अद्वैते शंकराभिप्रेतमुख्यदेवता का ?

19 views
Skip to first unread message

V Subrahmanian

unread,
Sep 15, 2020, 3:54:24 AM9/15/20
to A discussion group for Advaita Vedanta, adva...@googlegroups.com
Which is the 'supreme deity as approved in Advaita?

The terms 'anya devataa' in the Bh.Gita and 'devataantara' in the Anandagiri commentary together raises the question as to 'which is that non-anya deity in Advaita'?

Here are many passages from the prasthana traya bhashya and Sureshwaracharya's vartika and Anandagiri's commentary that helps us determining the above question.  In essence: the 'devataa' of Advaita is Pure Consciousness and everything other than that is 'anya'.

I have not given the translation of the passages below. 

regards
subbu  
   


भ.गी.भाष्यम् आनन्दगिरिव्याख्या च -

सप्तमाध्याये- 

आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते —
 व्याख्या 

किमिति तर्हि सर्वेषां प्रत्यग्भूते भगवति यथोक्तज्ञानं नोदोतिॽ इत्याशङ्क्य, ‘न माम् ‘ इत्यत्र उक्तं हृदि निधाय, ज्ञाानानुदये हेत्वन्तरम् आह -

 

आत्मैवेति ।

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥

कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया आत्मीयया ॥ २० ॥
 व्याख्या 

कामैः नानाविधैः अपहृतविवेकविज्ञानस्य देवतान्तरनिष्ठत्वमेव प्रत्यग्भूतपरदेवताप्रतिपत्त्यभावे कारणम् , इत्याह -

 

कामैरिति । 

देवतान्तरनिष्ठत्वे हेतुम् आह -

 

तं तमिति ।

 

प्रसिद्धो नियमः जपोपवासप्रदक्षिणनमस्कारादिः । नियमविशेषाश्रयणे कारणम् आह -

 

प्रकृत्येति

॥ २० ॥


अत्र पश्यन्तु - भाष्ये वासुदेवशब्दस्य 'आत्मा' इति तथा व्याख्याने 'प्रत्यगात्मभूत' इति, उभयत्र देवतान्तरत्वेन यदुक्तं तत् 'वासुदेवात् आत्मनः अन्याः' इति स्पष्टम् | अन्यत्र भाष्ये एव 'अहं वासुदेवः नान्यः तस्मात्' इति वासुदेवशब्दः जीवस्य पञ्चकोशविलक्षणात्मत्वेन व्याख्यातः | तेन अन्यदेवताशब्देन न केवलं विष्ण्वतिरिक्तदेवताः परन्तु प्रसिद्धविष्णुदेवता अपि अत्र अन्तर्गता | अन्यत्र केनोपनिषद्भाष्ये एवं शांकरवाक्यम् - 

आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्स्वर्गं वा प्राप्तुमिच्छति । तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्रह्म भवितुमर्हति, न त्वात्मा ; लोकप्रत्ययविरोधात् । यथान्ये तार्किका ईश्वरादन्य आत्मेत्याचक्षते, तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत् , ततोऽन्य उपासक इति । तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह — मैवं शङ्किष्ठाः । ....

तत्र प्रसक्तमन्त्रः  यद्वाचानभ्युदितं येन वागभ्युद्यते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥

तत्र यच्छब्दार्थः भाष्ये एवमुक्तः -यत् चैतन्यमात्रसत्ताकम्  इति | ...तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाद्ब्रह्मेति विद्धि विजानीहि त्वम् ।  नेदं ब्रह्म यदिदम् इत्युपाधिभेदविशिष्टमनात्मेश्वरादि उपासते ध्यायन्ति । तदेव ब्रह्म त्वं विद्धि इत्युक्तेऽपि नेदं ब्रह्म इत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थम् अन्यब्रह्मबुद्धिपरिसङ्ख्यानार्थं वा ॥ इति | 

अत्रापि पश्यन्तु - ये कर्मिणः, उपासकाः ते संसारिणः ते किमिच्छन्ति प्राप्तुम्?  ब्रह्मादिदेवान्स्वर्गं वा प्राप्तुमिच्छति इति भाष्ये उक्तम् | तदर्थं ते कं उद्दिश्य उपासनं कर्म वा अनुतिष्ठन्ति? विष्णुरीश्वर इन्द्रः प्राणो वा  देवताविशेषान् यजन्ति | तेषां दृष्ट्या एताः देवताः तेभ्यो अन्याः, ताः देवताः स्वस्माद्भिन्नत्वेन (अनात्मत्वेन) पश्यन्ति | एतस्माद्विशिष्य स्वात्मभूतमेव ब्रह्म उपासितव्यं मोक्षाख्यफलप्राप्तये इति अयं मन्त्रः प्रवृत्तः | एताः देवताः न उपनिषद्दृष्ट्या मोक्षप्रदब्रह्म अपि तु अनात्मानः एव इत्येतदर्थं विशदयन्ति भाष्यकाराः | इदं पूर्वं गीताभाष्यप्रसङ्गान्न अन्यत् इति स्पष्टं प्रतीयते | तत्र //कामैस्तैस्तैर्हृतज्ञानाः प्पद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥ // इति मोक्षादन्यफलानि सूचितानि | अत्रापि केनोपनिषदि भाष्ये तादृशानेव तेषां मोक्षेतरफलप्राप्तये तैरनुष्ठीयमानं विष्ण्वादिदेवताराधनमुक्तम् | उपनिषदभिप्रायस्तु स्पष्टमुक्तं भाष्ये - ते सर्वे (स्वस्मादन्यत्वेन) उपास्यमानाः देवताविशेषाः न औपनिषदब्रह्म भवितुमर्हन्ति, अपि तु यदनिदन्त्वेन (अहमेव तत्) इतिबुद्ध्या उपास्यं तदेव मोक्षार्थं अवलम्बनीयं ब्रह्म इति | 

एतेन किं ज्ञायते? 'देवतान्तरत्वेन स्वीकृतव्यक्तिविशेषेषु विष्णोरप्यन्तःपातित्वं शांकराभिप्रायः इति | एवमेव आनन्दगिरिगीताटीकाया अपि अर्थः ज्ञेयः | 

अपि च शंकरसाक्षाच्छिष्यसुरेश्वरवाक्यपर्यालोचनया अयमेवार्थः स्फुटयति - (अत्र शांकरबृहदारण्यकान्तर्यामिब्राह्मणभाष्यवार्तिकग्रन्थः उदाह्रियते)-

यः पृथिव्यामितीशोऽसावन्तर्यामी जगद्गुरुः ।

हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ॥

[The Br.Up. ‘he who, stationed in the pṛthvī devatā impels the mind-body-organs of that devatā….’ who is the antaryāmī, jagadguru, even though one, is variously spoken of as Hari, Brahmā and Pinākī (Śiva).]

Anandagiri: कथं श्रुत्यवष्टम्भेन ईश्वरस्य कारणत्वं, मूर्तित्रयस्य इतिहासादौ सर्गस्थितिलयेषु यथायोगं कर्तृत्वश्रुतेः, अत आह । यः पृथिव्यामिति । प्रकृतो हि ईश्वरः स्वरूपेण एकोऽपि मूर्तित्रयात्मना बहुधा उच्यते पृथिव्यादौ तस्यैव अन्तर्यामित्वेन स्थितिश्रुतेः, न च तद्विरोधे पुराणादिप्रामाण्यं सापेक्षत्वेन दौर्बल्यादिति भावः । स पूर्वेषां गुरुरितिन्यायेन (पातञ्जलयोगसूत्रम् -  एष पूर्वेषामपि गुरुः कालेनानवच्छेदात् ||1.26|)|  अन्तर्यामी इत्यस्य व्याख्या जगद्गुरुरिति ।

एतेनापि ज्ञायते प्राचीनाद्वैतिनामभिप्रायः अस्मिन् विषये कीदृश आसीदिति | अपि च पाञ्चरात्राधिकरणभाष्यटीकायां आनन्दगिरिवाक्यमेवमस्ति -  माहेश्वरमतनिरासानन्तरं वैष्ण- वमतं निरस्यति - उत्पत्तीति । इति |  

गीताभाष्ये एव वैष्णवशब्दः भाष्यकारैः //यान्ति मद्याजिनो मद्यजनशीला वैष्णवाः मामेव। // इति प्रयुक्तः |  पूर्वोक्तविषयपर्यालोचनेन एवं निर्णेतुं शक्यते - अदैत्यभिप्रेतवैष्णवः अयमेव भवितुमर्हति यः परमात्मानं विष्णुं स्वात्मत्वेन स्वाभिन्नतया   साक्षात्कर्तुं इच्छति | तादृशविष्णुः चिन्मात्रस्वरूपमेव भवितुमर्हति न तु  इतरदेवताभ्यो भिन्नः  कश्चन देवताविशेषः |  एवमेव सर्वत्र प्रसङ्गवशात् विष्णुनारायणवासुदेवादिशब्दाः भाष्ये दृष्टाः ते निर्गुणब्रह्मत्वेन ज्ञातव्याः |    

'देवता' इति शब्दप्रयोगविशेष: -

ब्रह्मसूत्रभाष्यम् व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥ 3.3.37

यथा — ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति ।

  

अत्र 'देवता' इति शब्दः जाबालशाखास्थः उदाह्रियते | अत्रायं शब्दः निर्गुणब्रह्मपर इति स्पष्टम् यतोऽत्र जीवपरयोरैक्यं उपदिष्टम् | एवञ्च 'देवतान्तर' इत्यस्यार्थः 'शुद्धचैनयादन्यः' इति पर्यवस्यति | 


अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥ 9.22

अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चि न्तयन्तः मां ये जनाः संन्यासिनः पर्युपासतेतेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहम् ; ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८)   मम प्रियः’ (भ. गी. ७ । १७) यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्च इति ॥
अत्र आनन्दगिरिव्याख्या - 

अहमेव वासुदेवः सर्वात्मा, न मत्तः अन्यत्किञ्चित् अस्ति इति ज्ञात्वा, तमेव प्रत्यञ्चं सदा ध्यायन्ते इत्याह - चिन्तयन्त इति -

 |
अनेन ज्ञायते 'अहं वासुदेव' इत्याकारकज्ञाने वासुदेवशब्दो निर्गुणब्रह्मपरः इति | सगुणवासुदेवेन सह ऐक्यासम्भवात्, नेष्टं च अद्वैते | एवञ्च अन्यदेवता इत्यस्याप्यर्थः निर्गुणब्रह्मव्यतिरिक्तसर्वा देवता सगुणभूताः इति | तासां देवतानां मध्ये सगुणविष्णुरप्यन्तर्वर्ती इति | [पूर्वदर्शितकेनोपनिषद्भाष्यवाक्यानि प्रमाणम्]
अपि च इदमपि ज्ञेयं यत् प्रस्थानत्रयभाष्ये न कुत्रापि 'सगुणब्रह्म एष एव देवताविशेषः' इत्युक्तम् | सर्वत्र सगुणब्रह्मसन्दर्भे तदुपासकानां अर्चिरादिमार्गेण ब्रह्म/हिरण्यगर्भ/प्रजापति/चतुर्मुख/सत्यलोकप्राप्तिरेव उक्ता | दशोपनिषत्सर्वास्वपि उपास्यत्वेन सूचितगुणेषु तद्वत्तया कुत्रापि देवताविशेषः सूचितः | तेषामुपासकानां तत्र ब्रह्मलोके अपरोक्षज्ञानप्राप्तिद्वारा तल्लोकावसानकाले महाप्रलये तल्लोकस्वामिब्रह्मणा सह आत्यन्तिकमुक्तिः इति अद्वैते व्यवस्था उक्ता | इयमेव क्रममुक्तिरिति प्रस्तिद्धा |  भ.गी.भाष्येऽपि अयं क्रमः स्पष्टतया उक्तो वर्तते विशेषतः अष्टमाध्याये |  
ओम् तत् सत्  
     
Reply all
Reply to author
Forward
0 new messages