जैमिनीय-गान-ग्रन्थ+अन्वेषणम्

63 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 23, 2018, 3:19:43 PM4/23/18
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्
श्रीः।

जैमिनीयानि कानिचिद् गानानि शिक्षतो मम गृहाभ्यासार्थं लिखितप्रतय इष्यन्ते। किञ्च यत्किमप्येतावदन्तर्जाले लंब्धं तन्मदध्यापकस्य पाठेन (AASHEERVACHANA SAAMAANI) न सङ्गच्छति। भवत्सु ज्ञातारो ऽनुगृह्णन्तु।

जैमिनीयशाखायासम्बद्धानि यानिकान्यपि मदपरिचितान्य् अन्तर्जालसुलभपुस्तकानि सदयं प्रेषणीयानि।

मयैतावदेतल्लब्धम् -
  • संहिता + ऋचाम्
    • आर्कैव्य् अत्र सङ्ख्याचिह्नैश् च।
      • निर्देशाः -
        • दक्षिणपृष्ठेषु - प्रपाठकः / काण्डम् [प्रपाठकार्धः] दशतिः मन्त्रः।
        • वामपृष्ठेषु - अध्यायः/ काण्डम् खण्डम् मन्त्रः।
        • अनुक्रमणिकायाम् - ? प्रपाठकः प्रपाठकार्धः दशतिः मन्त्रः।
        • प्रत्येकस्य ऋचः सङ्ख्या भिन्ना दत्ता।
  • सामगानम्
    • केरलेभ्यो लब्धः कश्चन भाग आर्कैव्य् अत्र।
    • द्राविडान्ध्रकसम्प्रदायः कश्चन - अत्र। (२०१८- तत्पुत्रो यद्यपि गानानि जानाति मुखेन गीतुं, न हि स पुस्तकचिह्नान्य् अधिगच्छति। )
  • ब्राह्मणम्
  • आरण्यकम्
  • उपनिषद् अत्र


--
--
Vishvas /विश्वासः

Shrivathsa B

unread,
Apr 23, 2018, 4:32:08 PM4/23/18
to BHARATIYA VIDVAT
hariH OM,

   I don't know the structure of jaiminiiya. But in kauthuma, we have pUrva and uttrArcikas. The reason you may not be able to locate the saamans you need may be because they are in the uttarArcika. As far as I can see the kashi version you have put up ends with pavamaana kaaNDaH, hence it is not fully puurvaarcika either if we go by kauthuma structure. I am guessing because I know nothing about jaiminiiya and know a little about kauthuma.

   Please ask your AcArya if the whole samhitaa has been published. If not, that may be a need someone may have to fill.

   Even a stop gap solution is complicated. That is because the svara notations are represented differently in published books of kauthuma and jaiminiiya. The kAshii edition has only paaribhaaShika svaras, whereas kauthuma follows long form. And your AcArya may have seen only paaribhaaShika.

   Anyway... This is what you will have to do.
1. Take the equivalent saamans from kauthuma. You will get them in the pUrvaprayoga book published by drAhyAyaNapratiShThaana, an org run by my AcArya in Bangalore.
2. Change them to paaribhaaShika svaras (you will find a table in sAmavedaparicaya book published by the same pratiShThaana).
3. Take them to your AcArya and ensure that the svaras are alright by asking him to chant as per the svaras as given by you as per kauthuma. If not, he has to correct them (he only has to do this). It may turn out that there are variations from kauthuma. He has to give the final form.
4. Publish the final form as the most authentic saaman under the circumstances imposed upon us by kaala.
5. Another way of circumventing all this trouble may be to locate manuscripts of the whole saMhitA from somewhere and publish them.

   I wish you all the best in this and promise to be with you in this tedious task. I think the kauthumas have an advantage because of the saMhitA completely being published long ago.

svasti,
      bhavānībhāratī jayatetamām,
                                                   śrīvatsaḥ.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 24, 2018, 12:12:58 AM4/24/18
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्
एवञ्च, AASHEERVACHANA SAAMAANI इत्यस्मिन् कानिचनाक्षराण्य् उट्टङ्कितानि, कानिचन लिखितानि हस्तेन। उट्टङ्कितानि तेलुगुलिप्यां सन्ति। हस्तलिखितानि कस्यां लिपौ सन्ति? कथं पठनीयानि? मदध्यापकपरम्परायां लिखितचिह्नानाम् एतेषां बहूनां अर्थः पठनसामर्थ्यञ्च लुप्तम् (मौखिकानुवचनादेवाध्ययन्ते ऽध्यापयन्ति च)।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 24, 2018, 4:02:22 PM4/24/18
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Dr Girijaprasad Shadangi षडङ्गि-गिरिजाप्रसादः, Seshadri Paravastu शेषाद्रिः छन्दोगः SF
+ श्री-षडङ्गि-गिरिजाप्रसादः ( https://sites.google.com/view/gpshadangi ) , परवस्तुकुलशेषाद्रिः - https://groups.google.com/forum/#!topic/bvparishat/54KHAHZlc6k इत्यत्र भारतीय-विद्वत्परिषदि काचित् चर्चा प्रारब्धा, यत्र भवल्लिखितम् साम्प्रतं स्यादित्यत्र प्रस्तौमि। एवं हि तत्र स्वयं प्रविश्य विषयम् इतोऽपि विषदीकरोत्विति प्रार्थये - https://groups.google.com/group/bvparishat/subscribe

श्रीमता षडङ्गिनेत्थं सूत्रान्तरे लिखितम् -

जैमिनीयस्वरविषये महता प्रयत्नं मया कृतम्। परन्तु सामधारणलक्षणम् एकमेव स्वरविषयिकी ग्रन्थं लब्धम्। संक्षेपेण वर्तते।
अन्यल्लक्षणग्रन्थं अन्विष्यन्नस्मि। एतावता न प्राप्तम्।
मया सम्पादितग्रन्थस्य अत्र भवते प्रेष्यते।

जैमिनीयसामस्वरमीमांसा-

स्वरलक्षणग्रन्थः जैमिनीयसामधारणलक्षणाख्यः केनापि सभापतिनामधेयेन विदुषा प्रणीतोऽत्यन्तप्रौढ्यन्वितः प्राप्यते। जैमिनीयशाखायां सर्वेऽपि स्वराः अक्षररूपेण मन्त्राणामधः सङ्केतिता उपलभ्यन्ते । केरळीयपाठे स्वराङ्कनाभावः वर्तते। गुरुपरम्परयाधिगताः स्वरा याथातथ्येनोच्चार्यन्ते। परन्तु तमिळनाडुमातृकासु अक्षरसूचिताः स्वराः दृष्टिपथमायान्ति। तदाधारेणैतानि गीयन्ते ।।

स्वरं सप्तविधं प्रोक्तमङ्गुष्ठेनाङ्गुळीषु च ।

क्रुष्टोप्यङ्गुष्ठतर्जन्योरग्रसंश्लेषमेव च ।।

अङ्गुष्ठस्य शिरस्थानं प्रथमस्वर उच्यते ।

तर्जनीमूळसंस्पर्शः द्वितीयस्वर उच्यते ।।

तृतीयो मध्यमामूळं चतुर्थस्यादधोङ्गुलेः ।

मन्द्रं कनिष्ठिकामूळं स्वारमाग्राद्विमर्शनः ।।

एवं दक्षिणहस्ते स्युः नासिकाग्र पुरस्थिते ।

गोकर्णसदृशे पाणौ स्वरास्सप्त च दर्शिताः ।।

 

सप्तस्वराणां यथा मुखेनोच्चारणं तथा हस्तेन तत्स्थानेषु विन्यासोपि क्रियते । क इति अवरोहः, एतद्रीत्यैव, च - उद्गमः, ट - यानम्, त - आवर्तः, प- क्षेपणम्, य - मर्शनम् इत्येतेषामपि हस्तेन प्रदर्शनं भवति।

सामवेदे जैमिनीयशाखायां हस्तस्वराः प्रधानतया प्रोक्ताः। दक्षिणहस्ताङ्गुष्ठेन प्रत्येकं पर्वस्पर्शनं कर्तव्यम्। तत्स्पर्शनानुसारेण मन्त्रोच्चारणं भवेत् । एषा  एव सामवेदीय जैमिनीयशाखायाः स्वरप्रक्रिया भवति।

  1. क - अवरोहः -दक्षिणहस्ताङ्गुष्ठेन तर्जन्याः मध्यमपर्व स्पृशेत्।।
  2. च- उद्गमः-दक्षिणहस्ताङ्गुष्ठेन मध्यमाङ्गुष्ठस्य मध्यमपर्व स्पृष्ट्वा अङ्गुष्ठं उपरि उद्गमयेत्
  3. ट - यानम् -अङ्गुष्ठं त्यक्त्वा  अन्यास्सर्वा अपि अङ्गुल्यः मुष्टिवत् कृत्वा मुखसमानं  उपरि नयति।
  4. त - आवर्तः -दक्षिणहस्तस्य सर्वे अङ्गुलीः एकीकृत्य आवर्तयेत्।
  5. प- क्षेपणम्-सर्वाः अङ्गुलीः मुष्टिवत् कृत्वा वेगेन कन्दुकक्षेपणवत् दर्शयेत्।
  6. य - मर्शनम् -दक्षिणहस्ताङ्गुष्ठाग्रेण अन्यानि सर्वाण्यपि अङ्गुल्यग्राणि स्पृशेत्।
  7. ग (क,प) अवरुह्य क्षेपणम् -       अवरोहे, प  क्षेपणे च  यथा निर्दिष्टः तद्वत् अत्रापि स्वरः कार्यः।

ज(क,य)अवरुह्य मर्शनम्- क  अवरोहे, य  मर्शने च यथा निर्दिष्टः तद्वत् अत्रापि कार्यः।

  1. ड (च.प) उद्गत्य क्षेपणम्-    उद्गमे , प क्षेपणे च  यथा निर्दिष्टः तद्वत् अत्रापि स्वरः कार्यः।
  2. द(च,य)उद्गत्य मर्शनम्- च उद्गमे ,य मर्शने    यथा निर्दिष्टः तद्वत् अत्रापि स्वरः कार्यः।
  3. ब (ट,प) यात्वा क्षेपणम् -    याने, प  क्षेपणे च  यथा निर्दिष्टः तद्वत् उभयं मिलित्वा स्वरः कार्यः।
  4. घ (ट,य) यात्वा मर्शनम् -      याने, य  मर्शने च  यथा निर्दिष्टः तद्वत्  स्वरः कार्यः।
  5. झ (त प) आवर्त क्षेपणम् -        आवर्ते, प  क्षेपणे च यथा निर्दिष्टः तद्वत् स्वरः कार्यः।
  6.  (त य) आवर्त मर्शनम् -      त आवर्ते, य मर्शने च यथा निर्दिष्टः तद्वत् स्वरः कार्यः।
  7. घ (प य) क्षेपणयोरैक्यम्-      प क्षेपणे, य मर्शने च यथा निर्दिष्टः तद्वत् स्वरः कार्यः।
  8. भ -मर्दनम् -        सर्वा दक्षिणाङ्गुलीः मिलित्वा हस्तस्य आवर्तनं कुर्यात् ।
  9. ख- अन्वङ्गुलिमर्दनम्-दक्षिणहस्ताङ्गुष्ठेन तर्जनीमध्यमानामि-काङ्गुलीनां  मध्यमपर्वाणि स्पृशेत्।
  10. छ-(च थ) उच्चैरुपकृत्योत्तानम्-च उद्गमे, थ केवलोत्ताने यथा प्रोक्तः तद्वत् अत्रापि कार्यः।
  11. ठ- (क थ) नीचैरुपकृत्योत्तानम् -  क अवरोहे, थ केवलोत्ताने यथा प्रोक्तः तद्वत् अत्रापि कार्यः।
  12. थ- केवलोत्तानम् -  दक्षिहस्तस्य सर्वा अङ्गुलीः मुष्टीकृत्य ततः विकसनं कुर्यात्।
  13. फ - मध्यमावरोहः -  दक्षिणहस्ताङ्गुष्ठेन मध्यमाङ्गुलेः अग्रतः मूलपर्यन्तं स्पृशेत्।
  14. प्ल (प्य) - अनामिकावरोहः - दक्षिणहस्ताङ्गुष्ठेन अनामिकाङ्गुळेः धारां अग्रतः मूलपर्यन्तं  स्पृशेत्।
  15. ङ - कनिष्ठिकोद्गमः -   दक्षिणहस्ताङ्गुष्ठेन कनिष्ठिकाङ्गुलेः  मूलतः अग्रपर्यन्तं स्पृशेत्।
  16. ण - अनामिकोद्गमः -   दक्षिणहस्ताङ्गुष्ठेन अनामिकाङ्गुलेः  मूलतः अग्रपर्यन्तं स्पृशेत्।
  17. ञो-कनिष्ठायास्समुद्गत्यान्वङ्गुळिमर्दनम् - दक्षिणहस्ताङ्गुष्ठेन कनिष्ठानामिका- मध्यमाङ्गुलीनां मध्यमपर्वाणि स्पृशेत्।
  18. न (ट ख) यात्वान्वङ्गुळिमर्दनम् -  तृतीये पञ्चमे  च यथानिर्दिष्टः तथा स्वरः कार्यः।
  19. ल (क ट) अवरुह्य यानम् -  प्रथमे तृतीये च  उक्तक्रमेण स्वरः कार्यः।
  20. ब (क त) अवरुह्यावर्तः -  प्रथमे चतुर्थे च यथा प्रोक्तः तथा कार्यः।
  21. ह (च ट) उद्गत्य यानम् -  द्वितीये तृतीये च  यथा निर्दिष्टः तथा कार्यः।
  22. ळ (च त) उद्गत्यावर्तः -  द्वितीये चतुर्थे च  यथा उक्तः तथा कार्यः।
  23. क्रु - क्रुष्टः  -  दक्षिणहस्ताङ्गुलीः मुष्टिवत् कृत्वा चालयेत्।
  24. स - प्रदेशिनीमर्शनम् - दक्षिणहस्ताङ्गुष्ठेन कनिष्ठिकाया आरभ्य तर्जनीपर्यन्तं  अग्रभागस्य स्पर्शः कार्यः।
  25. व - कनिष्ठिकामर्शनम् - दक्षिणहस्ताङ्गुष्ठेन कनिष्ठिकाया आरभ्य तर्जनीपर्यन्तं  अधोभागस्य स्पर्शः कार्यः ।

यद्यपि केरळीयपाठे लिखितस्वराणामभावः दृश्यते। तथापि मन्त्रोच्चारणवेलायां स्वरसहितमेव उहगानं कुर्वन्ति ।   हस्तस्वरस्य कतिपयानि उदाहरणानि   चित्रपरिशिष्टे  दत्तानि  सन्ति तानि द्रष्टव्यानि ।





Reply all
Reply to author
Forward
0 new messages