--------- Vidvan Ramana Murthy
The अष्टाध्यायीसूत्रपाठ runs like this --
सार्वधातुके यक्
कर्तरि शप्
दिवादिभ्यः श्यन्
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
यसो’नुपसर्गात्
संयसश्च
स्वादिभ्यः श्नुः
अक्षो’न्यतरस्याम्
तनूकरणे तक्षः (3/1/67-75)
शप् is सामान्यविहित -- श्यन् , श्नु , श्लु etc are शबपवादाः ।
Some argued -- न च श्रुधातुः स्वादावेव पाठ्य इति वाच्यम् - यङ्लुगर्थत्वात् । तेन यङ्लुकि शृणोति इत्येव ।
नागेश refutes -- तन्न । ’शबादेशाः श्यनादयः ’ इति भाष्योक्तपक्षान्तरे स्थानिवद्भावेन शप्त्वात् तस्य लुकि
सन्नियोगशिष्टन्यायेन आदेशनिवृत्तौ उक्तरूपस्य दुर्लभत्वात् । तस्मात् पक्षान्तरे’पि साहचर्येण एषां यङ्लुकि
अप्रवृत्तिरेव स्वीकर्तुमुचिता । स्वादौ अपाठस्तु गणकार्यानित्यत्वबोधनायैव इति दिक् । ( बृहच्छब्देन्दुशेखरे)
In लघुश्ब्देन्दुशेखर , he does not say - गणकार्यमनित्यम् and in परिभाषेन्दशेखर also he does not
accept the same as it is not said in महाभाष्यम् and in तनादिकृञ्भ्य उः , कृञ्ग्रहणम् is प्रत्याख्यात
by भाष्यकार ।
गणकार्यमनित्यम् (परिभाषा) - is accepted by पुरुषोत्तमदेव , सीरदेव ।
भट्टोजिदीक्षित also accepts this परिभाषा under तनादिकृञ्भ्य उः (कौमुदी) --
तनादित्वादेव सिद्धे कृञ्ग्रहणम् गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तम् - इत्यादि सिद्धम् ।
विश्वसेत् - इत्यत्र अदादिगणकार्यम् - शब्लुक् न भवतीत्यर्थः ।
For नागेश - विस्वसेत् is an अपशब्द ।
Similarly - भ्वादिपाठ of श्रु श्रवणे is to suggest - गणकार्यमनित्यम् ।
तत्त्वबोधिनी also says -- इत्याहुः ( आहुः denotes अरुचि )
इङ्गितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायो गम्यते - महाभाष्यम् ।
In my view there are some self contradictory statements in Nagesa's works -- example -
पाणिनेस्तु अव्युत्पत्तिपक्ष एव ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)Skype Id: Subrahmanyam Korada