अथर्व वेद परिशिष्ट
(११,३.८ ) त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
(२०,१२६.७ ) भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥
(३०,१.४) अभस्मास्थ्यङ्गारतूषा प्रशस्ता परिकीर्तिता । प्रमाणं बाहुमात्रं तु जङ्घामात्रं द्विरत्निकम् ॥
(३५,१.१३) गतासुमांसं तस्यैव निर्माल्यं चितिभस्म च । एषां चूर्णेन संस्पृष्टो हास्यशीलोऽभिजायते ॥
(३६,२३.१) दुग्धाक्तान् सर्षपान् हुत्वा तस्माद्भस्म मुखे क्षिपेत् । सर्वेषु व्यवहारेषु स भवत्यपराजितः ॥
(३६,२५.४) इति ब्रुवत्यः सर्वास्ता यत्र होमः कृतो भवेत् । तद्भस्मना तु संस्पृष्टाश्छागल्यः सुप्रभावतः ॥
(३७,७.१) केशकीटावपन्ना चेच्छंभुवाय स्वाहेति भस्मनि हुत्वा हविरुत्पूयान्यां जुहुयात्सा तत्र प्रायश्चित्तिः ॥
(४०,१.९) भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्
(४०,३.९) व्रतेन त्वमित्युभयीरुहमिति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥
(४०,४.१) भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातोऽभूत्पूत आत्मना ॥
(४०,४.२) भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्यहं येन स्नातो महेश्वरः ॥
(४०,४.५) स्नातोऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानमुत्तमम् । तेन स्नानेन स्नाम्यहं येन स्नातो महेश्वरः ॥
(४०,५.३) भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥
(४०,५.४) वाचा तु यत्कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश्चापद्दुःस्वप्नं भस्मना तत्प्रणश्यतु ॥
(४०,५.५) मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तोऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्यहम् ॥
(५१,४.५) महिषकवृषभाः सभस्मपौण्ड्राः कृषिपशुपाल्यरताश्च ये मनुष्याः । विविधभयसमाहितास्तु सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥
(६८,५.१०) महीभस्मप्रदिग्धाङ्गो निरावरण एव च । समस्यानां सजातानामुत्सवानां च दर्शनम् ॥
(७२,१.६) हासे भासे नादे शब्दे वासने च वैश्वानरेऽप्रज्वलितेऽन्तरिक्षे भस्मास्थ्यश्माङ्गारा वीथी चेन्द्रधनुषि रात्रौ वीध्र एव तु ॥
गोपथ ब्राह्मण
(१,३.१३ ) सभस्मकमाहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचोऽङ्गारानुद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्
(२,४.६ ) ता आहवनीयस्य भस्मान्ते निवपन्ति