किमर्थं रामेषु, न रामेसु

40 views
Skip to first unread message

Arnab Bhattacharya

unread,
Feb 14, 2019, 1:42:51 AM2/14/19
to Ashtadhyayipravesha_SFH
आदेशप्रत्ययोः सूत्रे वदति -- यदि प्रत्ययस्य स् इक्-वर्णात् परे अस्ति, तर्हि स् स्थाने ष् भवति।

किन्तु रामेसु मध्ये ए-कार इक् वर्णः नास्ति। तथापि कथं रामेषु वर्तते?

कृपया मम अज्ञतां क्षमां कृत्वा अवसानं करोतु।

धन्यवादः,
अर्णवः

Arnab Bhattacharya

unread,
Feb 14, 2019, 7:01:16 AM2/14/19
to Ashtadhyayipravesha_SFH
तर्हि सूत्रे इण् अस्ति, इक् न!
अधुना अवगच्छामि।

धन्यवादः,
अर्णवः

Arnab Bhattacharya

unread,
Feb 14, 2019, 8:05:04 AM2/14/19
to Ashtadhyayipravesha_SFH
पुनः पुनः इमेलं करोमि, तस्मै अहं लज्जितः। किन्तु मम संशयः अधुना पर्यन्तं न गच्छति।

भवान् लिखितवान्
"सूत्रं वदति यत् "इण्कुभ्यां परस्य अपदान्तस्य आदेशस्य प्रत्ययावयवश्च यः सः तस्य मूर्धन्यादेशः" इति । अत्र इण् कु च परे इत्यर्तः। एकारः तु इण् प्रत्यहारे वर्तते । अतः रामेषु इति रूपं सध्यति ।"

किन्तु इण् प्रत्याहारमध्ये ए नास्ति। इच् अथवा इङ् प्रत्याहारमध्ये भवति।

माहेश्वरसूत्रानुयायी द्बौ इण् प्रत्याहारौ भवितुम् अर्हतः।
प्रथमः इउण्, द्वितीयः इउऋऌएओऐऔहयवरलण्।
तर्हि कं प्रत्याहारं अवगच्छामि?

धन्यवादः,
अर्णवः



Tilak Rao

unread,
Mar 19, 2019, 6:05:55 AM3/19/19
to Ashtadhyayipravesha_SFH
सर्वदा इण् इत्यनेन परणकारस्य (लण्) ग्रहणम्। अण् इत्यनेन पूर्वणकारस्य। अणुदित्सवर्णस्य चाप्रत्ययः इति सूत्रे केवलम् अण् इत्यनेन परणकारस्य ग्रहणम्।

Arnab Bhattacharya

unread,
Mar 19, 2019, 10:20:55 AM3/19/19
to Ashtadhyayipravesha_SFH
अस्तु महोदय!
अधुना अवगच्छामि।

किन्तु किमर्थं ण्-अन्तं प्रत्याहारं एकाधिकवारं व्यवहारति?
एकवारं करोति चेत् संशयः नास्ति।

धन्यवादः,
अर्णवः



Tilak Rao

unread,
Mar 19, 2019, 9:38:18 PM3/19/19
to Ashtadhyayipravesha_SFH
णकारस्य द्विवारम् उच्चारणं यत्र एवं सन्देहः भवति तत्र व्याख्यानात् अर्थः निर्णयः कर्तव्यः इति ज्ञापयितुम् इति व्याकरणपरम्परायां वदन्ति। अतः एषा परिभाषा अङ्गीक्रियते - व्याख्यानतो विशेषप्रतिपत्तिः न हि सन्देहादलक्षणम्।

Arnab Bhattacharya

unread,
Jun 18, 2019, 12:39:52 PM6/18/19
to Ashtadhyayipravesha_SFH
धन्यवादः महोदय!
Reply all
Reply to author
Forward
0 new messages