Brahma Sutra Bhashya 2.3.7 यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् , अहमेवानागतमनागततरं च ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात् ; तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः ; वर्तमानस्वभावादन्यथास्वभावत्वं वा न सम्भावयितुं शक्यम् ; एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मानः, कार्यत्वं च आकाशस्य ॥
Whatever else may change, the Atman remains ever unchanging in all periods. 'sarvadaa vartamaana svarbhaavatvaat' - Atman is of the nature of Ever Present - says Bhagavatpada Shankaracharya.