नमांसि,
मया लेखनावसरे प्लुतः ऌकारः स्वरेषु योजितः।
किन्तु पाणिनीय-शिक्षाग्रन्थे गणना एवं वर्तते -
स्वरा विंशतिरेकश्च स्पर्शनां पञ्चविंशतिः।
यादयश्च स्मृतौ ह्यष्टौ चत्वारश्च यमाः स्मृताः॥४॥
अनुस्वारो विसर्गश्च ^ःक^ःपौ चापि पराश्रितौ।
दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च॥५॥
स्वराः - २१ (विंशतिः+एकः) (प्लुतऌकारं विहाय)
स्पर्शाः - २५ (क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म)
यादयः - ८ (य र ल व श ष स ह)
यमाः - ४ (क ख ग घ)
अनुवारः - १
विसर्गः - १
जिह्वामूलीयः - १
उपध्मानीयः - १
दुःस्पृष्टः - १ (ळ)
प्लुतः ऌकारः - १