मान्यविद्वत्प्रवरॆभ्य: श्रीमद्ब्य: रामानुजन् महाभागेभ्य: प्रणामा:।
भवद्भिरुक्तविशॆषयुक्त: कोऽपि ग्रन्थ: विद्यतॆ वा इति मया बहुधाऽन्विष्यते।
मम विविधव्याखातॄणां व्याख्याविशॆषॊपेता:, विविधभाषानुवादॊपेताश्च पातञ्जलयॊगसूत्रप्रतय:
विद्यन्ते मदीयॆ वैयक्तिकग्रन्थागारे।
तासां प्रतीनामनुशीलनानन्तरं, तथा भवतां द्वितीयलेखगतविशॆषाणां च परिशीलनानन्तरं मन्मनसि समुत्पन्नानां विचाराणामुपस्थापनमत्र प्रयॊजनलॆशं वा साधयॆयुरिति धियाऽत्र प्रस्तौमि।
ता: सर्वाऽपि प्रतय: (मत्सकाशे विद्यमाना:) यथोक्तं भवद्भि: पञ्चोनद्विशतसूत्रयुक्ता: एव सन्ति।
परन्तु अध्यायविभागविषये तु कश्चन भेद: दृश्यते।
ता: सर्वा अपि प्रतय: १. समाधिपाद: (५१ सूत्रयुक्त:), साधनपाद: (५५ सूत्रयुक्त:), विभूतिपाद: (५५ सूत्रयुक्त:), कैवल्यपाद:(३४) सूत्रयुक्त: इति पादाख्यया विषयविभागेन समलङ्कृतम् पातञ्जलयॊगसूत्रम् इति अभिप्रायमॆव समर्थयन्ति।
अत्र पादव्यवस्था एव सर्वत्राङ्गीकृता "अध्याय" नामग्रहणं तु कुत्रापि न विद्यते। (एकाध्यायात्मक: ग्रन्थ: इति कथनापेक्षया पादचतुष्टययुक्त: इति ग्रहणे औचित्यम् भवेदिति मे काचिद् आशा।)
अथ भवद्भि: प्रस्तूयमान ४१० सूत्रयुक्तग्रन्थविषयॆ मम विचार: एवं वर्तते।
पञ्चोनद्विशतसूत्रयुक्तम् पातञ्जलयॊगसूत्रमूलग्रन्थकलॆवरमेव स्वीकृत्य केनचित् व्याख्याकारेण वा अथवा केनचित् विदुषा वा प्राथमिकस्तरीयाणां अध्येतॄणां सुखावबोधार्थं ४१० सूत्रॆषु विस्तरॆण कथितवन्तस्स्यु:।
निशितपरिशीलनॆ इयं संभावना स्फुरति मे यथा-
इति भवन्त: यत् सूत्रत्रयरूपेण उदाहृतवन्त: तत् सूत्रत्रयम् "अथ यॊगानुशासनम्" इति प्रथमसूत्रस्य रूपविस्तृतिरॆव।