Paramarthika - Vyavaharika

29 views
Skip to first unread message

V Subrahmanian

unread,
Apr 21, 2022, 3:43:45 AM4/21/22
to Advaitin

This important premise of the Advaita, 'Paramarthika (Absolute reality) – Vyavaharika (parlance reality)', has been severely criticized by the post-Shankara schools. Madhava quotes some Buddhist text in his 'Tattvodyota' stating that this premise of Advaita is no different than that of Buddhists:

शून्यवादिसकाशात् वैलक्षण्यं मायावादिनः व्यावहारिकसत्वस्य तेनाप्यङ्गीकारात्

सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम्

सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम्

विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते

यस्य तत्सांवृतं ज्ञेयं व्यवहारपदं यत् इत्यादिना

निर्विशेषब्रह्मवादिनः शून्यात् कश्चित् विशेषस्तस्य

निर्विशेषं स्वयं भातं निर्लेपमजरामरम्

शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरम्

जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत्

नित्यभावनया भातं तद्भावं योगिनं नयेत्

भावार्थप्रतियोगित्वं भावत्वं वा तत्त्वतः

विश्वाकारं संवृत्त्या यस्य तत्पदमक्षयम् इत्यादि तद्वचः

 

Dr.BNK Sharma notes in his Philosophy of Śrī Madhvācārya http://tinyurl.com/42vhs3d page 146 footnote that the origin of these verses is not stated by Madhva, but that they are from authentic Buddhist texts is derived from the works of other researchers.
 

But we have this Paramarthika – Vyavaharika premise in the literature of Veda Vyasa in the same sense as these are employed in Advaita:

 

These verses of Vishnu Purana uphold the Paramarthika – Vyavaharika’ premise:

विष्णुपुराणम्/षष्टांशः/अध्यायः

https://sa.wikisource.org/s/1smd

तद्भावभावमापन्नस्ततोऽसौ परमात्मना

भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ,.९५

विभेदजनके ज्ञाने नाशमात्यन्तिकं गते

आत्मनो ब्रह्मणो भेदमसंतं कः करीष्यति ,.९६

इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः

संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ,.९७

खाण्डिक्य उवाच

कथिते योगसद्भावे सर्वमेव कृतं मम

तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ,.९८

ममेति यन्मया चोक्तमसदेतन्न चान्यथा

नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ,.९९

अहं ममेत्यविद्येयं व्यवहारस्तथानयोः 

परमार्थस्त्वसंलाप्यो गोचरो वचसां सः  ,.१००

तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम्

यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ,.१०१

It is vyavaharika state to say 'I am mine', due to  Avidya. The ‘paramarthika’ state is beyond words; cannot be articulated. 
 
The purport of these lines of Buddhist texts cited by Madhva –
 

सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम्

सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम्

शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरम्    (beyond words)

is conspicuous in the Vishnu Purana cited above.
 
In another chapter of the same Vishnu Purana:
https://www.transliteral.org/pages/z90413234954/view
 

ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च

नद्यः समुद्राश्च एव सर्वं यदस्ति यन्नास्ति विप्रवर्य ,१२.३८

ज्ञानस्वरूपो भगवान्यतोसावशेषमूर्तिर्न तु वस्तुभूतः

ततो हि शैलब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि  ,१२.३९

यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम्

तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः  ,१२.४०

वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम्

यच्चान्यथात्वं द्विज याति भूयो तत्तथा तत्र कुतो हि तत्त्वम् ,१२.४१

मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः

जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ,१२.४२

ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम्

एकं सदैकं परमः वासुदेवो यतोऽन्यदस्ति ,१२.४४

सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमस्तयत्यमन्यत्

एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ,१२.४५

 
The variety in the world spoken of in these verses is nothing more than vyavaharika. There is only one true paramarthika substance. The vyavaharika is said to be untrue in the above verses. The purport of these verses is also reflected in the Buddhist texts mentioned above.
 

In the Skanda Purana:

https://sa.wikisource.org/s/h1n

213b


सर्गस्थित्यप्यया यत्र रजःसत्त्वतमोगुणैः ।।
लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ।। २५ ।।
वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ।।
आद्यां विना द्वितीया द्वितीया नाद्यगा क्वचित् ।। २६ ।।
आवयोर्गोचरेयं तु तल्लीला व्यावहारिकी ।।

 

The creation, etc. of the world is due to the three gunas of prakriti, it is only the leelaa, playful expression, of the Lord, that it is real, paramarthika and vyavaharika.
 

The Paingalopanishat:

पैङ्गलोपनिषत्

 https://en.wikipedia.org/wiki/Paingala_Upanishad

https://sa.wikisource.org/s/wrb

विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति विश्वस्य नाम भवति ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् तैजसः प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति ....प्राज्ञोविच्छिन्नः पारमार्थिकः सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः नेतरयोर्व्यावहारिकप्रातिभासिकयोः

 

This Pangolopanishad https://en.wikipedia.org/wiki/Paingala_Upanishad The true nature of the jiva, individual soul, is to be realized in a state of deep sleep (when he is united with Brahman, where his samsaric nature and other forms of the world of variety are not experienced). The vyavaharika, pratibhasika and the paramarthika states are spoken of. It has similarities to the Mandukya system.
 
The Vishnu Purana:
http://satsangdhara.net/vp/adhyaya-02-14.htm
This is the story of Ribhu - Nidagha: this story is also in the Narada and Agni Puranas.
 
ध्यानं चैवात्मनो भूप परमार्थार्थशब्दितम् 
भेदकारि परेभ्यस्तु परमार्थो भेदवान् २६
परमात्मात्मनोर्योगः परमार्थ इतीष्यते
मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः २७
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि संशयः
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम २८
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः २९
परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः
योगवान्न युक्तोऽभून्नैव पार्थिव योक्ष्यते ३०
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत्
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ३१
वेणुरन्ध्रप्रभेदेन भेदः षड्जादिसंज्ञितः
अभेदव्यापिनो वायोस्तथास्य परमात्मनः ३२
एकस्वरूपभेदश्च ब्राह्मकर्मावृत्तिजः
देवादिभेदेऽपध्वस्ते नास्त्येवावरणे हि सः ३३
इति श्रीविष्णुमहापुराणे द्वितीयेंऽशे चतुर्दशोऽध्यायः (१४)
 
In these verses, Advaita's doctrinal points alone stand out. It repeatedly says that the vyavaharika duality is not true and that the non-dual Paramarthika is the Truth. It is said here that those who perceive bheda, difference, as real, do not see the Truth.
 

Narada Purana:

नारदपुराणम्- पूर्वार्धः/अध्यायः ४९

https://sa.wikisource.org/s/4zc

भेदकारि परेभ्यस्तु परमार्थो भेदवान् ।।
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।। ४९-२७ ।।

मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ।।
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि संशयः ।। ४९-२८ ।।

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ।।
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ।। ४९-२९ ।।

जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप ।।
परिज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः ।। ४९-३० ।।

योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्यति ।।
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ।। ४९-३१ ।।

विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः ।।
वेणुरंघ्रविभेदेन भेदः षङ्जादिसंज्ञितः ।। ४९-३२ ।।

 

Agni Purana:

http://www.aa.tufs.ac.jp/~tjun/data/gicas/ap3_frame.html

नान्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा 62ab
ऋभुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः 62cd
परमार्थं सारभूतमद्वैतं दर्शितं मया  62 62ef

इहागतोऽहं यास्यामि परमार्थस्तवोदितः  53cd
एकमेवमिदं विद्धि भेदः सकलं जगत् 54ab
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः 54cd

 

The Paramatma Tattva is Advaita and is not bheda, difference. The Supreme Lord, called Vasudeva is of the nature of Advaita.
 
The Chandas shaastra:

छन्दःशास्त्रम्

https://sa.wikisource.org/s/1fxq

लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा-पारमार्थिकी, व्यावहारिकी प्रातिभासिकी चेति  पारमार्थिकी, आर्थिकी, वास्तविकीत्यनर्थान्तरम् व्यावहारिकी औपयौगिकी, औपचारिकीत्यनर्थान्तरम्

This mentions the three states of reality: Paramarthika, Vyavaharika and Pratibhasika.

 

Conclusion:
 
It is easy to conclude for those who see these above textual evidences that these are similar to the sense in which they are used in Advaita. These only show that the objections of Bhaskara, Ramanuja, Madhva, Vedanta Deshaka and other post-Shankaracharya proponents charging Advaita as Buddhism in disguise is without any substance whatsoever.
Om Tat Sat

 

 

image.png

 

 
 
 
 
 
 

 

 
 
 
 
 
 
 

 

 

 

 
 
Reply all
Reply to author
Forward
0 new messages