्यात्, न तु अमुग्धे।अपिच गुणिनिष्ठगुणाभिधानं स्तोत्रमिति स्तोत्रलक्षणं स्वीकृतम्। न तु अगुणे गुणारोपः स्तुतिरति। लौकिकार्थरूपाग्नेः विद्यमान दाहशक्तिमादाय केनचित् स्तुतौ कृतायां नेयं स्तुतिः सेचनगुणस्य जलगतस्यात्रारोप एव स्तुतिरिति लोके अदृष्टपूर्वत्वात्। अतएव स्तोत्रं नाम किमामनन्ति मुनयो यद्यन्यदीयान् गुणान्, अन्यत्रत्वसतोधिरोप्य फणितिः सा तर्हि वन्ध्या त्वयि। सम्यक् सत्यगुणाभिवर्णनमथो ब्रूयुः इति महालक्षमी विषयक स्तोत्रे श्री कूरेशैरपि प्रतिपादितम्। न च मन्त्रार्थवादयोः स्वार्थे तात्पर्यस्वीकारे वनस्पतिभ्यस्स्वाहा इत्यादि मन्त्रेष्वपि देवत्वं विग्रहादिवत्वं कल्पनीयं स्यादिति वाच्यम् । इष्टापत्तेः। तादृसस्थलेषु तत्तभिमानि देवतानां विग्रहयुक्तानां स्वीकारे दोषाभावात्।अतएव तं पृथिव्यब्रवीत्इत्यादि स्थले अचेतनरूपायाः पृथिव्या वाग्व्यापारास्य बाधात् अभिमानि व्यपदेशस्तु विशेषानुगतिभ्यां इति सूत्रितं व्यासाचार्यैः.। नचैवमपि मृगतृष्णिका खपुष्पादिषु वनस्पत्यादिष्विव देवताभ्युपगमः प्रसज्येतेति वाच्यम्। तथा वेदस्याभावात्।यदि स्यात् प्रमाणमेव स्यात्। तस्माद्यज्ञेसौ अवध इति कथने केचन नास्तिकाः पृच्छन्ति यत् यदि यागे पशोः आलम्बनं हिंसारूपं नास्ति किन्तु पशोरपि न व उ वेतन्म्रियसे न रिष्यसि. देवान् इदेषि पथिभिस्सुगेभिः इति मन्त्रानुसारं स्वर्गप्राप्तिरूपहितमेव भवतीति चेत् तदानीं अजापुत्रं विहाय स्वपितुरेव आलम्बनेन उभयोरपि स्वर्गप्राप्तिस्भवे कुतस्तथा न क्रियत इति, तत्रापि इदमेव समाधानं भवति यत् वेदे तादृशवाक्याभावात् न तथा कुर्वन्ति. यदि वाक्यं दर्शयिष्यसि तदाभ्युपगच्छाम इति। अतः प्रमाणसद्भावात् देवतानां विग्रहादयस्सन्ति। बाधकत्वेन ये हेतव उपन्यस्ताः तेषामपि समाधानं वक्तुं शक्यते। 3,इन्द्रादीनां युगपत्कर्म सन्निधिः संभवति। सौभर्यादि महर्षिभ्योप्यतिशयितशक्तयः इन्द्रादिदेवाः।तेषां अनेकदेहपरिग्रहसामर्थ्य संभवात् युगपदेव सर्वकर्मस्थले सन्निधानं संभवति। अतो नानुष्ठान विरोधः। 4, न चानुष्ठानविरोधे परिहृतेपि तेषां सदेहत्वे वैदिकशब्दविरोधस्स्यात्। ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्त इत्यादिना इन्द्रादीनामुत्पत्तेः स्वीकार्यतया नित्ये वेदे स्थिता इन्द्रादिशब्दाः तेषामुत्पत्तेः प्राक् अर्थशून्यास्स्युः। एवं तेषां नाशादूर्ध्वमपि। एवमिन्द्रोत्पत्तेः पूर्वं वज्रमुदयच्छदिति वाक्यार्थो बाधितस्स्यात्। तस्य तत्पच्शात्कालीनत्वे वेदस्यानादित्वं निर्दोषत्वं च न स्यात्। तस्मादनित्यार्थयोगरूपदोषो भवतीति वाच्यम्। यथा व्रीहियवाद्यनन्तानित्यार्थबोधकत्वेपि वेदस्यानित्यसंयोगाभावः प्रवाहानादित्वं स्वीकृत्य साध्यते तथैव इन्द्रादीनामेकैकव्यक्तित्वाभावात् प्रवाबतः पारम्पर्येण स्थितत्वात् तत्तत्स्थाने तदपगमे तन्नामानोन्ये समायान्ति। 5,नोपलभ्यत इति नास्तीति वक्तुं शक्यं। तेषामदर्शने बहूनि कारणानि सन्ति। सांख्याः कानिचन कारणानि वदन्ति ।अतिदूरात् सामीप्यात् इन्द्रियघातानमनोनवस्थानात्। सौक्ष्म्यात् व्यवधानाभिभवात् समनाभिधाराच्च । इतोप्यधिकं उक्तं, श्रीवेदान्तदेशिकैः सौक्ष्म्यात्तुल्याभिघारात् सहकृदपगमात् छादकादान्यपर्यात् अत्यासत्यादिदूरात् बलवदभिभवानुद्भवाक्षोपघातात्। नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणाः तद्वदन्तर्धिशक्तेः इति. 1, सौक्ष्म्यात्- परमाणूनामनुपलब्धिः, 2. तुल्याभिघारात्- तैलसिक्तस्य तैलबिन्दोरनुपलब्धिः।3,सहकारिकारणाभावात्- अन्धकरवर्तिलो घटस्यानुपलब्धिः,4, छादकात्- पटावृतानां पदार्थानामनुपलब्धिः। 5.आन्यपर्यात्-व्यासक्तहृदयस्याग्रतस्थितानामपि पदार्थानामनुपलब्धिः, 6, अत्यासत्या- स्वनयनगतस्य अ़ञ्जनस्य, 7, अतिदूरात्- देशान्तरगतस्यानुपलब्धिः।8. बलवदभिभवात्.- मध्यन्दिनोल्काप्रकाशस्य.9,अनुद्भवात्- अनुद्भूतरूप चाक्षुषरूपादेः,10, अक्षोबाधात् –रुग्ननयनस्य पुरोवस्थितनस्तुनोनुपलब्धिः।11. एवं अग्नीन्द्रादि देवाताः अन्तर्धनशक्त्या नोपलभ्यन्ते. । तथाच बाधकाभावात् सन्त्येव देवतानां विग्रहादयः। एवं अर्थित्वसत्वात् यागेधिकारोप्यस्ति। स्वस्वपदस्य प्राप्तत्वेपि फलान्तरहेतौ तत्संभवात्। तेषां संकल्पादेव तत्सिद्धेः न यागादौ प्रवृत्तिरिति चेन्न, संकल्प इव यागादवपिप्रयाससाध्यत्वाभावात् प्रवृत्तिसंभवात्।नक्षत्रेष्टौ यजमानो देवताचेत्युभयमेकेनैव शब्देन व्यवहृतम्। अग्निर्वा अकामयत। अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरपत् इति।तस्मादर्थिनो देवाः यागादिषु प्रवर्तेरऩ्। अधिकारश्चातुर्विध्येनोच्यते।अर्थः, समर्थः, विद्वान्, शास्त्रेणापर्युदस्य़ः इति।, देवतानां यागादिषु अधिकारनिषेधो न दृश्यते शूद्रादूनामिव। शूद्रादीनामनधिकारः स्पष्टः, तस्मात् शूद्रो यज्ञेनवकलृप्त इति। तद्वन्नाधिकार निषेधो देवतानां, प्रत्युत देवा वै यद्यज्ञेकुर्वत तदसुरा अकुर्वतेत्येव श्रूयते। एवं प्रजापतिकर्तृके यागे देवतान्तराणामार्त्विज्यमपि श्रूयते। न च आर्त्विज्यं विप्रस्यैव, तदुक्तं, आर्त्विज्यं किं त्रैवर्णिकस्थं विप्रगाम्येव वाग्रिमः। विद्यावत्वान्न तद्युक्तं ब्राह्मणस्यैव तत्स्मृतेः।प्रतिग्रहोघिको विप्रे याजनाध्यापने तथा।। इति वाच्यम्। तत्र क्षत्रियादीनामेवार्त्विज्य निषेधात्। न तु देवतानाम्। अन्यथा मन्त्रब्राह्मणविरोधस्स्यात्.। तत्र हि पृथिवी होता ,अग्निर्होता. अश्विनौ हि देवानामध्वर्यू आस्ताम् इत्यादि श्रवणात्। तस्माद्देवानां यागाधिकारे दोषाभावात् अग्निर्वौ देवानां यष्टेत्यादि युज्यत एव न दोषः एवं देवादीनामर्थित्वसामर्थ्य योगात् ब्रह्मविद्यायामपि अधिकारोस्तीति तदुपर्यपि बादरायणस्संभवादिति व्याससूत्रम्। स्वस्वपदस्य प्राप्तत्वेपि कालान्तरेपि तत्प्राप्त्यर्थमुपासना संभवतीति भावं तु बादरायणो अस्ति हि इति सिद्धान्तितम्। तथाच देवतानां विग्रहादिवत्व समर्थनेन वेदस्य क्वचित् स्वार्थे तात्पर्यं नास्तीति प्रवादस्य निषेधात् सर्वस्यापि वेदस्य प्रामाण्यमपि समर्थितं भवति। ------------------- श्रीदेशिकप्रियः --- On Mon, 3/6/13, Dr. P. Ramanujan <ra...@cdac.in> wrote: |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|