Shankara says Brahman is Nirvikalpa Nirvishesha - Many scriptural evidences

62 views
Skip to first unread message

V Subrahmanian

unread,
Nov 19, 2023, 7:55:27 AM11/19/23
to A discussion group for Advaita Vedanta, Advaitin

In the Bhashyas, Shankaracharya has specified that Brahman is Nirvikalpa svarupa:

BSB 3.2.11:
उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् , न तद्विपरीतम् ।
Since the upadhis are products of Avidya one has to realize Brahman a Nirvikalpaka, free of all differences. 
BSB 3.2.21
तस्मात् निर्विकल्पकैकलिङ्गमेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम् ॥
Gita Bhashya: 14.27

अथवा, ब्रह्मशब्दवाच्यत्वात् सविकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पकः अहमेव नान्यः प्रतिष्ठा आश्रयः ।
I, Nirvikalpaka, Nirguna Brahman, am the basis for the Savikalpa Brahman.
That such an epithet to Brahman is already there in many Puranas and Minor Upanishads is shown in the sequel with references: 

कूर्मपुराणम्-उत्तरभागः/दशमोऽध्यायः
एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ।। १०.५
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् ।
ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ।। १०.६
एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ।। १०.११

पतेत् पुनः ॥ ७.१ परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् । नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२ अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः । मायाविनामहं...

लिङ्गपुराणम् - पूर्वभागः/अध्यायः ७५

यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं निराश्रयम्।।
गुरुप्रकाशकं ज्ञानमित्यन्ये मुनयो द्विजाः।। ७५.४ ।।

ज्ञानेनैव भवेन्मुक्तिः प्रसादो ज्ञानसिद्धये।।
उभाभ्यां मुच्यते योगी तत्रानंदमयो भवेत्।। ७५.५ ।।

नारदपुराणम्- पूर्वार्धः/अध्यायः ८१

एवं सिद्धे मनौ ज्ञानं साधकेंद्रस्य नारद ।।
जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम् ।। ८१-१०९ ।।


लकारेण ज्योतिर्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहितं निर्विकल्पके प्रचोदयात्प्रेरयेदित्युच्चारणरहितं चेतसैव चिन्तयित्वा भावयेदिति । परो...

अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९ तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् । अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४० एतद्वः कथितं...

सर्वज्ञानमनोरतिम् । अचलं सर्वगं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.१२ ॥ निर्विकल्पं निराभासं निष्प्रपञ्चं निरामयम् । वासुदेवं गुरुं विष्णुं सदा ध्यायन्विमुच्यते..


भावयेत्परम् । अस्वरेणानुभावेन नाभावो भाव इष्यते ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तदब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् ॥ ८ ॥ निर्विकल्पमनन्तं...


भक्तिनम्रात्मकंधरैः ।। २३ ।। गुणातीतं परेशानं त्रिदेवजनकं विभुम् ।। निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ।। २४ ।। अमायमजमाद्यञ्च मायाधीशं परात्परम्...

निःश्रेयसमनामयम्।। ८६.९८ ।। अमृतं चाक्षरं ब्रह्म परमात्मा परापरम्।। निर्विकल्पं निराभासं ज्ञानं पर्यायवाचकम्।। ८६.९९ ।। प्रसन्नं च यदेकाग्रं तदा ज्ञानमिति..


कस्य कन्या तपस्विनी ।। केन वा तपसा सा च संप्राप प्रकृतेः परम् ।। २ ।। निर्विकल्पं निरीहं च सर्वसाक्षिस्वरूपकम् ।। नारायणं परं ब्रह्म परमात्मानमीश्वरम्।।..


अप्रमेयमनाधारमविकारमनाकृति ।। निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ।।१२।। निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ।। अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम्


अहेयमनुपादेयमसामान्यविशेषणम् । ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् । निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १४ ॥ नित्यः शुद्धो बुद्धमुक्तस्वभावः सत्यः


श्रियोहेतुमविमुक्त समाश्रयाम् ।। १ ।। परं ब्रह्म यदाम्नातं निष्प्रपंचं निरात्मकम् ।। निर्विकल्पं निराकारमव्यक्तं स्थूलसूक्ष्मवत् ।। २ ।। तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो...


सर्वतोमुखम् । अहेयमनुपादेयमनाधेयमनाश्रयम् ॥ ६२ ॥ निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् । अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् ॥ ६३ ॥ सत्समृद्धं स्वतःसिद्धं...


देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः । आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥ १३॥ प्रत्याहारः समाख्यातः साक्शाद्वेदान्तवेदिभिः । एवमभ्यसतस्तस्य..


प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति ॥ 26॥ सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि । यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥ 27॥ नापेक्षते भविष्यच्च...

अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् ॥ ५४॥ साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । निरिच्च्हं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥ ५५॥ एकं ब्रह्म...


॥ २१ ॥ असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२ ॥ द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये । कल्पार्णव इवात्यन्तं


किंचिदाश्रित्य खलु शब्दः प्रवर्तते । यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥ ३१॥ निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते । तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम्..

त्रिपुरातापिन्युपनिषत् ॥८३॥

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्ज-नम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते क्रमात् ॥८॥

निर्विकल्पमनन्तंच हेतुदृष्टान्तवर्जितम् । अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः ॥९॥


Thus we have these terms/epithets that Shankara has used, in many sources. 


Om Tat Sat



Reply all
Reply to author
Forward
0 new messages