Vinodkumar Sharma
unread,Aug 10, 2011, 6:00:47 AM8/10/11Sign in to reply to author
Sign in to forward
You do not have permission to delete messages in this group
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to bvparishat
विदुषः प्रणम्य सादरं निवेद्यते यत् इदानीं रक्षाबन्धनसमयः
संस्कृतदिवसकालः श्रावणीकर्म्मावसरः सांस्कृतिकोज्जीवनवेला
समाजोद्धारोपयुक्तसमयश्च समागतः। संस्कृतसेवा हि
समाज-राष्ट्र-विश्व-ब्रह्माण्डसेवा विद्यते। अतो विविधरूपेण
प्रकल्पवैभिन्येन च समग्रे भूमण्डले हीदानीं संस्कृतदिवसमालक्ष्य
बहुविधाः कार्यक्रमाः सम्प्रति प्रचलन्ति, प्रचलिष्यन्ति च। अतः सादरं
निवेद्यते यत् संस्कृतदिवसमालक्ष्य आयोजितानां कार्यक्रमाणां
विधिनियमपरम्परादिभिस्सह विस्तरेण यदि परस्परं प्रेष्यते चेत्
संस्कृतदिवस-संस्कृतभाषा-सांस्कृतिकैश्वर्य-मातृभाषागर्व-राष्ट्रभाववृद्धि-स्वात्मभावाभिवृद्धिविषयकं
बहुप्रचार-प्रभाव-ज्ञानप्रसारात्मकमपि च लक्ष्यमस्माकं सिद्धं भविष्यतीति
मे मतिः।
अस्माकं संस्कृतविश्वविद्यालये श्वः 11.8.2011 दिनांके
संस्कृतदिवसमालक्ष्य पञ्चकार्यक्रमाः आयोजष्यिन्ते - 1. शास्त्रीस्तरे
सुभाषितकण्ठपाठप्रस्पर्धा, 2. आचार्यस्तरे अन्त्याक्षरीप्रतिस्पर्धा, 3.
आचार्यस्तरे भाषणस्पर्धा, 4. साहित्यपीठाध्यक्षाणां पं.
अनन्तशर्ममहाशयानां प्रवचनम्, 5. राजस्थानायुर्वेदविश्वविद्यालयस्य
कुलपतिचराणां प्रो. बनवारीलालगौडमहोदयानां सारस्वतोद्बोधनञ्च। अन्त्ये
अस्मदीया विद्वांसः कुलपतयः प्रो. रामानुज देवनाथनवर्य्याः
प्रतिस्पर्धासु विजेतृणां कृते पुरस्कारवितरणं धन्यवादज्ञापनं च
करिष्यन्ति।
धन्यवादः।
--
डॉ. विनोदकुमारशर्मा
विभागाध्यक्षः, ज्योतिष-विभागः
जगद्गुरु-रामानन्दाचार्य-राजस्थान-संसकृत-विश्वविद्यालयः,
मदाऊ, पोस्ट-भांकरोटा, जयपुरम् (राजस्थानम्)-३०२०२६
०१४१-२७९२२९७, ०१४१-५१३२०२७, ०९४१४३५०७११