On Wed, 2013-11-20 at 14:31 -0800, विश्वासो वासुकिजः (Vishvas
Vasuki) wrote:
> कर्मणि लोटि रूपाणी कानि वर्धतेः?
>
>
> वर्ध्यिष्यते वर्ध्यिष्येते वर्ध्यिष्यन्ते
> वर्धिष्यसे वर्ध्यिष्येथे वर्ध्यिष्यध्वे
> वर्ध्यिष्ये वर्ध्यिष्यावहे वर्ध्यिष्यामहे
>
>
> इति वा?
भवतः विवक्षा लृट् इत्यनन्तरम् उक्तम्--
कर्मणि लटि वृध् -> वृध्यते , वृत् -> वृत्यते, बुध् -> बुध्यते
परन्तु लृटि सामान्यतया यथा कर्तरि भवति, तथैव कर्मणि भवति केवलम्
आत्मनेपदे | यथा कर्तरि करिष्यति -> कर्मणि करिष्यते | कर्तरि लेखिष्यति ->
कर्मणि लेखिष्यते | कर्तरि सेविष्यते -> कर्मणि सेविष्यते | प्रायः यतः
कर्तरि लृटि वर्धिष्यते अस्ति, कर्मणि वर्धिष्यते इत्येव स्यात् |
स्वरूपः