कथा-कौमुदी - संस्कृतप्रसारे यूनां कश्चित् नवोद्यमः

27 views
Skip to first unread message

Jayaraman M

unread,
Jan 22, 2022, 11:37:58 PM1/22/22
to भारतीयविद्वत्परिषत्
प्रणामाः

कथा-कौमुदी इत्येषः कार्यक्रमः संस्कृत-प्रेमिभिः युवभिः सञ्चाल्यमानः संस्कृतभारत्याः (उत्तर-तमिल्नाडु) परतः।

अत्र संस्कृतेन मयानूदितानां प्रसिद्धतमिल्-लेखकस्य कल्कि-कृष्णमूर्ति-वर्यस्य लघुकथानां पठनं प्रवर्तते।

(कल्कि-कथा-मञ्जरी इत्यस्मात् सद्यः प्रकाशितात् ग्रन्थात् कथानां पठनं क्रियते - https://www.samskritaseva.com/product/kalki-katha-manjari/)

प्रतिशनिवासरं रात्रौ ९ वादनात् अर्धघण्टां यावत् अयं कार्यक्रमः प्रवर्तते।

एतावता तिस्रः कथाः पठिताः। ताः अत्र श्रोतुं शक्यन्ते - https://www.youtube.com/playlist?list=PLeekKlFhA7jSWgeiKR5HUOFeaNx8mEnQF

संस्कृते यूनां प्रयत्नस्यास्य प्रोत्साहनं कुर्वन्तु, कथाः शृण्वन्तु, अग्रे च वार्तामिमां सारयन्तु इति प्रार्थना।

सादरम्
म.जयरामः

Director, Division of Textual Research in Yoga, Indic Academy 
Member, Task Force, Traditional Knowledge Digital Library-CSIR, Govt of India 
Member, Governing Board, Kalakshetra Foundation
Member, Board of Studies, Department of Yoga and Alternative Therapy, Kavikulaguru Kalidasa Sanskrit University, Nagpur
Member, Editorial Board, Standard Publicity, Publication And Public Relations Committee,  Indian Yoga Association
Member, BoS, Dept of Sanskrit, University of Madras & RKM Vivekananda College, Chennai


Reply all
Reply to author
Forward
0 new messages