जिज्ञासा

42 views
Skip to first unread message

Swarup

unread,
Jul 31, 2014, 5:10:09 PM7/31/14
to bhAShApAkavargaH
सर्वेभ्यः नमस्कारः

ह्यः अस्माभिः दृष्टं यत्‌ "चिनु + अन्ति → चिन्वन्ति" इत्यस्मिन्‌ यण्‌ आदेशः भवति-- नाम उ-स्थाने व-कारः (व्‌) | अत्र हुश्नुवोः सार्वधातुके इत्यनेन यण्‌-आदेशः भवति | परञ्च एकः प्रश्नः उदेति— यदि अत्र यण्‌ आदेशः भवति, तर्हि किमर्थं न इको यणचि इत्यनेन यण्‌ ? इको यणचि इत्यनेन यण्‌-आदेशो विहितः | अत्र इको यणचि इत्यस्य प्रसक्तिरस्ति किल | पूर्वम्‌ इक्‌ अस्ति, परे अच्‌ अस्ति; अतः इक्‌-स्थाने यण्‌ | यण्‌-आदेशार्थं किमर्थं हुश्नुवोः सार्वधातुके, यदा इको यणचि तु अस्ति एव ?

(ये जानन्ति, ते कृपया किञ्चित्‌ समयं दद्युः येन नूतनाः अपि चिन्तयितुं शक्नुयः | सर्वेषां कृते चिन्तनम्‌ अत्यन्तं लाभदायकम्‌ :-)

स्वरूपः

Swarup

unread,
Aug 1, 2014, 8:37:01 AM8/1/14
to bhAShApAkavargaH
सुप्रभातम्‌

अधुना येन केनचित्‌ अधस्तनप्रश्नस्य उत्तरं ज्ञायते, तेन प्रतिपाद्यताम्‌ | कथञ्चित्‌-- सरलरीत्या भवतु नाम | तदा वयं सर्वे साहाय्यं कुर्मः | अतः अत्र लज्जा मास्तु; मनसि कोऽपि सङ्केतो वर्तते चेत्‌, स एव उच्यताम्‌ |

भवदीयः
स्वरूपः

Swarup

unread,
Aug 1, 2014, 11:04:37 AM8/1/14
to bhAShApAkavargaH
आश्चर्यम्‌ ! तावत्‌ चिन्तनम्‌ अस्माभिः कृतं, तथापि कस्यचित्‌ पार्श्वे उत्तरं नास्ति किम्‌ ? नाटकं मा कुर्वन्तु :-)

Nalini Mishra

unread,
Aug 1, 2014, 11:40:07 AM8/1/14
to bhaashaap...@googlegroups.com
वार्णकार्यम् अङ्गकार्यम् इति भेदेन वा?


From: Swarup <dinb...@sprynet.com>
To: bhAShApAkavargaH <bhaashaap...@googlegroups.com>
Sent: Friday, August 1, 2014 8:04 AM
Subject: Re: [व्याकरणजिज्ञासवः] जिज्ञासा

--
You received this message because you are subscribed to the Google Groups "bhAShApAkavargaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bhaashaapaakava...@googlegroups.com.
To post to this group, send email to bhaashaap...@googlegroups.com.
Visit this group at http://groups.google.com/group/bhaashaapaakavargah.
For more options, visit https://groups.google.com/d/optout.


Swarup

unread,
Aug 1, 2014, 12:01:56 PM8/1/14
to bhaashaap...@googlegroups.com
समीचीनं भगिनि, अयं सिद्धान्तः अवश्यम्‌ अत्र कार्यं करोति | इतोऽपि किञ्चित्‌ लेखनीयं भवति, येन वयं भवत्याः चिन्तनम्‌ अवगन्तुं शक्नुयाम | किं सूत्रं, कुत्र इत्यादिकम्‌ |

Swarup

unread,
Aug 1, 2014, 12:16:20 PM8/1/14
to bhaashaap...@googlegroups.com
अन्यः कोऽपि तस्याः साहाय्यं करोतु | अत्र हुश्नुवोः सार्वधातुके नास्ति चेत्‌, किं भविष्यति ?

Ramesh Srivastava

unread,
Aug 1, 2014, 1:45:30 PM8/1/14
to भाषापाकवर्गः
नमोनमो महोदयः
 
न जानामि परन्तु इकोयणचि इत्यस्य कार्यक्शेत्रं वृहत्तरम् । अतः "व्" इति आगच्छति यतः हुश्नुवोः सार्व धातुके इति सूत्रेण् प्रायेण । अपरं च चिनु इति धातोः अङ्गं यतः अङ्ग कार्यं बल्वत्तरम्


--

Ramesh Srivastava

unread,
Aug 1, 2014, 1:52:02 PM8/1/14
to भाषापाकवर्गः
शोधनं कृत्वा पुनः प्रेषिश्यामि अधः
 
न जानामि परन्तु इकोयणचि इत्यस्य कार्यक्षेत्रं वृहत्तरम् । अतः "व्" इति आगच्छति यतः लघुत्तरकारक्षेत्रेण सुत्रेण तन्नां हुश्नुवोः सार्व धातुके इति सूत्रेण प्रायेण । अपरं च चिनु इति धातोः अङ्गं यतः अङ्गकार्यं बलवत्तरम्

Swarup

unread,
Aug 1, 2014, 1:54:10 PM8/1/14
to bhaashaap...@googlegroups.com
वस्तुतः चिन्तनं भिन्नम्‌ | अद्य मम समयः न्यूनः अतः अनन्तरं लेखिष्यामि | अस्य करपत्रम्‌ अपि निर्मीयमाणम्‌-- प्रायः सिद्धं भविष्यति अद्य रात्रिवेलायां वा श्वः वा | तावता अपरेण केनचित्‌ ज्ञायते चेत् अवश्यं लिख्यताम्‌ |

स्वरूपः

Nalini Mishra

unread,
Aug 1, 2014, 2:07:24 PM8/1/14
to bhaashaap...@googlegroups.com

इको यणचि (..७७)

हुश्नुवोः सार्वधातुके (..८७, लघु० ५०१) = (किति ङिति) अजादि-सार्वधातुकप्रत्यये परे हु-धातोः, अपि च श्नु-प्रत्ययान्तस्य असंयोगपूर्वस्य, उकारस्य स्थाने यण्‌-आदेशः भवति |

..८७ परसूत्रमस्ति।  आङ्गकार्यं प्रथमं कर्तव्यम्।  अपि च असंयोगपूर्वस्य, उकारस्य इत्यस्मात् कार्यक्षेत्रं अल्पतरम्इति अनेकानि कारणानि किम् साधु इति न जानामि िअपि च ि अन्यत्र लब्धावकाश: भवति वा इत्यपि ि सन्देह:। यदि अपवाद: अस्ति तदेव प्रथम कारणम् इति मन्ये

वार्णादाङ्गं बलीयः | [परिभाषा ५५]
पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः | [परिभाषा ३८]

उत्तरोत्तरं बलीय: इत्यस्मात्  वार्णादाङ्गं बलीयः | [परिभाषा ५५]इति कारणं स्वीकरोमि।

साहाय्यम् आवश्यकम्

From: Swarup <dinb...@sprynet.com>
To: bhaashaap...@googlegroups.com
Sent: Friday, August 1, 2014 9:01 AM

Ramesh Srivastava

unread,
Aug 1, 2014, 2:10:23 PM8/1/14
to भाषापाकवर्गः
हुश्नुवोः सार्वधातुके इति विशिष्टसूत्रेण उवङ् आगच्छति । भवतः आशयः तत्सूत्रं विशिष्टं किं इति अस्ति वा ?


Swarup

unread,
Aug 1, 2014, 2:51:48 PM8/1/14
to bhaashaap...@googlegroups.com
रमेशमहोदय-- हुश्नुवोः सार्वधातुके इत्यनेन यण्‌ खलु न तु उवङ्‌


चिन्तनं सर्वेषां प्रवर्तमानम्‌-- समीचीनम्‌ !

एतावता नोत्तरं प्राप्तं, परन्तु चिन्तनम्‌ इति मुख्यम्‌ | चिन्तनं कुर्वन्तः भवन्तु !
परं यदा समयः प्राप्यते, यदि तावता समाधानं न जातम्‌-- तदा दास्यते अवश्यम्‌ |

Swarup

unread,
Aug 1, 2014, 3:26:01 PM8/1/14
to bhaashaap...@googlegroups.com
सङ्केतः--

"शक्नु + अन्ति" इति विषये वयं विस्तरेण चिन्तितवन्तः | स एव क्रमः अपेक्षितः "चिनु + अन्ति" इत्यर्थम्; केवलं ततः किञ्चित्‌ अग्रेऽपि गच्छति चिनु इत्यर्थम्‌ | अतः समग्रं चिन्तनं कुर्वन्तु | कानि कानि सोपानानि सन्ति | चिन्वन्ति इत्यस्य निर्माणार्थं
हुश्नुवोः सार्वधातुके नास्ति चेत्‌, इको यणचि इत्यनेन यण्‌ भविष्यति किम्‌ ? भविष्यति चेत्‌, हुश्नुवोः सार्वधातुके इति सूत्रं व्यर्थम्‌ |

Swarup

unread,
Aug 4, 2014, 9:05:39 AM8/4/14
to bhAShApAkavargaH
नमस्कारः,

अधस्तने करपत्रे यत्‌ जिज्ञासायाः समाधानं दत्तम्‌, तत्‌ सर्वैः बुद्धं किम्‌ ?

https://sites.google.com/site/samskritavyakaranam/03---aShTAdhyAyI-paricayaH/04---balAbalasya-bodhanam-abhyAsa-samAdhAnam-ca

केनचित्‌ अत्रैव समाधानं लेखनीयं येन सर्वे अवगच्छेयुः | यः कोऽपि/या काऽपि अवागच्छत्‌, सः/सा स्वबोधम्‌ अत्र लिखेत्‌ |

स्वरूपः


On 07/31/2014 05:10 PM, Swarup wrote:

Swarup

unread,
Aug 4, 2014, 3:12:20 PM8/4/14
to bhAShApAkavargaH
अधुना समाधानं लिखितं प्रेषितञ्च | जनैः न बुद्धं किम्‌ ? अथवा न पठितं किम्‌ :-( ? अथवा लज्जा किम्‌ ? पूर्वं सावधानतया अत्र लेखनीयम्‌ इत्युक्तम्‌ -- परन्तु तावन्न यत्‌ न कोऽपि लिखतीति ! इदं गुग्ल्‌ ग्रुप्स एतदर्थम्‌ अस्ति एव, अतः स्वचिन्तनं लिखन्तु | अस्मिन्‌ सप्ताहे नूतनविषयः आयाति, अतः तस्मात्‌ प्रक्‌ इदं समापनीयम्‌ | तर्हि प्रश्नस्य उत्तरं कोऽपि लिखति किम्‌ ?

Dron

unread,
Aug 4, 2014, 3:23:56 PM8/4/14
to bhaashaap...@googlegroups.com, bhAShApAkavargaH
Mahodaya
Samadhanam avagatam

Dhanyavaadah
Dron

Sent from my iPhone

Vasuki Seshadri

unread,
Aug 4, 2014, 4:27:18 PM8/4/14
to bhaashaap...@googlegroups.com
नमः,

वर्गे भागं अवहति सत्यपि, मम अवगमनं किञ्चित् वदेयम् - अत्र "इको यणचि" इत्यस्य अपेक्षया "अचि श्नुधातुभ्रुवां य्वोरियङुवङौ" इत्यस्य प्रसक्तिः, यतः चि-धातुः स्वादिगणेऽस्ति। परन्तु, चिनु इति अङ्गम् असंयोगपूर्वम् अस्ति। अतः "हुश्नुवोः सार्वधातुके" इति अपवादसूत्रस्य कार्यम्।

भवदीयः,
वासुकिः।



Swarup

unread,
Aug 4, 2014, 7:14:12 PM8/4/14
to bhaashaap...@googlegroups.com
धन्यवादः महोदय, सत्यमेव |
 
अवगतं वा सर्वैः ? इको यणचि इत्यस्य प्रसक्तिरस्त्येव, तदा बाधितं भवति
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रेण | अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ प्रबाध्य अन्यत्‌ सूत्रं नायाति चेत्‌, उवङ्‌ आदेशः भविष्यति | चिन्‌ + उव्‌ + अन्ति -> चिनुवन्ति, अनिष्टं रूपम्‌ | तस्य (अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य) अपवादभूतसूत्रस्य आवश्यकता अस्ति | हुश्नुवोः सार्वधातुके एव तस्य अपवादः, यथा वृद्धिरेचि, आद्‌गुणः इत्यस्य अपवादः |

सर्वं विस्तरेण लिखितम्‌ अस्ति करपत्रे-- पठ्यताम्‌ | अस्मिन्‌ मस्तिष्कः सक्रियः न भवति चेत्‌, अवबोधो न भवति | अतः चिन्तनं कुर्वन्तु; तदा संशयोऽस्ति चेत्‌ उच्यताम्‌ |

Ramesh Srivastava

unread,
Aug 6, 2014, 2:51:36 PM8/6/14
to भाषापाकवर्गः
नमोनमो स्वरूपमहोदयः

प्रथमं माम् बलाबलं इत्यस्य पाठनार्थे अस्माकं कृतज्ञता स्वीकरोतु ।
अद्यपर्यन्तं यदा भवान् पाठयति तदा मनसि किमपि अस्ति । किम् अस्ति ।
समस्या अस्ति वा । अनवधानम् अस्ति वा । किं वा नजानमि । मनसि प्रश्नः
अस्ति परन्तु प्रश्नः अस्ति इत्यपि न जानामि । बलाबलं पाठयित्वा मनसे
शान्ति दापयति । मनः जानाति यत् प्रश्न आसीत् । तस्य निवारणं अभवत् ।

अतिमहत्वपूर्णः विशयः अयम् । अष्टाध्यायीभवनमूलविषयम् अयम् ।

यथा पूर्वपाठे तथा क्लिष्टविषयस्य सरलतया पाठयित्वा कारणेन अहं विषयः
अवगच्छमि । परन्तु तनु बुद्धिः कारणात् श्रृण्वन् अनन्तरं पूर्णतया
विस्मरामि । इदानीमपि किमपि कारणं समयाभावात् अभवत् । अतः
बलाबलसमाधानकरपत्र न पठितवान् । परन्तु अवष्य पठिष्यामि सूचिष्यामि च ।
क्षमां प्रार्थयते ।

रमेशः

Swarup

unread,
Aug 6, 2014, 4:36:04 PM8/6/14
to bhaashaap...@googlegroups.com
रमेशमहोदय,
भवतोऽभिरुचिः श्लाघनीया ! स्वधैर्यं च सुन्दरम्‌ | अग्रे गत्वा अस्माकं सर्वेषां जिज्ञासा भवतः इव भवति चेत्‌ नैपुण्यं व्युत्पन्नं भविता इति निश्चितम्‌ |
पाठः रोचते इत्यस्य श्रवणेन महान्‌ प्रमोदः |


भवदीयः
स्वरूपः


Reply all
Reply to author
Forward
0 new messages