नमस्काराः ।
परिशीलनाय धन्यवादः महोदये ।
सत्यं 'तर्हि' इति पदं विहाय तु नैके प्रयोगाः विद्यन्ते । वस्तुतया साहित्ये तु ते एव अधिकाः स्युः इति मन्ये । अतः तत्र नासीत् विप्रतिपत्तिः ।
मम संशयो वस्तुतया आसीत् ' चेत् - तर्हि ' प्रयोगे + अन्यस्मिन् प्रयोगे ।
यद्यपि चेत्-यदि-पदे समानार्थके तथापि न एकस्य स्थाने अन्यत् पदं वाक्ये स्थापयितुं शक्यते । स्पष्टप्रतिपत्तये अधः विशदीकृतं कथनम् ।
१) यदि (शिक्षकः) पाठयति तर्हि लिखामि ।
२) पाठयति चेत् लिखामि ।
३) यदि पाठयति लिखामि ।
४) पाठयाति यदि लिखामि ।
५) चेत् पाठयति तर्हि लिखामि ।
६) चेत् पाठयति लिखामि ।
अत्र १) २) ३) इत्येतैः त्रीभिः वाक्यैः बोध्यमानः अर्थः समान एव ।
४) अर्थः विपरीतः स्यात् । यदि लिखामि तर्हि (शिक्षकः) पाठयति [इत्युक्ते मम लेखनं प्रतीक्षमाणः सः न पाठयति सम्प्रति । मया लेखने आरब्धे पाठयति । इति मे भाति ।
५) ६) - इत्याभ्यां साधुता प्रायः चिन्त्या । न ज्ञायते मया । कृपया उच्यताम् ।
चेत्-यदि-पदे समानार्थके स्याताम् किन्तु प्रयोगे तु भेदो भवितुमर्हति । समानार्थके पदे इमे इत्यस्य कथनं यत् उभे पदे एकस्मिन् एव वाक्ये न प्रयोक्तव्ये । एकस्य स्थाने साक्षात् अन्यत् निधाय प्रयोगः क्रियताम् इत्यर्थः अस्ति वा इति मुख्यसंशयः ।
उदाहरणम् - "फलम् आवश्यकम् " , "फलस्य आवश्यकता अस्ति" । अत्र आवश्यकम् , आवश्यकता समानार्थकपदद्वयम् । अतः एकस्मिन्नेव वाक्ये प्रयोगः न प्रशस्ततरम् इति मन्ये (तन्नाम "फलस्य आवश्यकता आवश्यकी" ) । तस्मात् आवश्यक-/ आवश्यकता अत्र समानार्थके पदे किन्तु एकस्य स्थाने अन्यत् न सङ्गच्छते -- इत्युक्ते "फलम् आवश्यकता अस्ति" उत "फलस्य आवश्यकम् अस्ति" इति वक्तुं न पारयाम [मन्येऽहम्] ) ।
मूलोदाहरणे संशयद्वयमेवम् आसीत् ।
१) चेत् कक्ष्या अस्ति तर्हि । अत्र साधुता वर्तते वा ? प्रश्नोऽयं यतः अदृष्टपूर्वप्रयोगः । भवत्याः उत्तरात् न स्पष्टम् ।
२) कक्ष्या अस्ति यदि आगच्छामि । अत्र मूलवाक्येन बोध्यमानस्य अर्थस्य विपरीतः अर्थः प्रतिपाद्यते इति भाति । मूलम् "यदि कक्ष्या अस्ति , आगच्छामि " ।
एवं भाति (पठितान्युदाहरणानि दृष्ट्वा) यत् इदृशेषु वाक्येषु पदसमूहद्वयम् । निमित्तम् कश्चन ("कक्ष्या अस्ति") , कार्यम् इतरः ("आगच्छामि") । निमित्तात् पूर्वं 'यदि' इति भूरिशः प्रयोगः दृष्टः , कार्यात् पूर्वं चेत् इति दृष्टम् । तस्मात् "आगच्छामि , यदि कक्ष्या अस्ति" उत "यदि कक्ष्या अस्ति , आगच्छामि " द्वयोः अर्थः समानः स्पष्टश्च । किन्तु "यदि कक्ष्या अस्ति आगच्छामि" अपि च "कक्ष्या अस्ति , यदि आगच्छामि" अत्र अर्थयोः भेदः स्यात् । सत्यम् किल ?
इत्थं यदि-चेत्-पदयुक्तस्य वाक्यस्य रचनाविषये किं चिन्तनम् ? अन्यैः दृष्टाः वा प्रयोगाः अन्यथा ? तथा सति , कथम् अर्थभेदं ज्ञातुं शक्यते ?
न ज्ञायते प्रश्नः स्पष्टः उत न :) उपरि , #१ , #२ - तत्र एव संशयद्वयम् ।
मया तु प्रायः एवमेव प्रयोगः क्रियते "यदि cause (तर्हि) effect" , "cause चेत् effect" , "effect यदि cause" | अन्यथा प्रयोगे श्रोतुः पठितुः क्लेशाय कल्पेत ।