Lessons from ocean - Sanskrit article

6 views
Skip to first unread message

K.N.RAMESH

unread,
Mar 12, 2021, 7:01:34 PM3/12/21
to
*महान् समुद्रः।*

सागरे सर्वदा जलतरङ्गः भवति इति सागरस्य स्वभावः वर्तते। 

एकः बालकः समुद्रतीरे तिष्ठन् आसीत्। तदा सहसा एकः जलतरङ्गः आगत्य तस्य बालकस्य एकां पादुकां नीत्वा गतवान्। 

तदा सः बालकः दुःखितः सन् रोदनं कृत्वा सिकतासु तस्य अङ्गुल्या लिखितवान् समुद्रः चोरः भवति।

अन्यत्र च केचन धीवराः समुद्रजलात् मीनान् गृहीत्वा ते अपि सिकतासु लिखन्ति समुद्रः अस्माकं पालनहारः वर्तते। 

पुनश्च एकः बालकः समुद्रजले निमज्ज्य तस्य मृत्युः अभवत्। 
तस्य बालकस्य माता तदा सिकतासु लिखति समुद्रः घातकः अस्ति। 

पुनश्च एकः निर्धनः वृद्धः समुद्रतीरे अटनसमये एकां बहुमूल्यां मणिं प्राप्य सः अपि सिकतासु लिखति समुद्रः दानी अस्ति। 

तदनन्तरं पुनः एकवारं एकः विशालः जलतरङ्गः आगत्य तेषां सर्वेषां लेखान् मार्जयित्वा गतवान्। 

जनाः समुद्रस्य विषये किमपि वा कथयन्तु परन्तु समुद्रः तु स्वस्य विवेकानुसारं कार्यं करोति। 

कदाचित् प्रलयं करोति कदाचिच्च पूर्णरूपेण शान्तः भवति। 

अतः समुद्रः इव भवितुम् इच्छति चेत् कस्यापि वार्तां न शृणुयात्। किमपि महत् कार्यं साधयितुम् इच्छति चेत् स्वविवेकैः कुर्यात्। 

अतीतस्य चिन्ता न करणीया। 
जयः-पराजयः, नाशः- प्राप्तिः, सुखं-दुःखम् इत्यादिभ्यः मनः विचलितं न भवेत्। 

मनुष्यस्य जीवने यदि केवलं सुखं शान्तिः च अभविष्यतां तर्हि कोऽपि मनुष्यः जन्म प्राप्य न अरोदिष्यत् अपिच स्वयं मृत्वा अन्यान् न अरोदयिष्यत् ।
*-प्रदीपः!*
Reply all
Reply to author
Forward
0 new messages