श्रीमातृसुप्रभातम्

3 views
Skip to first unread message

sridhar....@gmail.com

unread,
Mar 20, 2025, 2:05:39 PM3/20/25
to ambaa-l
Namaste,

 Please help proofread 

॥ श्रीः ॥
॥ श्रीमातृसुप्रभातम् ॥

श्रीकामकोट्यासनगा मदीयकामप्रदात्री कमलासनाढ्या ।
कामाम्बका कल्पितपञ्चकृत्या करोतु माता मम सुप्रभातम् ॥ १ ॥

श्रीशम्भुनेत्राग्निसुदग्धकामभस्मोत्थभण्डासुरनाशनाय ।
चिदग्निजातामरसंस्तुताङ्घ्रिः करोतु माता मम सुप्रभातम् ॥ २ ॥

पाशेक्षुचापाङ्कुशपुष्पबाणचतुर्भुजा चन्द्रकलावतंसा ।
स्वगात्रशोभाजितबालसूर्या करोतु माता मम सुप्रभातम् ॥ ३ ॥

सुमेरुगोत्रोर्ध्वगशृङ्गमध्यविराजितश्रीपुरमध्यगांबा ।
चिन्तागृहे पञ्चशिवासनस्था करोतु माता मम सुप्रभातम् ॥ ४ ॥

कदम्बकान्तारसुधाब्धिपद्मवनान्तरस्था कमनीयरूपा ।
कामेशवामाङ्कतलस्थिताम्बा करोतु माता मम सुप्रभातम् ॥ ५ ॥

देवर्षिवृन्दस्तुतवैभवाङ्घ्रिः भण्डादिदुर्दैत्यविनाशनाय ।
समावृता शक्तिभटावलीभिः करोतु माता मम सुप्रभातम् ॥ ६ ॥

तुरङ्गमातङ्गवराधिनाथासंसेविता चक्ररथस्थिताम्बा ।
श्रीमन्त्रिणीकोलमुखीसमीड्या करोतु माता मम सुप्रभातम् ॥ ७ ॥

प्राकारभूताग्निसुमध्यगाम्बा कामेश्वरीमुख्यतिथीड्यपादा ।
बालाम्बिकाविक्रमतुष्टचित्ता करोतु माता मम सुप्रभातम् ॥ ८ ॥

युद्धे हतौ दैत्यवरानुजौ श्रीकोलननाश्रीसचिवाधिपाभ्याम् ।
दृष्ट्वा महहर्षयुतान्तरङ्गा करोतु माता मम सुप्रभातम् ॥ ९ ॥

विघ्नेशचूर्णीकृतविघ्नयन्त्रसुहर्षिता विघ्नपतिस्तुताम्बा ।
देवी नखोत्पन्नदशावतारा करोतु माता मम सुप्रभातम् ॥ १० ॥

नामत्रयास्त्राहतरोगरूपबाणा स्वदिव्यास्त्रहतासुरास्त्रा ।
लीलारता पालितभक्तजाला करोतु माता मम सुप्रभातम् ॥ ११ ॥

कामाम्बका पाशुपतास्त्रदग्धभण्डासुराशेषचमूसमूहा ।
कामेशबाणाहतभण्डदैत्या करोतु माता मम सुप्रभातम् ॥ १२ ॥

सुरेशसन्दर्शितकामपत्नीमाङ्गल्यदात्री करुणासमुद्रा ।
कामेश्वराङ्कस्थितकामनेत्रा करोतु माता मम सुप्रभातम् ॥ १३ ॥

अनन्तकोट्यण्डगतामरेन्द्रमूर्तित्रयाशेषमुनिस्तुताम्बा ।
ओघत्रयानेकविधस्तुताङ्घ्रिः करोतु माता मम सुप्रभातम् ॥ १४ ॥

वाक्कामशक्तिप्रदपादुका श्रीवाक्संस्तुता शक्तिकदम्बपूज्या ।
वागादिकूटत्रयदिव्यदेहा करोतु माता मम सुप्रभातम् ॥ १५ ॥

चिच्चन्द्रसंशोभिवराङ्गभागा श्रीसच्चिदानन्दरसैकभोगा ।
अनन्तवाग्दानविधानदक्षा करोतु माता मम सुप्रभातम् ॥ १६ ॥

श्री गुहानन्दमण्डलीस्थापक तदध्यक्ष श्रीचिदानन्दनाथ पादकमलरेणुना
अनन्तानन्दनाथेन विरचितम् ॥

॥ शुभम् ॥

Ram Ram,
jaya jaya jagadamba shivE
Reply all
Reply to author
Forward
0 new messages