व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः ।
निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ 3-24-42 ॥
मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्न गन्धर्वनगरोपमम् ॥ 4-12-15 ॥
सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक्
पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः || 7-13-5 ||
यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।
नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ 9-18-49 ॥
तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम्
विज्ञायात्मतया धीरः संसारात्परिमुच्यते ||10-88-10||
भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययोऽस्मृतिः ।
तन्माययातो बुध आभजेत्तं
भक्त्यैकयेशं गुरुदेवतात्मा ॥ 11-2-37 ॥
अविद्यमानोऽप्यवभाति हि द्वयोः
ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसङ्कल्पविकल्पकं मनो
बुधो निरुंध्याद् अभयं ततः स्यात् ॥ 11-2-38 ॥
श्रीभगवानुवाच
( अनुष्टुप् )
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः
गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ||11-11-1||
शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया
स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी ||11-11-2||
आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः
योऽविद्यया युक्स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ||11-11-7||
वैशारद्येक्षयासङ्ग शितया छिन्नसंशयः
प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते ||11-11-12||
विविक्तक्षेमशरणो मद्भावविमलाशयः ।
आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ 11-18-21 ॥
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ 11-18-22 ॥
यदेतदात्मनि जगन् मनो-वाक्-प्राण-संहतम् ।
सर्वं मायेति तर्केण स्वस्थः त्यक्त्वा न तत्स्मरेत् ॥ 11-18-27 ॥
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
यथेदमुदपात्रेषु भूतान्येकात्मकानि च ॥ 11-18-32 ॥
पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि
तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः ||11-22-11||
स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।
यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ 12-5-4 ॥
घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ 12-5-5 ॥
सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।
वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ 12-13-12 ॥
The following supports both Advaita and V.Advaita:
वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।
भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ 10-14-56 ॥
एक एव परो ह्यात्मा सर्वेषामपि देहिनाम्
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः |10-55-44|
यस् आत्मकमिदं विश्वं क्रतवश्च यदात्मकाः ।
अग्निराहुतयो मंत्राः साङ्ख्यं योगश्च यत्परः ॥ 10-74-20 ॥
एक एवाद्वितीयोऽसौ अवैतदात्म्यमिदं जगत् ।
आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ 10-74-21 ॥
आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः
आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ||10-85-34||
खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम्
आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ||10-85-35||
परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।
वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ 4-28-42 ॥
तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत्
आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ||11-7-9||
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम्
अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ||11-7-10||
सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः
पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः ||11-7-12||
सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं
वक्तारमीश विबुधेष्वपि नानुचक्षे
सर्वे विमोहितधियस्तव माययेमे
ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ||11-7-17||
अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम्
यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ||11-15-36||